प्रधानमन्त्रिणः मोदिनः जन्मदिवसस्य अवसरे मुख्यमन्त्रिणी रेखागुप्ता हवनं रक्तदानं च कृतवती
नव दिल्ली, 17 सितंबरमासः (हि.स.)। दिल्ल्याः मुख्यमन्त्री रेखागुप्ता अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे खाटूश्यामविशालमन्दिरे दिल्लीधामे आयोजिते अष्टाधिकशत कुण्डीययज्ञे विधिवत् हवनं कृत्वा तस्य दीर्घायुषः, यशस्विनः राष्ट्रसेवाय
खाटू श्याम विशाल मंदिर दिल्ली धाम में आयोजित 108 कुण्डीय यज्ञ में विधिवत हवन करती दिल्ली की  मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 17 सितंबरमासः (हि.स.)।

दिल्ल्याः मुख्यमन्त्री रेखागुप्ता अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे खाटूश्यामविशालमन्दिरे दिल्लीधामे आयोजिते अष्टाधिकशत कुण्डीययज्ञे विधिवत् हवनं कृत्वा तस्य दीर्घायुषः, यशस्विनः राष्ट्रसेवायै समर्पितस्य च जीवनस्य मङ्गलकामनां कृतवती। ततः मुख्यमन्त्रिणी त्यागराजक्रीडाङ्गणे आयोजिते महतीरक्तदानशिबिरे केन्द्रीयः राज्यमन्त्री प्रदेशाध्यक्षश्च हर्षमल्होत्रः सहितं दिल्लीसर्वकारस्य मन्त्रिभिः सह रक्तदानं कृतवती।

मुख्यमन्त्रिणी सामाजिकमाध्यमस्य एक्स्-माध्यमे प्रकाशिते सन्देशे उक्तवती यत् अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे खाटूश्यामविशालमन्दिरे दिल्लीधामे आयोजिते अष्टाधिकशत कुण्डीययज्ञे सप्तदशसहस्रं न्यासिनः सहभागिनः अभवन्। दिव्याङ्गबालकैश्च सुन्दरकाण्डस्य पाठं कृत्वा प्रधानमन्त्रिणः दीर्घायुषः यशस्विनश्च जीवनस्य मङ्गलकामना कृता।

सा उक्तवती यत् बाबा श्यामः अस्माकं प्रधानसेवकाय निरन्तरम् ऊर्जां सामर्थ्यं सफलतां च प्रददातु तथा च राष्ट्रहितसम्बद्धस्य तस्य प्रत्येकस्य सङ्कल्पस्य सिद्धिर्भवतु।

---------------

Hindusthan Samachar / Dheeraj Maithani