सामाजिकन्यायाधिकारिताविभागे ‘स्वच्छता एव सेवा’ अभियानस्य शुभारम्भः
नवदिल्ली, 17 सितम्बरमासः (हि.स.)। केन्द्रसर्वकारेण गुरुवासरे राष्ट्रव्यापिरूपेण ‘स्वच्छता एव सेवा’ अभियानस्य २०२६ इत्यस्य विधिवत् शुभारम्भः कृतः। स्वच्छतायाः जनसहभागितायाः च प्रोत्साहनस्य उद्देश्येन प्रारब्धम् एतत् अभियानम् २ अक्टूबरपर्यन्तं सञ्चाल
'स्वच्छता ही सेवा' अभियान उद्घाटन के दौरान सभी अधिकारीगण मौजूद।


नवदिल्ली, 17 सितम्बरमासः (हि.स.)। केन्द्रसर्वकारेण गुरुवासरे राष्ट्रव्यापिरूपेण ‘स्वच्छता एव सेवा’ अभियानस्य २०२६ इत्यस्य विधिवत् शुभारम्भः कृतः। स्वच्छतायाः जनसहभागितायाः च प्रोत्साहनस्य उद्देश्येन प्रारब्धम् एतत् अभियानम् २ अक्टूबरपर्यन्तं सञ्चालितं भविष्यति।

केन्द्रीयसामाजिकन्यायाधिकारितामन्त्रालयस्य अनुसारम् अस्य अभियानस्य उद्घाटनावसरे सामाजिकन्यायाधिकारिताविभागस्य सचिवः सुधांशुपन्तः सर्वेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च स्वच्छतायाः शपथं कारितवान्। मुख्यालयेन सह देशस्य विभिन्नेषु भागेषु स्थितेषु विभागस्य अधीनस्थकार्यालयेषु, स्वायत्तसंस्थासु संस्थासु च अपि अधिकारिणः कर्मचारीणश्च स्व-स्वकार्यस्थलेषु स्वच्छतायाः संकल्पं स्वीकृतवन्तः। अस्मिन् अभियानस्य अन्तर्गतं प्रतिवर्षं १०० घण्टानां श्रमदानम्, अस्वच्छतायाः विरुद्धं संकल्पः तथा जागरूकतायाः प्रसारः समाविष्टः अस्ति।

अस्मिन् अवसरे एतत् विशेषरूपेण रेखाङ्कितं यत् स्वच्छकार्यस्थलानां, नगराणां, ग्रामाणां तथा स्वच्छराष्ट्रस्य निर्माणस्य आधारः निरन्तरव्यक्तिगतप्रयासेषु सक्रियसामुदायिकसहभागितायां च एव आश्रितः अस्ति।

------------

Hindusthan Samachar / अंशु गुप्ता