प्रधानमन्त्रिणः मोदिनः जन्मदिवसे महाकालमन्दिरे विशेषपूजा, हर-हर-महादेव-जयघोषैः निनादितं परिसरम्
उज्जयिनी, १७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्म-दिवसस्य अवसरे विश्वप्रसिद्धे ज्योतिर्लिङ्गे श्रीमहाकालेश्वरमन्दिरे विशेषपूजार्चना कृता। अस्मिन् अवसरे सम्पूर्णः मन्दिरपरिसरः ‘हर-हर-महादेव’
प्रधानमंत्री की तस्वीर रखकर भगवान महाकाल का विशेष पूजन करते हुए पुरोहित


उज्जयिनी, १७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्म-दिवसस्य अवसरे विश्वप्रसिद्धे ज्योतिर्लिङ्गे श्रीमहाकालेश्वरमन्दिरे विशेषपूजार्चना कृता। अस्मिन् अवसरे सम्पूर्णः मन्दिरपरिसरः ‘हर-हर-महादेव’ इति जयघोषैः निनादितः।

प्रधानमन्त्रिणः मोदिनः जन्मदिवसस्य अवसरे वरिष्ठपुरोहितेन पण्डित-सत्यनारायणजोशिना अन्यैः विद्वद्भिर्ब्राह्मणैश्च वैदिकमन्त्रघोषैः सह भगवत: महाकालस्य भव्यपूजार्चना कृता। पुरोहितैः प्रधानमन्त्रिणः दीर्घायुः, उत्तमस्वास्थ्यं राष्ट्रकल्याणं च कामयित्वा सङ्कल्पपूर्वकम् अनुष्ठानं कारितम्। अस्मिन् समये गर्भगृहे प्रधानमन्त्रिणः मोदिनः चित्रं स्थापयित्वा तस्मै तिलकं कृतम् तथा तस्य यशस्विनः सफलस्य च कार्यकालस्य मङ्गलकामना कृता।

विशेषपूजनस्य अनन्तरं महाकालेश्वर-मन्दिरे दीपोत्सवस्य भव्यः शुभारम्भः कृतः। सम्पूर्णं महाकाल-मन्दिरपरिसरम् आकर्षकैः आतिशबाजी-प्रकाशैः विद्युद्दीपैश्च अलङ्कृतम् अस्ति। केवलं महाकालमन्दिरस्य प्राङ्गणे एव षट्-सप्तलक्षं दीपाः प्रज्वाल्यमानाः सन्ति, येन सम्पूर्णः परिसरः सुवर्णमयीभिः प्रभाभिः देदीप्यमानः अभवत्।

शिप्रातटे रामघाटे पञ्चविंशतिलक्षदीपैः नूतनविश्वविक्रमस्य सज्जता

मन्दिरपरिसरेण सह अस्य भव्यस्य महोत्सवस्य प्रमुखम् आकर्षणं पवित्रायाः शिप्रानद्याः तटे स्थिते रामघाटे दृश्यते। रामघाटे एकस्मिन् समये प्रायः पञ्चविंशतिलक्षं दीपान् प्रज्वाल्य नूतनं ऐतिहासिकं विश्वविक्रमं स्थापयितुं सज्जता कृता अस्ति। सायं प्रायः सप्तवादने भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः प्रदेशस्य मुख्यमन्त्री मोहनयादवश्च उज्जयिनीं प्राप्य भगवत: महाकालस्य दर्शनं करिष्यतः तथा ऐतिहासिकस्य दीपोत्सवस्य शुभारम्भं करिष्यतः।

उल्लेखनीयं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना एव भव्यस्य श्रीमहा-काललोकस्य लोकार्पणं कृतम् आसीत्। ततः उज्जयिन्यां श्रद्धालूनां सङ्ख्यायाम् ऐतिहासिकरूपेण बहुगुणा वृद्धिः अभिलिखिता अस्ति। उज्जयिन्याम् अद्य प्रधानमन्त्रिणः जन्मदिवसः हर्षोल्लासेन आचर्यते। सम्पूर्णः महाकालपरिसरः अवन्तिकानगरी च अद्य श्रद्धया, भव्यतया दीपानां च प्रकाशेन आलोकितः दृश्यते।

महाकालमन्दिरस्य पुरोहितः पण्डित-सत्यनारायणजोशी अवदत् यत् अद्य प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे बाबा महाकालस्य सन्निधौ विशेषपूजार्चना कृता। वैदिक-ऋचाभिः सह प्रधानमन्त्रिणः दीर्घायुः, उत्तमस्वास्थ्यं भारतस्य च विश्वगुरुत्वप्राप्तेः सङ्कल्पं कृत्वा बाबा महाकालस्य अभिषेकः पूजनं च कृतम्। सः अवदत् यत् प्रधानमन्त्रिणः जन्मदिवसः स्मरणीयः भवेत् इति उद्देश्येन मन्दिरप्रशासनेन नगरवासिभिश्च व्यापकाः सज्जताः कृताः सन्ति। अस्य कृते सुरक्षायाः व्यवस्थायाश्च सुदृढाः प्रबन्धाः कृताः सन्ति।

Hindusthan Samachar / Divya Ranjan