Enter your Email Address to subscribe to our newsletters

शिमला, 17 सितंबरमासः (हि.स.)।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्ततितमजन्मदिवसस्य अवसरे गुरुवासरे भारतीयजनतापक्षस्य पक्षतः देशव्यापिनः सेवासङ्कल्पाभियानस्य अन्तर्गतं सामाजिककार्यक्रमाः आयोजिताः भवन्ति। राजधानीशिमलायामपि भारतीयजनतापक्षेन भारतीयजनतायुवमोर्चेन च रक्तदानशिबिरसहिताः बहवः कार्यक्रमाः आयोजिताः।
शिमलायाः ऐतिहासिके रिजमैदाने भाजयुमो जिला शिमलायाः पक्षतः रक्तदानशिबिरस्य आयोजनं कृतम्। तदतिरिक्तं शिमलाविधानसभाक्षेत्रस्य फागुनगरे, बालूगञ्जस्थिते मातृकामनामन्दिरे तथा शिमलाग्रामीणक्षेत्रस्य सुन्नीनगरेऽपि कार्यक्रमाः आयोजिताः।
रिजमैदाने आयोजितस्य रक्तदानशिबिरस्य शुभारम्भं भाजपायाः शिमलाजिलाध्यक्षः केशवचौहानः भाजयुमो जिला अध्यक्षः सुमितठाकुरश्च स्वयमेव रक्तदानं कृत्वा कृतवन्तौ। सुमितठाकुरः उक्तवान् यत् भाजयुमो प्रत्येकवर्षं प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे सामाजिककार्यक्रमान् आयोजयति। अस्यैव क्रमानुसारं अस्मिन् वर्षे रिजमैदाने रक्तदानशिबिरम् आयोजितम् अस्ति। तेन उक्तं यत् शिबिरे न्यूनातिन्यूनं ७६ रक्तघटानां सङ्ग्रहस्य लक्ष्यं निर्धारितम् अस्ति। तस्य अनुसारं जिला शिमलया सह प्रदेशस्य विभिन्नस्थलेष्वपि भाजयुमो-पक्षतः रक्तदानशिबिराणि आयोजितानि भवन्ति।
प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे शिमलायां सायंकाले भाजपायाः प्रदेशकार्यालये दीपकमले ऐतिहासिके जाखूमन्दिरे च सामूहिकदीपमालायाः आयोजनमपि क्रियते। तदतिरिक्तं नगरे ‘आशीर्वादस्य दीपः’ इत्यभियानस्य अन्तर्गतं जनान् स्वस्वगृहेषु दीपान् प्रज्वालयितुम् आह्वानं कृतम् अस्ति।
भाजपाजिलाध्यक्षः केशवचौहानः प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चविंशतिवर्षीयं सार्वजनिकजीवनं सेवायाः सङ्कल्पस्य च कालखण्डम् इति उक्तवान्। तेन उक्तं यत् मोदिना विश्वे भारतस्य नूतनपरिचितिं स्थापयितुं तथा २०४७ तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्यं पुरतः स्थापितम् अस्ति।
चौहानेन अनुच्छेदत्रिशतसप्ततिः निरस्तं करणम्, राममन्दिरस्य निर्माणम्, आयुष्मान्भारतयोजना, त्रितलाक्प्रथायाः समाप्तिश्च इत्यादीनां कार्याणां उल्लेखं कृत्वा एतानि राष्ट्रहितसम्बद्धानि महत्त्वपूर्णकार्याणि इति कथितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani