Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 सितंबरमासः(हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् अन्नपूर्णायोजना बङ्गालस्य महिलानाम् आत्मविश्वासस्य सुदृढीकरणाय महत्त्वपूर्णः प्रयासः अस्ति। योजनायाः अन्तर्गतं प्रायः सार्धैककोटिमितानां महिलानां बैंकखातासु गुरुवासरे चतुर्था किस्तिः प्रेष्यते। प्रत्येकस्यै लाभार्थिन्यै महिलायै प्रतिमासं त्रिसहस्ररुप्यकाणि प्राप्स्यन्ति, येन ताभिः पारिवारिकानां आवश्यकव्ययानां कृते कस्मिन्नपि आश्रयः न स्वीकरणीयः भविष्यति।
प्रधानमन्त्री पश्चिमबङ्गे अन्नपूर्णादिवसस्य अवसरे आयोजितं कार्यक्रमं प्रति दृश्यसन्देशस्य माध्यमेन सम्बोधयन् अवदत् यत् गृहे मातॄणां भगिनीनां च स्कन्धेषु बह्व्यः उत्तरदायित्वाः भवन्ति। यदा आवश्यकव्ययस्य चिन्ता न्यूनीभवति तदा तासाम् आत्मविश्वासः अपि वर्धते। अन्नपूर्णायोजना एतादृश्याः भावनायाः सह बङ्गालस्य महिलानाम् आर्थिकसशक्तीकरणस्य दिशि महत्त्वपूर्णं सोपानम् अस्ति।
सः अवदत् यत् योजनायाः धनराशिः प्रत्यक्षतया महिलानां बैंकखातासु प्राप्यते, अतः ताभिः तदर्थं कस्यचित् कथनस्य आवश्यकता न भविष्यति। तेन विशेषतया उक्तं यत् योजनायां न किमपि अवैधधनग्रहणम् अस्ति, न च कश्चित् मध्यस्थः अस्ति।
मोदी अवदत् यत् सर्वकारस्य लक्ष्यं यत् एकापि पात्रा महिला अन्नपूर्णायोजनायाः लाभात् वञ्चिता न भवेत्। तेन उक्तं यत् बङ्गालस्य महिलासु स्वकीयान् निर्णयान् स्वीकर्तुं सामर्थ्यं अग्रे गन्तुं च उत्साहः भवेत् तथा च अस्मिन् अन्नपूर्णायोजनायाः महती भूमिका अस्ति।
प्रधानमन्त्री अवदत् यत् मातॄणां भगिनीनां पुत्रीणां च जीवनसम्बद्धानां विविधावश्यकतानां ध्यानं कृत्वा केन्द्रसर्वकारेण बह्व्यः योजनाः प्रारब्धाः सन्ति। तासु गर्भावस्थायां पोषणाय प्रधानमन्त्रिमातृवन्दनायोजना, पुत्रीणां सुरक्षायै शिक्षायै च ‘बेटी बचाओ बेटी पढ़ाओ’ इति योजना, सुकन्यासमृद्धियोजना, स्वावृत्तये मुद्रायोजना, उज्ज्वलायोजना, प्रत्येकगृहे जलप्रदाययोजना, सौभाग्ययोजना, आयुष्मान्भारतयोजना, जनधनयोजना च अन्तर्भवन्ति।
सः अवदत् यत् बङ्गाले विगतेषु वर्षेषु केन्द्रसर्वकारस्य बह्वीनां योजनानां लाभः समये न प्रापितः, येन निर्धनपरिवाराणां हानिः अभवत्। अधुना स्थगितानां योजनानां लम्बितानां परियोजनानां च कार्यं तीव्रं क्रियते। प्रधानमन्त्रिणा सूचितं यत् बङ्गाले पञ्चाशल्लक्षाधिकानां नवीनानां निर्धनपरिवाराणां परिचयः कृतः अस्ति, येभ्यः प्रधानमन्त्रिआवासयोजनायाः अन्तर्गतं पक्कगृहाणि प्रदास्यन्ते। प्रधानमन्त्रिविश्वकर्मायोजनायाः अपि राज्ये कार्यान्वयनस्य सः उल्लेखं कृतवान्।
मोदी अवदत् यत् बङ्गालस्य मातॄणां भगिनीनां जनानां च आशीर्वादेन सह मिलित्वा नूतनः बङ्गालः निर्मास्यते। तेन उक्तं यत् विकसितबङ्गालस्य सामर्थ्येन विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति। प्रधानमन्त्री अन्नपूर्णादिवसस्य सह विश्वकर्मपूजायाः अपि शुभकामनाः प्रदत्तवान्।
--------------
Hindusthan Samachar / Dheeraj Maithani