केन्द्रीयमन्त्री सिन्धिया अद्य मध्यप्रदेशस्य चतुर्दिवसीयप्रवासे, गुना जनपदे विभिन्नेषु कार्यक्रमेषु सहभागं करिष्यति
गुना, 16 सितंबरमासः (हि.स.)। केन्द्रीयसञ्चारपूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिन्धिया अद्य बुधवासरात् मध्यप्रदेशस्य गुना जनपदस्य भ्रमणं करिष्यति। अस्मिन् प्रवासे सः विभिन्नानां विकासकार्याणां लोकार्पणं भूमिपूजनं च, जनसम्पर्कं, हितग्राहिभ
केन्द्रीय मंत्री सिंधिया


गुना, 16 सितंबरमासः (हि.स.)। केन्द्रीयसञ्चारपूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिन्धिया अद्य बुधवासरात् मध्यप्रदेशस्य गुना जनपदस्य भ्रमणं करिष्यति। अस्मिन् प्रवासे सः विभिन्नानां विकासकार्याणां लोकार्पणं भूमिपूजनं च, जनसम्पर्कं, हितग्राहिभिः संवादं, युवाभिः संवादं तथा सेवा सङ्कल्प अभियानान्तर्गतं आयोजितेषु कार्यक्रमेषु सहभागितां करिष्यति।

जिलाप्रशासनेन प्रकाशितकार्यक्रमानुसारं केन्द्रीयमन्त्री बुधवासरे भोपालतः प्रस्थाय रात्रौ ९.३० वादने बीनागञ्जे कुम्भराजे च स्थानीयकार्यक्रमेषु सहभागं करिष्यति तथा गुना सर्किट् हाउसे इत्यत्र रात्रिविश्रामं करिष्यति।

१७ सितम्बर् दिने प्रातः १०.३० वादने सः सेवासङ्कल्पाभियानान्तर्गतं गुना जिलाचिकित्सालये आयोजिते रक्तदानशिबिरे सहभागं करिष्यति। ततः प्रातः ११.४५ वादने बमोरीस्थे नूतनस्नातकमहाविद्यालयभवनस्य तथा मूढरा-हनुमान् स्थले ३३/११ केवीए विद्युत्केन्द्रस्य लोकार्पणं करिष्यति।

अपराह्णे २.१५ वादने बमोरीस्थस्य सिरसीग्रामस्य गुना-उमाई-सिरसीतः उदयपुरीमार्गे निर्मितस्य पुलियाकार्यस्य लोकार्पणं कृत्वा सहरियाचौपालकार्यक्रमे सहभागं करिष्यति। ततः अपराह्णे ३.५० वादने सेवासङ्कल्पाभियानान्तर्गतं सांगईप्राथमिकविद्यालयस्य भ्रमणं करिष्यति।

सायं ५.२० वादने गुना नगरे चिन्ताहरणमन्दिरतः हनुमानचौकपर्यन्तं ऐतिहासिकसौन्दर्यीकरणकार्यस्य भूमिपूजनं, विनायकखेड़ी-मुहालपुर-खेजरामार्गस्य तथा औद्योगिकक्षेत्रस्य ३३/११ केवीए विद्युत्केन्द्रस्य लोकार्पणं च करिष्यति। सायं ७ वादने हनुमानटेकरीस्थे ‘एकदीपः सेवासङ्कल्पस्य नाम्नि’ इति कार्यक्रमे सहभागं करिष्यति। ततः स्थानीयकार्यक्रमेषु सहभागं कृत्वा गुना सर्किट् हाउसे रात्रिविश्रामं करिष्यति।

१८ सितम्बर् २०२६ दिने प्रातः १०.३० वादने सेवासङ्कल्पाभियानान्तर्गतं बरखेड़ा गिर्दग्रामे सार्वजनिकवितरणप्रणाल्याः राशनविक्रयकेन्द्रस्य निरीक्षणं, आङ्गनवाडीकेंद्रस्य भ्रमणं तथा नमो ड्रोनदीदिभिः सह संवादं ड्रोनप्रदर्शनं च करिष्यति। प्रातः ११.३० वादने तत्रैव आयोजिते मुख्यमन्त्री जनविश्वासशिबिरे सहभागं करिष्यति।

अपराह्णे १.४० वादने गुना नगरे शुभविदाईगार्डने आयोजिते हितग्राहीकार्यक्रमे प्रधानमन्त्री आवासयोजना, लाड़लीबहनायोजना तथा पोषणाहारसम्बद्धैः हितग्राहिभिः सह संवादं करिष्यति। ततः अपराह्णे ३ वादने क्रान्तिवीरतात्याटोपेविश्वविद्यालये युवभिः सह संवादं करिष्यति।

सायं ४.१० वादने जगनपुरस्थे प्रधानमन्त्री आवासपरिसरे लाभार्थिभिः सह संवादं करिष्यति। सायं ५ वादने कलेक्ट्रेट् इत्यत्र आयोजितायां दिशानिरीक्षणसमित्याः सभायाः अध्यक्षतां करिष्यति। सभायां केदारनाथमन्दिरस्य जीर्णोद्धारविकाससम्बद्धं प्रस्तुतीकरणमपि भविष्यति। सभानन्तरं केन्द्रीयमन्त्री पत्रकारवार्तां सम्बोधयिष्यति। ततः स्थानीयकार्यक्रमेषु सहभागं कृत्वा गुना सर्किट् हाउसे रात्रिविश्रामं करिष्यति।

१९ सितम्बर् दिने केन्द्रीयमन्त्री सिन्धिया गुना नगरे आयोजितेषु विभिन्नेषु स्थानीयकार्यक्रमेषु सहभागं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani