Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ सेप्टेम्बरमासः (हि.स.)। वित्तमन्त्रालयेन १८-१९ सेप्टेम्बरमासयोः नवदिल्ली इत्यत्र राज्येषु केन्द्रशासित-प्रदेशेषु च वित्तमन्त्रिणां वित्तसचिवानां च द्विदिवसीयं सम्मेलनम् आयोजयिष्यते। द्विदिवसीये अस्मिन् सम्मेलने ‘विकसित-भारतस्य’ विकासयात्रायै नीतिगत-प्राथमिकतानां वित्तपोषणस्य आवश्यक-तानां च विषये अपि चर्चा भविष्यति।
वित्तमन्त्रालयेन गुरुवासरे प्रकाशिते निवेदने एषा सूचना प्रदत्ता। मन्त्रालयस्य अनुसारं केन्द्रीयवित्त-निर्माणीकार्य-मन्त्री अस्मिन् सम्मेलने उपस्थितः भविष्यति। अनेकेषां राज्यानां मुख्यमन्त्रिणः वित्तमन्त्रिणः राज्यसर्वकाराणां वरिष्ठाधि-कारिणश्च सम्मेलने भागं ग्रहीष्यन्ति। मन्त्रालयेन उक्तं यत् उद्घाटनसत्रे आर्थिककार्यविभागस्य सचिवा अनुराधा-ठाकुरः सम्मेलनस्य उद्देश्यानां विषये सूचनां प्रदास्यति।
मन्त्रालयस्य अनुसारं ‘विकसितभारतस्य यात्रायै वित्तपोषणम्’ इति विषये आयोजिते द्विदिवसीये सम्मेलने केन्द्रस्य राज्यस्य च नीतिषु समन्वयस्य विकासाय वित्त-पोषणस्य आवश्यकतानां च विषये चर्चा भविष्यति। अस्मिन् शैक्षणिकानुसन्धानस्य व्यावहारिकानां नीतिगत-अनुभवानां च चर्चायां समावेशः भविष्यति।
वित्तमन्त्रालयस्य अनुसारं सम्मेलने त्रीणि सत्राणि भविष्यन्ति। एतेषु सत्रेषु बृहदर्थ-व्यवस्थायाः विकासः, कृषिक्षेत्रे परिवर्तनाय वित्तपोषणम् ऊर्जापरिवर्तनस्य वित्तपोषणं च इत्येतेषु विषयेषु चर्चा भविष्यति। आर्थिकवृद्धिसंस्थानस्य अध्यक्षः आजीवन-न्यासी च तथा पञ्चदशवित्तायोगस्य अध्यक्षः एन.के.सिंहः सम्मेलनं सम्बोधयिष्यति। महाराष्ट्रस्य पूर्व-अतिरिक्तमुख्यसचिवः वित्तसचिवश्च सुधीर-श्रीवास्तवः ‘विकसितभारतस्य’ वित्त-पोषणस्य विषये राज्यस्य दृष्टिकोणं प्रस्तोष्यति।
अस्य अतिरिक्तं सांख्यिकी-कार्यक्रम-कार्यान्वयन-मन्त्रालयस्य (एमओएस-पीआई) सचिवः सौरभगर्गः ‘विकसित-भारतस्य’ विकासयात्रायां वृद्धेः परिणामानां मापनस्य महत्त्वस्य विषये वक्तव्यं प्रदास्यति। इलेक्ट्रॉनिकी-सूचना-प्रौद्योगिकी-मन्त्रालयस्य (मेइटी) सचिवः एस. कृष्णन् सुशासनस्य प्रोत्साहने नवीनप्रौद्योगिक्याः भूमिकायाः विषये स्वविचारान् प्रस्तोष्यति।
Hindusthan Samachar / Divya Ranjan