१७१ महाविद्यालयानां शासीमण्डलाध्यक्षाणां सूची प्रकाशित
कोलकाता, 16 सितंबरमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण मङ्गलवासरे रात्रौ राज्यस्य १७१ सर्वकारीयमहाविद्यालयानां शासीमण्डलाध्यक्षाणां नामानि समाविष्टा नूतना सूची प्रकाशिता। सूच्यां भाजपादलस्य अनेकाः प्रमुखनेतारः महाविद्यालयानां शासीमण्डलस्य अध्यक्षत्वेन
शुभेंदु अधिकारी ने किया गणेश पूजा का उद्घाटन


कोलकाता, 16 सितंबरमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण मङ्गलवासरे रात्रौ राज्यस्य १७१ सर्वकारीयमहाविद्यालयानां शासीमण्डलाध्यक्षाणां नामानि समाविष्टा नूतना सूची प्रकाशिता। सूच्यां भाजपादलस्य अनेकाः प्रमुखनेतारः महाविद्यालयानां शासीमण्डलस्य अध्यक्षत्वेन नियुक्ताः सन्ति। एतेन महाविद्यालयप्रशासनं राजनैतिकप्रभावात् मुक्तं स्थापयितुं सर्वकारस्य उद्देश्यमधिकृत्य पुनः चर्चा प्रारब्धा अस्ति।

शासीमण्डलस्य प्रथमायां सूच्यां भाजपादलस्य मन्त्रिभ्यः, सांसद्भ्यः विधायकभ्यश्च अध्यक्षत्वस्य दायित्वं प्रदत्तमासीत्। अधुना प्रकाशितायां द्वितीयसूच्यां दलस्य अनेकानां वरिष्ठप्रमुखनेतॄणां नामानि समाविष्टानि सन्ति।

उच्चशिक्षाविभागेन मङ्गलवासरे पश्चिमबङ्गविश्वविद्यालयमहाविद्यालयविधेः २०१७ इत्यस्य प्रावधानानुसारम् अस्मिन् विषये अधिसूचना प्रकाशिता। सूच्यां कोलकाता, हावडा, हुगली, उत्तरचतुर्विंशतिपरगणा, दक्षिणचतुर्विंशतिपरगणा, बर्द्धमान, बाँकुडा, बीरभूम, मुर्शिदाबाद, दार्जिलिङ्ग इत्यादीनां विभिन्नजनपदानां कुलं १७१ महाविद्यालयानि सम्मिलितानि सन्ति।

नूतनसूच्यानुसारं भाजपानेता तमोघ्नघोषः सुरेन्द्रनाथमहाविद्यालयस्य शासीमण्डलाध्यक्षः नियुक्तः। सायन्तनबसुः भाङ्गडमहाविद्यालयस्य, विमलशङ्करनन्दः चारुचन्द्रमहाविद्यालयस्य तथा शिशिरबाजोरिया आचार्यजगदीशचन्द्रबोसमहाविद्यालयस्य दायित्वं प्राप्तवन्तः।

तथैव मीनादेवीपुरोहिता सावित्रीबालिकामहाविद्यालयस्य, अञ्जनाबसुः बङ्गालसङ्गीतमहाविद्यालयस्य तथा भाजपानेत्री लॉकेटचटर्जी सम्मिलनीमहाविद्यालयस्य शासीमण्डलाध्यक्षाः नियुक्ताः सन्ति।

अस्मात् पूर्वम् अगस्तमासे २४७ महाविद्यालयानां शासीमण्डलाध्यक्षाणां सूची प्रकाशिता आसीत्। तस्यामपि सूच्यां भाजपादलस्य अनेकानां मन्त्रिणां, सांसदां विधायकानां च नामानि समाविष्टानि आसन्।

शासीमण्डलेषु राजनैतिकनियुक्तीनां विषये पूर्वस्याः तृणमूलकांग्रेससर्वकारस्य कार्यकालस्यापि चर्चा भवति। तस्मिन् काले अपि सत्तारूढदलस्य सांसदाः, विधायकाः, मन्त्रिणः पार्षदाश्च विभिन्नमहाविद्यालयानां शासीमण्डलाध्यक्षत्वेन नियुक्ताः आसन्। पूर्वमन्त्री शशिपाञ्जा पञ्च महाविद्यालयानां शासीमण्डलाध्यक्षत्वं निर्वहन्ती आसीत्।

नूतनसूच्याः प्रकाशनेन भाजपासर्वकारस्य कार्यकालेऽपि महाविद्यालयानां शासीमण्डलेषु सत्तारूढदलेन सम्बद्धानां नेतॄणां जनप्रतिनिधीनां च नियुक्तेः क्रमः निरन्तरं प्रवर्तते इति चित्रं समक्षम् आगतम्।

Hindusthan Samachar / Dheeraj Maithani