Enter your Email Address to subscribe to our newsletters


लखनऊ, 17 सितंबरमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्ततितमे जन्मदिवसस्य अवसरे ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं लखनऊस्थिते नागरिकचिकित्सालये रक्तदानशिबिरस्य शुभारम्भं कृतवान्। अस्मिन् अवसरे उपमुख्यमन्त्रिणा चिकित्सालये फलवितरणमपि कृतम्। तेन रोगिणां परिचारकैः सह आत्मीयं मिलनं कृत्वा सर्वसम्भवसहायतायै आश्वासनं प्रदत्तम्।
ब्रजेशपाठकेन रक्तदानं कृतवद्भिः रक्तदातृभिः सह मिलित्वा तेषाम् उत्साहवर्धनं कृतम्। अस्मिन् अवसरे उपमुख्यमन्त्री अवदत् यत् रक्तस्य एका बिन्दुरपि आवश्यकताग्रस्तस्य जनस्य जीवने नूतनां आशां जनयितुं शक्नोति। प्रधानमन्त्रिणः जन्मदिवसे कृतमिदं सेवाकार्यं ‘सेव एव सङ्कल्पः, स्वस्थप्रदेश एव अस्माकं लक्ष्यं’ इत्यस्य भावनां साकारं करोति। तेन उक्तं यत् जनसेवा एव सर्वश्रेष्ठः सङ्कल्पः तथा मानवसेवा एव सच्ची सेवा अस्ति। प्रधानमन्त्रिणः जन्मदिवसं सेवायाः संवेदनायाः समर्पणस्य च भावनया आचरितुम् अयं अवसरः अस्मान् समाजस्य अन्तिमसोपानस्थं जनमपि सेवां प्रापयितुं प्रेरयति।
अस्मिन् अवसरे भाजपायाः महानगराध्यक्षः आनन्दद्विवेदी, नागरिकचिकित्सालयस्य निदेशकः डॉ. जी. पी. गुप्तः, मुख्यचिकित्साधीक्षकः डॉ. एस. एस. पाण्डेयः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।
-----------------
Hindusthan Samachar / Dheeraj Maithani