प्रधानमन्त्रिणः मोदी-महोदयस्य जन्मदिवसे स्वामित्वयोजना अपूर्वम् उपहारम् - नितिन नवीनः
इन्दौरम्, १७ सेप्टेम्बरमास: (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे मध्यप्रदेश-सर्वकारेण प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे स्वामित्व-योजनारूपेण उपहारं प्रदत्तम् अस्ति।
इंदौर में सेवा-संकल्प अभियान के शुभारंभ कार्यक्रम को संबोधित करते हुए भाजपा अध्यक्ष नवीन


इंदौर में सेवा-संकल्प अभियान के शुभारंभ कार्यक्रम में हितग्राहियों को निशुल्क रजिस्ट्री वितरित करते हुए


इन्दौरम्, १७ सेप्टेम्बरमास: (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे मध्यप्रदेश-सर्वकारेण प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे स्वामित्व-योजनारूपेण उपहारं प्रदत्तम् अस्ति।

भाजपायाः राष्ट्रियाध्यक्षः नवीनः गुरुवासरे इन्दौरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे सेवासङ्कल्पा-भियानस्य शुभारम्भकार्यक्रमं सम्बोधितवान्। कार्यक्रमे मुख्यमन्त्रिणः भाजपाध्यक्षस्य च उपस्थितौ ‘स्वामित्व-अधिकार-अभिलेख-निष्पादन-पञ्जीकरण-२०२६’ योजनायाः अन्तर्गतं निजसम्पत्तीनां निःशुल्क-पञ्जीकरणस्य दस्तावेजप्रदानाभियानस्य शुभारम्भः अभवत्।

भाजपायाः राष्ट्रियाध्यक्षः स्वीयसम्बोधने अवदत् यत् लोकमाता देवी अहिल्याबाई होल्करे सुशासनस्य, धर्मसंस्कृतेः जनसेवायाश्च दृढं आधारं स्थापितवती आसीत्। सा विधवाभगिनीभ्यः सम्पत्त्यधिकारं नैयायिकसुरक्षां च प्रदातुं प्रयत्नं कृतवती आसीत्। तस्याः प्रेरणया मुख्यमन्त्री डॉ. यादवः स्वामित्वयोजनायाः माध्यमेन निर्धनानां स्वप्नान् साकारान् कर्तुं प्रशंसनीयं कार्यं कृतवान्। अस्याः योजनायाः शुभारम्भः देवी अहिल्यायाः नगरी इन्दौरतः भवति। एतत् पञ्जीकरणं केवलं कागदस्य खण्डः न, अपि तु ग्राम्यजनानां स्वाभिमानेन जीवनस्य अधिकारप्रदानस्य माध्यमम् अस्ति।

सः अवदत् यत् दशकेभ्यः ग्रामजनानां स्वभूमेः स्वामित्वाधिकारः न प्राप्तः। प्रधानमन्त्रिणा मोदी-महोदयेन देशे स्वामित्वयोजना कार्यान्विता, यस्याः सुखद: परिणाम: अधुना मध्यप्रदेशे दृश्यते। मध्यप्रदेशसर्वकारेण सम्पूर्णप्रदेशे प्रायः ६८ लक्षभूखण्डानां सर्वेक्षणं कृतम् अस्ति। अद्यतः ५० लक्षजनेभ्यः निःशुल्क-पञ्जीकरणेन अधिकारं प्रदातुं शुभारम्भः कृतः। अस्य कृते राज्यसर्वकारेण विस्तृता कार्ययोजना सज्जीकृता अस्ति। अद्य भगवान् विश्वकर्मणः जयन्ती अस्ति। देशस्य श्रमिकेभ्यः परिश्रमिभ्यश्च भगवत: विश्वकर्मणः आशीर्वादः निरन्तरं प्राप्यते।

राष्ट्रियाध्यक्षः नवीनः अवदत् यत् प्रधानमन्त्रिणः मोदी-महोदयस्य जन्म-दिवसे वयं सेवासङ्कल्पाभियानस्य शुभारम्भं कृतवन्तः। प्रधानमन्त्रिणः मोदी-महोदयस्य सङ्कल्पस्य बलेन अद्य देशस्य ८० कोटिपरिवारेभ्यः निःशुल्कं धान्यं प्राप्यते। कोविड्-काले निःशुल्कं प्रतिषेधकं प्रदत्तम्। सम्पूर्णदेशे निर्धनानां जनधन-धनागारपंजिका: उद्घाटितानि। निर्धनानां आवश्यकताग्रस्तानां च जनानां स्वाभिमानेन जीवनस्य अवसरः प्राप्तः। प्रधानमन्त्रिणा विगतेषु २५ वर्षेषु सेवया समर्पणभावेन च देशस्य सेवा कृता अस्ति। मध्यप्रदेशस्य भूमौ वयं सर्वे मिलित्वा प्रधानमन्त्रिणः मोदी-महोदयस्य दीर्घायुष्याय ‘आशीर्वाददीपं’ प्रज्वा-लयिष्यामः। सः अवदत् यत् प्रधानमन्त्रिणः मोदी-महोदयस्य वैश्विककार्यक्रमेषु गमने सति विश्वे भारतस्य प्रभावः वर्धते।

सः अवदत् यत् प्रधानमन्त्रिणा मोदी-महोदयेन १७ सेप्टेम्बरमासे २०२५ तमे वर्षे ‘स्वस्थनारीशक्तिपरिवारयोजनायाः’ शुभारम्भः कृतः। २०२३ तमे वर्षे अस्मिन्नेव दिवसे देशस्य कारीगराणां शिल्पकाराणां च कृते ‘पीएम विश्वकर्मायोजनायाः’ शुभारम्भः कृतः। अद्य दिल्ली इत्यत्र ‘सेमिकॉन इण्डिया-२०२६’ इत्यस्य उद्घाटनं भवति। मध्यप्रदेशे ५० लक्षजनाः स्वामित्वयोजनायाः लाभं प्राप्नुवन्ति। प्रधानमन्त्रिणा प्रत्येकं योजनायाम् अन्त्योदयस्य भावः सर्वोपरि स्थापितः अस्ति। प्रधानमन्त्रिणः सङ्कल्पेन अयोध्यायां भव्यश्रीराममन्दिरस्य उज्जयिन्यां च श्रीमहाकालमहाकालोकस्य निर्माणं सम्पन्नम् अस्ति। देशस्य ३ कोट्यधिकाः लक्षपतिभगिन्यः स्वावलम्बिन्यः अभवन्। स्वसहायता-समूहेषु सम्बद्धाः ९३ लक्षभगिन्यः आजीविकामिशन इत्यस्य माध्यमेन देशस्य विकासे योगदानं ददति। युवभ्यः स्टार्टअपयोजना मुद्रा योजना च सञ्चाल्येते। देशे २ लक्षं स्टार्टअप्-संस्थाः प्रगतिं कुर्वन्ति, याः अन्येभ्यः रोजगारस्य अवसरान् प्रददति।

सः अवदत् यत् प्रधानमन्त्रिणा सीमावर्तिग्रामेषु विकासः प्राथमिकतया स्वीकृतः। प्रधानमन्त्रिणा निर्धनानां आवश्यकताग्रस्तानां च जनान् केन्द्रे स्थापयित्वा योजनाः निर्मिताः। प्रधान-मन्त्रिणा ‘विकसितभारत-२०४७’ इति स्वप्नं दृष्टम् अस्ति। देशस्य प्रत्येकः नागरिकः स्वविकासं करिष्यति चेत् देशोऽपि निश्चयेन प्रगतिं करिष्यति।

मुख्यमन्त्री मोहनयादवोऽपि कार्यक्रमं सम्बोधितवान्। अस्मिन् अवसरे भाजपाध्यक्षः अतिथयश्च कार्यक्रमस्थले शासनस्य विभिन्नानां जनकल्याण-कारीयोजनानां कार्यक्रमाणां च तथा जनपदे सञ्चाल्यमानानां विकासगति-विधीनां च आधारेण आयोजितां प्रदर्शिनीम् अवलोकितवन्तः।

स्वामित्व-अधिकार-अभिलेख-निष्पादन-पञ्जीकरण-२०२६ अन्तर्गतं निज-सम्पत्तिनां निःशुल्कं पञ्जीकरणम्

कार्यक्रमे सूचितं यत् प्रधानमन्त्रिणः मोदी-महोदयस्य स्वप्नं साकारं कर्तुं राज्य-सर्वकारेण ‘स्वामित्व-अधिकार-अभिलेख-निष्पादन-पञ्जीकरण-२०२६’ इत्यस्य अन्तर्गतं ५० लक्षनिजसम्पत्तीनां निःशुल्कपञ्जीकरणाभियानस्य शुभारम्भः कृतः। अधुना प्रदेशस्य ग्रामीणभ्रातृभ्यः भगिनीभ्यश्च गृहाणां पञ्जीकरणाय किमपि धनं न दातव्यम्। मध्यप्रदेशः एतादृशं कार्यं कर्तुं देशस्य प्रथमं राज्यम् अभवत्। प्रदेशे अधुना पर्यन्तं प्रायः ६८ लक्षाधिकारपत्राणि सज्जीकृतानि सन्ति, तेषु ५० लक्षपत्राणि निजगृहाणां सन्ति। अद्यतः एतेभ्यः गृहस्वामिभ्यः निःशुल्कपञ्जीकरणं प्रदातुं राज्यसर्वकारेण प्रायः ४ सहस्रकोटि-रूप्यकाणि व्ययितुं निर्णयः कृतः।

Hindusthan Samachar / Divya Ranjan