प्रधानमन्त्रिणः मोदी-महोदयस्य जन्मदिने अद्य सायं ७ वादने सम्पूर्णे मध्यप्रदेशे प्रज्वलिष्यन्ति ‘आशीर्वादस्य दीपाः’
ग्रामेभ्यः नगरपर्यन्तं प्रज्वलिष्यन्ति ‘आशीर्वादस्य दीपाः’, विशिष्टस्थलेभ्यः पञ्चायत्पर्यन्तं दीपप्रज्वलनम् भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशसर्वकारेण प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य जन्मदिवसस्य शुभावसरे १७ सेप्टेम्बरमासतः १७ अक
फाइल फाेटाे


ग्रामेभ्यः नगरपर्यन्तं प्रज्वलिष्यन्ति ‘आशीर्वादस्य दीपाः’, विशिष्टस्थलेभ्यः पञ्चायत्पर्यन्तं दीपप्रज्वलनम्

भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशसर्वकारेण प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य जन्मदिवसस्य शुभावसरे १७ सेप्टेम्बरमासतः १७ अक्टोबरमासः २०२६ पर्यन्तं ‘सेवासङ्कल्प-अभियानम्-२०२६’ प्रारभ्यते। अभियानस्य शुभारम्भः अद्य गुरुवासरे (१७ सेप्टेम्बरमासः) ‘आशीर्वादस्य दीपः’ इति कार्यक्रमेण भविष्यति। अस्य कार्यक्रमस्य अन्तर्गतं सायं ७ वादने प्रदेशस्य प्रत्येकस्मिन् जनपदे चयनितेषु विशिष्टस्थलेषु, सर्वेषु ग्रामपञ्चायतेषु तथा नगरीयनिकायानां प्रत्येकस्मिन् प्रभागे एकस्मिन् समये सामूहिकरूपेण दीपप्रज्वलनं करिष्यते।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उज्जयिन्यां स्थिते ‘श्रीमहाकालमहलोके’ आयोज्यमाने मुख्यकार्यक्रमे सहभागितां करिष्यति। सामूहिकदीपप्रज्वलनाय प्रदेशस्य प्रत्येकस्मिन् जनपदे १० प्रमुखविशिष्टस्थानानां चयनं कृतम् अस्ति। एतेषु धार्मिकाणि आध्यात्मिकानि च केन्द्राणि, यथा उज्जयिन्याः श्रीमहाकालमहलोकः, ओरछायाः श्रीराम-राजालोकः, सलकनपुरस्य देवीलोकः, प्रमुखाणि मन्दिराणि तथा पवित्रनदीनां घट्टाः च सम्मिलिताः सन्ति। तदतिरिक्तं विकासस्य निर्माणस्य च प्रतीकभूतासु परियोजनासु, यथा प्रधानमन्त्रिणः आवासयोजनायाः मोहल्लासु निवासक्षेत्रेषु च, नवनिर्मितेषु सेतुषु, सेतुबन्धेषु, अमृतसरोवरेषु, स्थानीयजलसंरचनासु तथा नर्मदाघाटीविकासस्य परियोजनासु अपि दीपाः प्रज्वालयिष्यन्ते।

स्वास्थ्य-ऊर्जा-शिक्षाक्षेत्रैः सम्बद्धाः आधारभूतसंरचनाः अपि अस्य आयोजनस्य प्रमुखकेन्द्राणि भविष्यन्ति। अखिल-भारतीय-आयुर्विज्ञानसंस्थानेषु, आयुष्मान्-योजनायाः अन्तर्गतं सूचीबद्धेषु चिकित्सालयेषु, औषधालयेषु, जनौषध-केन्द्रेषु, सौरविद्युत्-उद्यानेषु तथा नवीकरणीय-ऊर्जापरियोजनासु, विद्यालयेषु, महाविद्यालयेषु, पञ्चायत-भवनेषु तथा सामुदायिककेन्द्रेषु सामूहिकदीपप्रज्वलनं भविष्यति। तदतिरिक्तं प्रदेशस्य ऐतिहासिकधरोहर-स्थलेषु, दुर्गेषु तथा प्रमुखेषु सार्वजनिकेषु पर्यटनस्थलेषु च दीपान् प्रज्वाल्य जनसेवायाः सङ्कल्पः स्वीकरिष्यते।

अस्मिन् अवसरे स्वसहायतासमूहानां महिलाः, लाडलीबहना-योजनायाः हित-ग्राहिण्यः, कृषकाः, युवानः, विद्यार्थिनः तथा विभिन्नयोजनानां लाभग्राहिणः च बहुसंख्यया उपस्थिताः भूत्वा कार्यक्रमस्य सफलतायै योगदानं दास्यन्ति।

––––––––––––––––––––––––––––––––––––––––––––––––––––

Hindusthan Samachar / Divya Ranjan