Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 17 सितंबरमासः (हि.स.)।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्ततितमस्य जन्मदिवसस्य अवसरे ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी प्रदेशवासिनां पक्षतः तस्मै हार्दिकाः शुभकामनाः अर्पितवान्। मुख्यमन्त्रिणा सामाजिकसञ्चारमाध्यमे ‘एक्स’ इत्यत्र सन्देशं प्रकाशित्य प्रधानमन्त्रिणः दीर्घायुषः, उत्तमस्वास्थ्यस्य निरन्तरमार्गदर्शनस्य च कामना कृता।
मुख्यमन्त्री माझी स्वकीयसन्देशे प्रधानमन्त्रिणः नरेन्द्रमोदिनं ‘विकसितभारतस्य’ स्वप्नद्रष्टारं, राष्ट्रियस्वाभिमानस्य जनसेवायाश्च प्रतीकरूपेण वर्णितवान्। तेन उक्तं यत् प्रधानमन्त्रिणः दूरदर्शिनः नेतृत्वेन देशे नवजागरणस्य नूतनः अध्यायः रचितः अस्ति।
मुख्यमन्त्रिणा ओडिशाप्रदेशस्य ओडिशावासिनां च प्रति प्रधानमन्त्रिणः स्नेहाय राज्यस्य आधारभूतसंरचनायाः विकासे तेन प्रदत्तस्य सहकारस्य च कृते कृतज्ञता प्रकटिता। तेन उक्तं यत् प्रधानमन्त्रिणः जनकल्याणकारीभिः आदर्शैः प्रेरितः सन् ओडिशाप्रदेशे ‘सेवासंकल्पपर्व’ आचर्यते।
माझिना उक्तं यत् समर्पितजनसेवायाः, निर्धनकल्याणस्य समाजस्य अन्तिमपङ्क्तौ स्थितस्य प्रत्येकस्य जनस्य जीवने सुखसमृद्धिं आनेतुं संकल्पस्य च सह समृद्धस्य, सशक्तस्य विकसितस्य च ओडिशाप्रदेशस्य निर्माणाय प्रदेशसर्वकारः पुनः प्रतिबद्धः अस्ति।
मुख्यमन्त्रिणा भगवतः श्रीजगन्नाथात् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दीर्घस्वस्थजीवनस्य उत्तमस्वास्थ्यस्य च कामना कृता। तेन उक्तं यत् प्रधानमन्त्रिणः दीर्घा साधनापूर्णा च जीवनयात्रा देशाय निरन्तरं नूतनां दिशं प्रददातु।
मुख्यमन्त्रिणा प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे ‘विकसितभारतस्य’ लक्ष्यप्राप्तेः कामना कुर्वता उक्तं यत् भारतं निरन्तरं प्रगतेः पथि अग्रे गच्छतु।
---------------
Hindusthan Samachar / Dheeraj Maithani