Enter your Email Address to subscribe to our newsletters

भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरे इन्दौरनगरे प्रदेशस्य पञ्जीकृतासु सञ्चालितासु च गोशालासु व्यवस्थापितस्य गोवंशस्य कृते जुलाई-मासस्य २०२६ तमवर्षस्य अनुदानराशिम् अन्यर्जाल-डीबीटी-माध्यमेन वितरिष्यति। अस्मिन् अवसरे ५ लक्षं ४० सहस्रं ३०५ गोवंशस्य व्यवस्थापनाय ६६ कोटिः ७३ लक्षं ८१ सहस्रं १६० रूप्यकाणाम् अनुदानराशिः गोशालानां धनागारेषु अन्तरिता करिष्यते।
जनसम्पर्काधिकारी सुनीलवर्मा इत्यनेन सूचितं यत् प्रदेशसर्वकारेण पञ्जीकृतासु सञ्चालितासु च गोशालासु व्यव-स्थापितस्य गोवंशस्य कृते प्रतिगोवंशं प्रतिदिनं ४० रूप्यकाणां क्रमेण अनुदानं प्रदीयते। अस्यैव क्रमानुसारं जुलाई-मासाय २०२६ तमवर्षस्य निर्धारिता-नुदानराशेः वितरणं मुख्यमन्त्री डॉ. मोहनयादवः करिष्यति।
तेन उक्तं यत् मध्यप्रदेशगोसंवर्धनमण्डलेन पशुपालन-डेयरी-विभागेन च प्रदीयमाना एषा धनराशिः गोशालासु गोवंशस्य उत्तमव्यवस्थापनाय भरणपोषणाय च उपयोक्ष्यते। अन्तर्जाल-डीबीटी-माध्यमेन क्रियमाणेन अस्य प्रदानेन अनुदानराशिः प्रत्यक्षतया सम्बद्धानां गोशालानां धनागारेषु प्राप्स्यति।
Hindusthan Samachar / Divya Ranjan