Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 16 सितंबरमासः (हि.स.)।हरियाणाराज्ये प्रधानमन्त्री नरेन्द्रमोदिनः सार्वजनिकजीवने २५ वर्षाणां पूर्णतायाः अवसरे १७ सितम्बरतः १७ अक्टोबरपर्यन्तं ‘सेवासङ्कल्पाभियानम्’ आयोजितं भविष्यति। अभियानस्य शुभारम्भः १७ सितम्बर् दिने ‘आशीर्वादस्य दीपः’ इति कार्यक्रमेन भविष्यति।
मुख्यमन्त्री नायबसिंहसैनी बुधवासरे चण्डीगढे अभियानस्य सज्जतायाः समीक्षां कृत्वा अधिकारिभ्यः आवश्यकनिर्देशान् प्रदत्तवान्। सभायां कृषिकृषककल्याणमन्त्री श्यामसिंहराणा, मुख्यमन्त्रिणः मुख्यप्रधानसचिवः राजेशकुल्लरः, मुख्यसचिवः अनुरागरस्तोगी इत्यादयः वरिष्ठाधिकारिणः उपस्थिताः आसन्। सर्वेषां जनपदानां उपायुक्ताः दृश्यश्रव्यसम्मेलनस्य माध्यमेन सभायां सम्बद्धाः आसन्।
मुख्यमन्त्री उक्तवान् यत् सर्वेषु जनपदेषु कार्यक्रमानां तिथयः कार्ययोजना च समये एव अन्तिमरूपेण निर्धारिताः भवन्तु। जनपदस्तरे नोडलाधिकारिणः निर्धारिताः भवेयुः तथा प्रत्येकस्य कार्यक्रमस्य नियमितं निरीक्षणं क्रियताम्। जनपदस्तरात् कार्यक्रमाणां प्रगतेः नियमितप्रतिवेदनं गृह्यताम् इति सः अधिकारिभ्यः निर्देशं दत्तवान्।
सः उक्तवान् यत् ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं विकासखण्डस्तरे, नगरनिगमेषु, नगरपरिषत्सु, नगरपालिकासु तथा महाग्रामेषु अपि सेवाशिबिराणि आयोज्यन्ताम्। एतेषु सेवाशिबिरेषु विभिन्नविभागैः सञ्चालितानां योजनानां लाभार्थिनां विवरणसम्बद्धानां शिकायतानां निवारणं, नवीनलाभार्थिनां संयोजनम् इत्यादीनि कार्याणि स्थले एव क्रियन्ताम्।
मुख्यमन्त्रिणा स्पष्टनिर्देशः प्रदत्तः यत् एतासां सेवाभिः लाभः स्थले एव प्रदीयताम् तथा कश्चिदपि नागरिकः शिबिरम् आगत्य पुनः कार्यालयेषु भ्रमणं कर्तुं बाध्यः न भवेत्।
मुख्यमन्त्री विद्यालयशिक्षाविभागं उच्चतरशिक्षाविभागं च निर्देशयन् उक्तवान् यत् विद्यालयेषु, महाविद्यालयेषु विश्वविद्यालयेषु च सेवा, राष्ट्रनिर्माणं सृजनशीलता च सम्बद्धाः गतिविधयः आयोज्यन्ताम्। विद्यार्थिभ्यः चित्रकलायाः, रङ्गोल्याः अन्यासां च सृजनात्मकप्रतियोगितानाम् आयोजनं क्रियताम्। जनपदस्तरे विद्यालयस्तरे च श्रेष्ठगतिविधीनां नवाचाराणां च चयनं कृत्वा तानि व्यापकस्तरे प्रदर्श्यन्ताम्। अभियाने विद्यार्थिनां युवानां च अधिकाधिकसहभागिता सुनिश्चितं क्रियताम्।
सः उक्तवान् यत् सर्वे विभागाः परस्परसमन्वयेन कार्यक्रमाणां सूक्ष्मयोजनां कुर्वन्तु। कार्यक्रमानां तिथयः एवं निर्धारिताः भवन्तु येन प्रत्येकस्मिन् कार्यक्रमे अधिकतमजनसहभागिता सुनिश्चितं भवेत्।
मुख्यमन्त्री उक्तवान् यत् ‘सेवासङ्कल्पाभियानस्य’ उद्देश्यम् सेवागतिविधिषु समाजस्य सक्रियसहभागितां सुनिश्चितं कर्तुम् अस्ति। अतः प्रशासनिकस्तरे प्रत्येकस्य कार्यक्रमस्य सुदृढा योजना निर्मीयताम् तथा अभियानं ग्रामस्तरात् विकासखण्डस्तरं, जनपदस्तरं राज्यस्तरं च यावत् प्रभावीरूपेण कार्यान्वितं क्रियताम्।
‘सेवासङ्कल्पाभियानस्य’ शुभारम्भेन सह महेन्द्रगढे आयोजिते विश्वकर्मादिवसकार्यक्रमे मुख्यमन्त्री दीनदयाललाडोलक्ष्मीयोजनायाः द्वितीयचरणस्य शुभारम्भं करिष्यति। अनेन योजनायाः लाभं अधिकेभ्यः पात्रमहिलाभ्यः प्रदातुं प्रक्रिया अग्रे वर्धिष्यते। अस्मिन्नेव अवसरे श्रमिककल्याणाय सञ्चालितानां विभिन्नयोजनानाम् अन्तर्गतं पात्रश्रमिकेभ्यः अपि लाभः प्रदास्यते।
मुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् पात्रलाभार्थिभ्यः योजनानां लाभः सुगमतया पारदर्शितया च प्राप्येत तथा कार्यक्रमस्य अवधौ तान् योजनाभिः सह सम्बद्धुं सर्वाः आवश्यकव्यवस्थाः सुनिश्चिताः क्रियन्ताम्।
---------------
Hindusthan Samachar / Dheeraj Maithani