राष्ट्रपतिः, उपराष्ट्रपतिः, लोकसभाध्यक्षः केन्द्रीयमन्त्रिणश्च प्रधानमन्त्रिणे मोदिने जन्मदिवसस्य शुभकामनाः प्रदत्तवन्तः।
नवदिल्ली, 17 सितम्बरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः, उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, लोकसभाध्यक्षः ओमबिरला, रक्षामन्त्री राजनाथसिंहः इत्यादयः सत्तापक्षस्य विपक्षस्य च बहवः नेतारः गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे
प्रतीकात्मक


नवदिल्ली, 17 सितम्बरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः, उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, लोकसभाध्यक्षः ओमबिरला, रक्षामन्त्री राजनाथसिंहः इत्यादयः सत्तापक्षस्य विपक्षस्य च बहवः नेतारः गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे तस्मै हार्दिकाः बधायाः शुभकामनाश्च प्रदत्तवन्तः।

राष्ट्रपतिः मुर्मुः सामाजिकमाध्यमे लिखितवती, प्रधानमन्त्रिणे मोदिने जन्मदिवसस्य हार्दिकाः बधायाः शुभकामनाश्च। विगतेषु पञ्चविंशतिवर्षेषु मुख्यमन्त्रिरूपेण प्रधानमन्त्रिरूपेण च भवता सुशासनस्य बहवः नवीनाः प्रतिमानाः स्थापिताः तथा च समावेशिविकासाय अभूतपूर्वा गतिः नूतना दिशा च प्रदत्ता। सांस्कृतिकगौरवस्य भावनया सह आधुनिकप्रगतेः मार्गे अग्रे गच्छन्तः अस्माकं देशवासिनः धरोहरायाः विकासस्य च समन्वयं साकारं कुर्वन्ति। अहम् ईश्वरात् भवतः उत्तमस्वास्थ्यस्य दीर्घायुष्यस्य च प्रार्थनां करोमि, येन भवान् जनसेवायाः राष्ट्रनिर्माणस्य च स्वकीयम् अभियानं निरन्तरम् अग्रे नेतुं शक्नुयात्।

उपराष्ट्रपतिः अवदत् यत् प्रधानमन्त्रिणः मोदिनः दृढेन दूरदर्शिना च नेतृत्वेन भारतं विश्वे दीप्तिमन्तं नक्षत्रमिव तथा च तीव्रगत्या वर्धमानासु प्रमुखासु अर्थव्यवस्थासु अन्यतमम् इव उद्भवति। पञ्चविंशत्यधिकाः कोटयः भारतीयाः घोरदारिद्र्यात् बहिः निर्गताः सन्ति। क्रान्तिकारी डिजिटलपरिवर्तनेन लक्षशः जनाः सशक्ताः कृताः सन्ति तथा च अन्तरिक्षात् प्रौद्योगिक्याः स्वास्थ्यसेवायाः च क्षेत्रेभ्यः आधारभूतसंरचनायाः विनिर्माणस्य च क्षेत्रपर्यन्तं सर्वेषु क्षेत्रेषु महती प्रगतिः अभवत्। पश्चाद्गतानि जनपदानि ‘आकाङ्क्षीजनपदानि’, सीमावर्तीग्रामाः ‘जीवन्ताः प्रथमग्रामाः’, उत्तरपूर्वक्षेत्रं च ‘अष्टलक्ष्मी’ इति कथनं भवतः दूरदर्शितायाः परिचायकम् अस्ति। एषा चिन्तना भौगोलिकरूपेण पश्चाद्गतानां क्षेत्राणां सशक्तीकरणे परिणता, येन ‘विकसितभारतस्य’ यात्रायां विभिन्नक्षेत्राणां जनानां सक्रियसहभागिता सम्भविता।

बिरला अवदत् यत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे भारतम् अधुना आत्मविश्वासेन वैश्विके पटले स्वस्य नूतनां परिचितिं निर्माति। विकासस्य, आत्मनिर्भरत्वस्य, नवाचारस्य, अङ्कीयप्रगतेः, आधारभूतसंरचनायाः विस्तारस्य, जनकल्याणस्य च दिशि देशः निरन्तरं नूतनानि आयामानि स्थापयति। पञ्चविंशतेः वर्षेभ्यः अधिकं भवतः सार्वजनिकजीवनं लोकतान्त्रिकमूल्यानां संवर्धनाय देशस्य दुर्बलवञ्चितजनानां च कृते अत्यन्तं फलदायकं सिद्धम् अस्ति। राष्ट्रस्य उन्नत्यै समर्पितं भवतः कर्मशीलं जीवनं कोटिशः देशवासिभ्यः विकसितभारतस्य ध्येयस्य दिशि निरन्तरं कार्यं कर्तुं प्रेरणां ददाति। ईश्वरं प्रार्थये यत् सः भवते उत्तमस्वास्थ्यं दीर्घायुष्यं निरन्तरराष्ट्रसेवायै सामर्थ्यं च प्रददातु।

राजनाथसिंहः अवदत् यत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे भारतं ‘विकसितभारतस्य’ लक्ष्यस्य दिशि पूर्णात्मविश्वासेन अग्रे गच्छति। आधारभूतसंरचनातः अङ्कीयसम्पर्कपर्यन्तं, दरिद्रजनकल्याणात् नवाचारस्य उद्यमितायाश्च क्षेत्रपर्यन्तं वयं प्रत्येकस्मिन् क्षेत्रे ऐतिहासिकां उल्लेखनीयां च प्रगतिं प्राप्तवन्तः। अधुना नागरिकानां जीवनं अधिकं सुगमं जातम्, अवसरानां विस्तारः अभवत् तथा च प्रत्येकस्य नागरिकस्य गरिमापूर्णं जीवनं सुनिश्चितं कर्तुं कार्यं क्रियते।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः अवदत् यत् कर्मणः साधनां राष्ट्रसेवां च जीवनस्य ध्येयं कृत्वा प्रवर्तमानस्य प्रधानमन्त्रिणः मोदिनः जीवनं तपस्यायाः त्यागस्य अखण्डस्य सङ्कल्पस्य च गाथा अस्ति। सेवया समर्पणेन च परिपूर्णा तस्य यात्रा कोटिशः देशवासिनां कृते प्रेरणास्रोतः अस्ति। ईश्वरं प्रार्थये यत् सः दीर्घायुः स्वस्थश्च भवेत् तथा च तस्य नेतृत्वे देशः प्रगतेः नूतनानि शिखराणि प्राप्य द्विसहस्रसप्तचत्वारिंशत्तमे वर्षे विकसितभारतस्य लक्ष्यं सिद्धं कर्तुं दिशि निरन्तरम् अग्रे गच्छेत्।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी अवदत् यत् राष्ट्रं प्रथमम् इत्यस्य प्रेरणया देशवासिनां कल्याणाय विगतेभ्यः पञ्चाशदधिकवर्षेभ्यः निरन्तरं कार्यं कुर्वता विश्वस्य सर्वाधिकलोकप्रियनेत्रा प्रधानमन्त्रिणा मोदिना नेतृत्वे देशात् भयस्य क्षुधायाः भ्रष्टाचारस्य च पूर्णतया उन्मूलनं भवेत्, भारतम् आत्मनिर्भरं भवेत् तथा च देशः पुनः विश्वगुरोः स्थानं प्राप्नुयात् इत्येताः अस्माकं शुभकामनाः। वयं ईश्वरात् भवतः उत्तमस्वास्थ्यस्य दीर्घायुष्यस्य च प्रार्थनां कुर्मः।

संसदीयकार्याणां मन्त्री किरेणरिजिजुः अवदत् यत् सः प्रधानमन्त्रिणः मोदिनः उत्तमस्वास्थ्यस्य दीर्घायुष्यस्य च कामनां करोति, यतः स एव सर्वान् विकसितभारतस्य दिशि नेतुम् अग्रसरः अस्ति।

केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्री डॉ. जितेन्द्रसिंहः अवदत् यत् प्रधानमन्त्रिणः मोदिनः दृढसङ्कल्पेन, अखण्डेन उत्साहेन, जनसेवायै च समर्पणेन भारतस्य विकासयात्रायाः तथा आत्मनिर्भरभारतस्य विकसितभारतस्य च संकल्पनायाः स्वरूपं निर्मितम् अस्ति।

लोकसभायां प्रतिपक्षनेता राहुलगान्धी तथा काङ्ग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखर्गे अपि प्रधानमन्त्रिणे मोदिने तस्य जन्मदिवसस्य अवसरे शुभकामनाः प्रदत्तवन्तौ।

---------------

Hindusthan Samachar / Dheeraj Maithani