Enter your Email Address to subscribe to our newsletters


आसनसोलम्, 17 सितंबरमासः (हि.स.)।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे गुरुवासरे पश्चिमबङ्गसर्वकारस्य लोकनिर्माणस्य जनस्वास्थ्याभियांत्रिकीविभागस्य च मन्त्री कुल्टीविधानसभाक्षेत्रस्य विधायकः च डॉ. अजयकुमारपोद्दारः रानीबङ्गलास्वास्थ्यकेन्द्रे ईसीएल-सङ्कटोरियाचिकित्सालये च चिकित्सार्थं प्रवेशितानां रोगिणां मध्ये फलानि वितरितवान्।
अस्मिन् समये डॉ. पोद्दारेण चिकित्सालये प्रवेशितैः रोगिभिः सह मिलित्वा तेषां स्वास्थ्यस्य विषये संसूचना प्राप्ता तथा तेषां शीघ्रस्वास्थ्यलाभस्य कामना कृता। तेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः उत्तमस्वास्थ्यस्य दीर्घायुष्यस्य च अपि कामना कृता।
डॉ. पोद्दारः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः सेवा, सुशासनं, निर्धनजनकल्याणं च प्रति समर्पितं जीवनं प्रेरणास्रोतः अस्ति। तस्य नेतृत्वे देशः विकासस्य आत्मनिर्भरत्वस्य च दिशि निरन्तरम् अग्रे गच्छति।
कार्यक्रमस्य समये मण्डलाध्यक्षः सञ्जुघोषः, मनमोहनरायः, सौरभचौरसियः, राजूयादवः, सिद्धार्थचौहानः, शिल्पीरायः, आनन्दकुम्भकारः, आशीषपातरः, भुवनमण्डलः, बुलेटगोराई, बैद्यनाथबाउरी, दीबेन्दुः, चिन्मयघोषः इत्यादयः स्थानीयाः भाजपाकार्यकर्तारः, चिकित्सकाः, स्वास्थ्यकर्मचारिणः, गणमान्यनागरिकाश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani