Enter your Email Address to subscribe to our newsletters

विश्वे प्रतिवर्षं १८ सितम्बरमासे अन्ताराष्ट्रियसमानवेतनदिवसः आचर्यते। अस्य दिवसस्य उद्देश्यं समानमूल्ययुक्तस्य कार्यस्य कृते समानवेतनस्य सुनिश्चिती-करणम्, महिलाभिः बालिकाभिश्च सह क्रियमाणस्य भेदभावस्य निराकरणम् तथा कार्यस्थले विद्यमानानां सर्वविधानां वेतनविषमतानां दूरीकरणाय जागरूक-तायाः प्रसारः च अस्ति।
अन्ताराष्ट्रियसमानवेतनदिवसः प्रथमवारं २०२० तमे वर्षे आचरितः। अस्य दिवसस्य मुख्यसन्देशः अस्ति यत् कस्यचित् व्यक्तेः लिङ्गस्य अथवा अन्यस्य भेदभावपूर्णस्य आधारस्य कारणेन समानकार्यस्य कृते न्यूनं वेतनं न दातव्यम्। समानवेतनस्य विषयः महिलानाम् आर्थिकस्वातन्त्र्येन, सम्माननेन तथा रोजगारस्य समानावसरैः अपि सम्बद्धः अस्ति।
संयुक्तराष्ट्रमहासभया १५ नवम्बरमासे २०१९ तमे वर्षे १८ सितम्बरमासः अन्ताराष्ट्रियसमानवेतनदिवसरूपेण आचरितुम् प्रस्तावः अनुमोदितः। अस्य प्रस्तावस्य १०५ सदस्यदेशैः सह-प्रायोजनं कृतम् आसीत्। अस्य प्रयत्नस्य अन्तर्गतं श्रमिकसङ्घटनानां, नियोजकानां, व्यवसायानां तथा अन्यासां सम्बद्ध-संस्थानां भूमिकामपि महत्त्वपूर्णां मन्यते। संयुक्तराष्ट्रेण समानवेतनस्य प्राप्त्यर्थं क्रियमाणेषु प्रयत्नेषु समानवेतन-अन्ताराष्ट्रिय-सङ्घटनस्य योगदानमपि स्वीकृतम् अस्ति।
महत्त्वपूर्णाः घटनाक्रमाः
११८० — फिलिप-अगुस्टसः फ्रान्सदेशस्य राजा अभवत्।१६१५ — आङ्ग्लदेशस्य राजा जेम्सः प्रथमस्य राजदूतः थामस-रो-जहाँगीरेण सह मिलितुं सूरत-नगरं प्राप्तवान्।१८०३ — आङ्ग्लैः ओडिशाराज्यस्य पुरी-नगरस्य आधिपत्यं स्वीकृतम्।१८०९ — लण्डन-नगरे रॉयल ओपेरा-गृहम् उद्घाटितम्।१८१० — चिली-देशेन स्पेनदेशात् पृथक्त्वस्य घोषणा कृता।१८१२ — मास्को-नगरे अग्निकाण्डेन नगरस्य विशालः भागः विनष्टः, १२ सहस्रजनानां मृत्युः अभवत्।१८५१ — न्यूयार्क टाइम्स-पत्रस्य प्रकाशनम् आरब्धम्।१९१९ — हॉलैण्ड-देशे महिलाभ्यः मतदानस्य अधिकारः प्राप्तः।१९२२ — हङ्गरी-देशः राष्ट्रसङ्घस्य सदस्यः अभवत्।१९२६ — अमेरिकादेशस्य मियामी-नगरे चक्रवातेन २५० जनानां मृत्युः अभवत्।१९६१ — तत्कालीनसोवियतसङ्घेन परमाणुपरीक्षणं कृतम्।१९६७ — नागालैण्ड्-प्रदेशेन आङ्ग्लभाषा आधिकारिकभाषारूपेण स्वीकृता।१९८७ — अमेरिकया सोवियतसङ्घेन च मध्यमदूरत्वस्य प्रक्षेपास्त्राणां निष्कासनाय सन्धिः हस्ताक्षरितः।१९८८ — बर्मादेशेन स्वस्य संविधानं निरस्तीकृतम्।१९८६ — मुम्बई-नगरे प्रथमवारं महिलाचालकैः जेट्-विमानं चालितम्।१९९७ — संयुक्तराज्य-अमेरिकया ‘होलोग’ इति नाम्ना भूमिगतं परमाणुपरीक्षणं कृतम्।१९९७ — ओजोनस्तरस्य रक्षणाय १०० देशैः २०१५ तमवर्षपर्यन्तं मिथाइल-ब्रोमाइड इत्यस्य उत्पादनं स्थगयितुं निश्चयः कृतः।१९९८ — संयुक्तराज्य-अमेरिकायाः उपरि संयुक्तराष्ट्रस्य एक-अरब-डॉलर-परिमितस्य ऋणस्य घोषणा कृता।२००३ — ढाका-अगरतला-बससेवा प्रारब्धा।२००६ — रूसी रॉकेट सोयुज् अन्ताराष्ट्रिय-अन्तरिक्षकेन्द्रस्य दिशि प्रस्थितम्। संयुक्तराष्ट्रस्य महासचिवपदस्य स्पर्धायां अफगानिस्तानस्य पूर्ववित्तमन्त्री अशरफ् गनी सम्मिलितः अभवत्।२००७ — कनाडादेशे १९६०-दशके जीवाश्मस्य अन्वेषणेन चर्चिताय भारतीयभूवैज्ञानिकाय जी. बी. मिश्राय विशेषसम्मानं प्रदत्तम्।२००८ — शोभना भरतिया एच. टी. मीडिया इत्यस्याः अध्यक्षपदे नियुक्ता।२००९ — सूचनाप्रौद्योगिकीक्षेत्रस्य एच. सी. एल. इति संस्थायाः संस्थापक-अध्यक्षः शिवनाडारः ब्रिटेनस्य व्यापार-विनियोग-व्यवसायवर्षस्य पुरुष्कारं प्राप्तवान्।२००९ — भारतस्य लद्दाख-क्षेत्रे अन्यतमा विमानपट्टिका उद्घाटिता।२०१६ — जम्मू-कश्मीरस्य उरी-क्षेत्रे नियन्त्रणरेखायाः समीपे स्थिते भारतीयसेनायाः स्थानीयमुख्यालये आतङ्कवादिभिः आक्रमणं कृतम्, यस्मिन् अनेकाः सैनिकाः वीरगतिं प्राप्तवन्तः।
जन्म
१९०० — शिवसागरः रामगुलामः — मॉरिशसस्य प्रथमः मुख्यमन्त्री, प्रधानमन्त्री तथा षष्ठः गवर्नर-जनरल च आसीत्।१९०६ — काका हाथरसी — भारतीयः हास्यकविः।१९३१ — श्रीकान्तः वर्मा — हिन्दी-साहित्यस्य प्रसिद्धः कथाकारः, गीतकारः, समीक्षकः राजनीतिज्ञश्च।१९५० — शबाना आजमी — हिन्दी-चलचित्रजगतः प्रसिद्धा अभिनेत्री।१९५७ — स्नेहलता श्रीवास्तवः — लोकसभायाः प्रथमाः महिलामहासचिवाः।१९६८ — बालाशोवरी वल्लभानेनी — आन्ध्रप्रदेशस्य वाई. एस. आर. कांग्रेस-पक्षस्य राजनीतिज्ञः।१९७९ — विनयरायः — भारतीयः अभिनेता।१९८३ — सनाया ईरानी — भारतीयाऽभिनेत्री।
निधनम्
१८९९ — राजनारायणबोसः — बाङ्ग्लभाषायाः प्रसिद्धः लेखकः तथा बाङ्ग्लपुनर्जागरणस्य चिन्तकेषु एकः।१९३० — जोसेफः बैपटिस्टा — प्रसिद्धः राजनीतिज्ञः तथा अधिवक्ता।१९५३ — असितसेनः — हिन्दी-चलचित्राणां हास्याभिनेता।१९५७ — सारंगधरदासः — स्वतन्त्रतासेनानी।१९५८ — भगवानदासः — ‘भारत रत्न’ सम्मानितः स्वतन्त्रतासेनानी, समाजसेवी तथा शिक्षाशास्त्री।१९६१ — डैगहैमरस्क्जोंल्डः — संयुक्तराष्ट्रस्य द्वितीयः महासचिवः।१९७७ — सुधीरंजनदासः — भारतस्य पूर्वतनः पञ्चमः मुख्यन्यायाधीशः।१९९२ — मुहम्मदहिदायतुल्लाहः — भारतस्य प्रथमः मुस्लिमः मुख्यन्यायाधीशः तथा भारतस्य प्रथमः कार्यवाहकराष्ट्रपतिः।१९९५ — काका हाथरसी — भारतीयः हास्यकविः।२००२ — शिवाजी सावन्तः — मराठीभाषायाः प्रसिद्धः साहित्यकारः।
महत्त्वपूर्णाः अवसराः— अन्ताराष्ट्रियसमानवेतनदिवसः।— विश्वबांसदिवसः।— राष्ट्रीयहिन्दीदिवसः — सप्ताहः।
Hindusthan Samachar / Divya Ranjan