Enter your Email Address to subscribe to our newsletters

गान्धीनगरम्, १६ सेप्टेम्बरमासः (हि.स.)। भारतस्य ब्रिक्स-अध्यक्षतायाः २०२६ अन्तर्गतं नवदिल्ली इत्यत्र १० सेप्टेम्बरतः १५ सेप्टेम्बरपर्यन्तम् आयोजिते ब्रिक्स-मेलापके १८ देशानां ४४ शिल्पिभिः स्वकीयाः पारम्परिकाः हस्तकलाः सृजनात्मकपरम्पराश्च प्रदर्शिताः। ‘शिल्पात् संस्कृतिः, जनैः सह सम्पर्कः’ इति विषयवस्तुनि आयोजितस्य अस्य मेलापकस्य संयोजनं निफ्ट्-गान्धी-नगरेण विदेशमन्त्रालयस्य विकासा-युक्तस्य कार्यालयस्य च परामर्शेन कृतम्।
राष्ट्रियशिल्पसङ्ग्रहालये हस्तकला-कलापीठे च आयोजिते अस्मिन् मेलापके भारतस्य अतिरिक्तं बेलारूस, बोलिविया, ब्राजील्, चीन, क्यूबा, मिस्र, इथियोपिया, इण्डोनेशिया, ईरान्, कजाकिस्तान, मलेशिया, नाइजीरिया, रूस्, दक्षिण-अफ्रीका, युगाण्डा, उज्बेकिस्तान् तथा वियतनामदेशानां शिल्पिभिः स्वकीयाः विशिष्टाः हस्तकलाः सृजनात्मकपरम्पराश्च प्रस्तुताः।
मेलापके हस्तनिर्मितवस्त्राणि, विलो-बुननकला, मणिकला, लाक्षाकला, प्राकृतिकवर्णमुद्रणम्, कागदपिष्ट-निर्मितकला, मृत्तिकापात्रनिर्माणम्, वयनकला, चित्रकला, प्रतिमानिर्माणम्, काष्ठ-तुम्बीकलाः, बाटिक्-कला तथा उष्ण-एनामेल्-कला इत्यादयः अनेकाः पारम्परिकाः शिल्पकलाः प्रदर्शिताः।
ब्रिक्स-मेलापकस्य विशेषाकर्षणानि निफ्ट्-गान्धीनगरेण निर्मितानि त्रयः विषयाधारिताः कलास्थापत्यरचनाः आसन्—‘एकः सङ्गमः : एकतायाः प्रतिमानानि’, ‘सांस्कृतिकसङ्गमः : एकत्र वयिता संस्कृतयः’ तथा ‘सह-अस्तित्वम् : जीवनवृक्षः’।
‘एकः सङ्गमः : एकतायाः प्रतिमानानि’ इत्यस्मिन् ब्रिक्स्-सङ्घस्य २१ सदस्य-देशानां सहयोगिदेशानां च हस्तकला-परम्पराभ्यः दृश्यभाषाभ्यश्च प्रेरितानि २१ पृथक् प्रतिमानानि एकत्र प्रस्तुतानि। विभिन्नानां सांस्कृतिक-परिचयानाम् एकस्मिन् दृश्यविन्यासे संयोजनेन एकता, संवादः परस्परसम्पर्कश्च इति सन्देशः प्रदत्तः।
‘सांस्कृतिकसङ्गमः : एकत्र वयिता संस्कृतयः’ इत्यस्मिन् वयनकलां विभिन्नसंस्कृतीनां सङ्गमस्य रूपकरूपेण प्रस्तुतम्। ‘सह-अस्तित्वम् : जीवनवृक्षः’ इत्यनेन विभिन्नसंस्कृतीनां समुदायानां प्रकृतेश्च परस्परसम्बन्धः सह-अस्तित्वस्य भावना च अभिव्यक्ता।
आगन्तुकानां कृते शिल्पिभिः तेषां हस्तकलाभिश्च सम्बद्धां पृष्ठभूमिसूचनां प्रदातुं प्रत्येकस्मिन् प्रदर्शनीस्थले विशेषपरिचयपट्टिकाः क्यूआर-सङ्केताश्च स्थापिताः आसन्। क्यूआर-सङ्केतस्य माध्यमेन जनाः सम्बद्धस्य शिल्पिनः परिचयं, तस्य हस्तकलां सम्पर्कविवरं च प्राप्तुं शक्नुवन्ति स्म।
अनेन प्रयासेन पारम्परिकहस्तकलां डिजिटल-कथाकथनेन सह संयोजितम्, येन आगन्तुकानां कृते कला-कलाकारयोः उभयोः अवगमनस्य नूतनः अनुभवः प्राप्तः।
मेलापकस्य अवधौ विभिन्नानां पारम्परिकहस्तकलानां सजीवप्रदर्शनानि अपि आयोजितानि। मध्यप्रदेशस्य खण्ड-मुद्रणकला, राजस्थानस्य लाक्षाचूडाः, काश्मीरस्य कागदपिष्टनिर्मितकला तथा राजस्थानस्य टेराकोटा-हस्तकला इत्येतासां प्रस्तुतिभिः आगन्तुकानां कृते शिल्पिनां कौशलं तेषां सृजनप्रक्रियां च समीपतः द्रष्टुं अवसरः प्राप्तः। केषुचित् कार्यक्रमेषु आगन्तुकाः शिल्पिभिः सह मिलित्वा हस्तकलानिर्माणस्य अनुभवमपि प्राप्तवन्तः।
ब्रिक्स-मेलापकः २०२६ हस्तकलां केवलं विक्रयस्य प्रदर्शनीस्य वा वस्तुरूपेण न, अपि तु संवादस्य, सांस्कृतिकावबोधस्य जनानां परस्परसम्पर्कस्य च माध्यमरूपेण प्रस्तुतवान्। भारतस्य ब्रिक्स-अध्यक्षतायाः अवधौ आयोजितायाम् अस्यां जन-सहभागिताप्रयत्नेन विभिन्नदेशानां सांस्कृतिकपरिचयानां कृते एकं सहभाग-मञ्चं प्राप्तम्।
विभिन्नदेशानां कलां परम्परां सृजन-शीलतां च एकस्मिन् मञ्चे संयोजयन् अयं कार्यक्रमः अस्मिन् दृष्ट्या अपि विशेषः आसीत् यत् अत्र हस्तकलामाध्यमेन संस्कृतिनां मध्ये संवादस्य जनानां मध्ये परस्परसम्पर्कस्य च कथा प्रस्तुता।
Hindusthan Samachar / Divya Ranjan