Enter your Email Address to subscribe to our newsletters

जयपुरम्, 17 सितंबरमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मा प्रधानमन्त्रिणे नरेन्द्रमोदिने जन्मदिवसस्य हार्दिकं बधाईशुभकामनाश्च प्रदाय अवदत् यत् प्रधानमन्त्रिणः सम्पूर्णं जीवनं जनसेवाराष्ट्रसेवयोः संकल्पाय समर्पितम् अभवत्। तस्य परिश्रमेण, दूरदृष्ट्या राष्ट्रनिष्ठया च भारतस्य सामर्थ्याय नूतना प्रतिष्ठा प्राप्ता अस्ति। मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे देशः आत्मनिर्भरता, सुशासनं विकसितभारतस्य च दिशि अग्रे गच्छति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः स्नेहेन मार्गदर्शनेन च राजस्थानप्रदेशः विकासस्य नूतनमार्गे अग्रसरः अस्ति। रामजलसेतुलिङ्कपरियोजना, यमुनाजलसमझौता, राजस्थानशोधनागारः जयपुरमेट्रोद्वितीयचरणं च इत्यादयः महत्त्वपूर्णाः निर्णयाः प्रदेशस्य विकासाय गतिं प्रददति। जलस्य, ऊर्जायाः, परिवहनस्य, औद्योगिकविकासस्य च क्षेत्रेषु अपि निरन्तरं प्रयासाः क्रियन्ते।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे देशः आत्मनिर्भरता, सुशासनं विकसितभारतस्य च दिशि निर्णायकानि पदानि अग्रे स्थापयति। विकासस्य गतिः ग्रामेभ्यः नगरेभ्यः समाजस्य अन्तिमस्तरपर्यन्तं च प्राप्ता अस्ति तथा जनकल्याणकारीयोजनाभिः कोटिशः परिवाराणां जीवने सकारात्मकः परिवर्तनः अभवत्।
सः अवदत् यत् प्रधानमन्त्रिणः साहसिकनेतृत्वेन देशस्य आन्तरिकसुरक्षा सुदृढा अभवत्, रक्षाक्षेत्रे स्वदेशीसामर्थ्यं वर्धते तथा विश्वे भारतस्य प्रतिष्ठा प्रतिमा च सुदृढा जाता अस्ति।
सः अवदत् यत् प्रदेशसर्वकारेण युवजनानां हिताय महत्त्वपूर्णानि पदानि गृहीतानि सन्ति। सार्धद्विवर्षस्य अवधौ एकलक्षनवत्युत्तरनवसहस्रपदेषु नियुक्तयः प्रदत्ताः सन्ति तथा एकलक्षविंशत्युत्तरनवसहस्रपदेषु नियुक्तिप्रक्रिया प्रचलति। वर्षे द्विसहस्रे षड्विंशतितमे एकलक्षपञ्चविंशतिसहस्रपदानां कृते नियुक्तिपञ्चाङ्गं प्रकाशितम् अस्ति।
मुख्यमन्त्रिणा प्रदेशवासिभ्यः प्रधानमन्त्रिणः जन्मदिवसावसरे आयोजिते ‘सेवासंकल्पाभियानम् — जनसेवैव प्रभुसेवा’ इत्यस्मिन् कार्यक्रमे सहभागीभवितुम् आह्वानं कृतम्। सः अवदत् यत् सितम्बरमासस्य सप्तदशदिनाङ्के सायं सप्तवादने राजस्थानस्य प्रत्येकस्मिन् गृहे, ग्रामे नगरे च आशीर्वादस्य दीपकं प्रज्वालयन्तु। अयं दीपकः विकसितभारतस्य विकसितराजस्थानस्य च संकल्पस्य प्रतीकं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani