प्रधानमन्त्रिणः मोदिनः जन्मदिवसे दिलीपघोषेण रोगिभ्यः फलानि दीपाश्च वितरिताः
कोलकाता, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्तति-तमे जन्मदिवसे तथा राष्ट्रसेवायाः पञ्चविंशतिवर्षपूर्तेः उपलक्ष्ये भारतीय-जनतापक्षस्य पक्षतः प्रारब्धस्य एकमासीयस्य ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं पञ्चायतमन्त्री दिलीपघोषः
पश्चिम बंगाल के पंचायत मंत्री दिलीप घोष (फाइल फोटो)


कोलकाता, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्तति-तमे जन्मदिवसे तथा राष्ट्रसेवायाः पञ्चविंशतिवर्षपूर्तेः उपलक्ष्ये भारतीय-जनतापक्षस्य पक्षतः प्रारब्धस्य एकमासीयस्य ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं पञ्चायतमन्त्री दिलीपघोषः मिदनापुर-वैद्यकीयमहाविद्यालये चिकित्सालये च रोगिभ्यः फलानि वितरितवान्।

गुरुवासरे प्रातः दिलीपघोषः मिदनापुर-वैद्यकीयमहाविद्यालयं चिकित्सालयं च गत्वा रोगिभ्यः फलानि वितरितवान्। ततः मिदनापुरनगरस्य बटतलाचतुष्पथात् सामान्यजनानां मध्ये मृत्तिकादीपाः वितरिताः। तेन जनान् प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे सायं षड्वादनतः सप्तवादनपर्यन्तं स्वस्वगृहेषु दीपप्रज्वालनं कर्तुम् आह्वानं कृतम्।

भारतीयजनतापक्षस्य पक्षतः प्रधान-मन्त्रिणः नरेन्द्रमोदिनः सार्वजनिक-जीवनस्य राष्ट्रसेवायाश्च पञ्चविंशति-वर्षपूर्तेः अवसरे पूर्णमासं यावत् विविधाः सेवागताः गतिविधयः आयोज्यमानाः सन्ति।

Hindusthan Samachar / Divya Ranjan