Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, 17 सितंबरमासः (हि.स.)।
मुख्यमन्त्री योगी आदित्यनाथः गोरखपुरप्रवासावसरे गुरुवासरे प्रातः गोरखनाथमन्दिरे आयोजिते जनतादर्शने जनैः सह मिलित्वा तेषां समस्याः अशृणोत्। चिकित्सायै आर्थिकसहायतां याचितुं समागतानां जनानां प्रति सः अवदत् यत् सर्वकारः चिकित्सायै पूर्णां सहाय्यतां करिष्यति। तदर्थं आवश्यकतावतां जनानाम् आयुष्मान्परिचयपत्रं निर्मापयिष्यते, ततः अपि यदि आवश्यकता भविष्यति तर्हि विवेकाधीनकोषात् सहाय्यतां प्रदास्यते।
मुख्यमन्त्रिणा अधिकारिभ्यः निर्देशः प्रदत्तः यत् प्रत्येकस्य आवश्यकतावतः पात्रजनस्य आयुष्मान्परिचयपत्रं निर्मीयते इति सुनिश्चितं कुर्वन्तु, येन तेषां चिकित्सां प्राप्तुं कष्टं न भवेत्।
महन्तदिग्विजयनाथस्मृतिभवनस्य पुरतः आयोजिते जनतादर्शने मुख्यमन्त्री योगी प्रायः पञ्चाशदधिकैः जनैः सह मिलितवान्। सः तेषां समीपं गत्वा समस्याः अशृणोत्। तैः प्रदत्तानां प्रार्थनापत्राणाम् अवलोकनं कृत्वा समस्यायाः शिकायतायाश्च संज्ञानं गृहीतवान्। मुख्यमन्त्री जनान् अवदत् यत् ते चिन्तां मा कुर्वन्तु, सर्वकारः प्रत्येकस्य आवश्यकतावतः जनस्य पार्श्वे तिष्ठति। विभिन्नानां प्रकरणानां निस्तारणाय सः सम्बन्धितेभ्यः प्रशासनिकेभ्यः पुलिसाधिकारिभ्यश्च प्रार्थनापत्राणि प्रेषितवान् तथा तेषां हस्ते समर्पितवान्। सः निर्देशं च दत्तवान् यत् सर्वेषां समस्यानाṃ निस्तारणं समयबद्धरूपेण, निष्पक्षतया, सन्तोषप्रदरीत्या च भवितव्यम्।
दिव्याङ्गस्य चिकित्सायाः व्यवस्था, पेंशनम् अपि पुनः प्रवर्तयिष्यते
जनतादर्शने देवरियाजनपदात् समागतः एकः दिव्याङ्गः चिकित्सायै सहाय्यतां प्रदातुं मुख्यमन्त्रिणं निवेदितवान्। मुख्यमन्त्रिणा तत्क्षणमेव अधिकारिभ्यः समुचितव्यवस्थां कर्तुं निर्देशः प्रदत्तः। दिव्याङ्गेन सह सम्भाषणसमये यदा मुख्यमन्त्रिणः ज्ञातं यत् तस्य आयुष्मान्परिचयपत्रं नास्ति, तदा सः अधिकारिभ्यः अवदत् यत् शीघ्रातिशीघ्रं तस्य आयुष्मान्परिचयपत्रं निर्माप्यताम्। मुख्यमन्त्रिणा तस्मात् दिव्याङ्गपेन्शनस्य विषये अपि पृष्टम्। तदा ज्ञातं यत् पूर्वं तस्मै पेन्शनं प्राप्यते स्म, किन्तु किञ्चित्कारणात् सा सम्प्रति स्थगिता अस्ति। अस्मिन् विषये मुख्यमन्त्रिणा अधिकारिभ्यः उक्तस्य दिव्याङ्गस्य पेन्शनं पुनः प्रवर्तयितुं निर्देशः प्रदत्तः।
गोशालायां गोसेवा
गोरखनाथमन्दिरे प्रवाससमये मुख्यमन्त्रिणः योगी आदित्यनाथस्य दिनचर्या परम्परानुसारम् एव आसीत्। प्रातःकाले गुरुगोरखनाथस्य स्वस्य ब्रह्मलीनस्य गुरुदेवस्य महन्तस्य अवेद्यनाथस्य च आशीर्वादं प्राप्य मुख्यमन्त्री योगी मन्दिरस्य गोशालायां गोसेवाम् अकरोत्। सः स्वहस्ताभ्यां गोवंशेभ्यः गुडं भोजयित्वा तेषु स्नेहं प्रदर्शितवान्। सः गोशालायाः कार्यकर्तृभ्यः गोवंशस्य स्वास्थ्यस्य टीकाकरणस्य च विषये सूचनां प्राप्तवान् तथा तेषां समुचितपरिचर्यायै आवश्यकान् निर्देशान् दत्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani