विश्वकर्मापूजायाः अवसरे सिक्किमराज्ये ‘स्वच्छतैव सेवा अभियानम् २०२६’ इत्यस्य शुभारम्भः।
विश्वकर्मापूजायाः अवसरे गङ्गटोकस्य रिज्-पार्क्-स्थले आयोजिते कार्यक्रमे राज्यपालः ओमप्रकाशमाथुरः मुख्यमन्त्री प्रेमसिंहतमाङ्गश्च उपस्थितौ गङ्गटोकम्, १७ सितम्बरमासः (हि. स.)। विश्वकर्मापूजायाः अवसरे सिक्किमराज्ये गुरुवासरे ‘स्वच्छतैव सेवा अभियानम्
स्वच्छता ही सेवा अभियान २०२६ काे शुभारम्भ


स्वच्छता ही सेवा अभियान २०२६ काे शुभारम्भ


विश्वकर्मापूजायाः अवसरे गङ्गटोकस्य रिज्-पार्क्-स्थले आयोजिते कार्यक्रमे राज्यपालः ओमप्रकाशमाथुरः मुख्यमन्त्री प्रेमसिंहतमाङ्गश्च उपस्थितौ

गङ्गटोकम्, १७ सितम्बरमासः (हि. स.)। विश्वकर्मापूजायाः अवसरे सिक्किमराज्ये गुरुवासरे ‘स्वच्छतैव सेवा अभियानम् २०२६’ इत्यस्य शुभारम्भः कृतः। राजधानी गङ्गटोकस्य रिज्-पार्क्-स्थले आयोजिते कार्यक्रमे राज्यपालः ओमप्रकाशमाथुरः मुख्यमन्त्री प्रेमसिंहतमाङ्गश्च उपस्थितौ आस्ताम्।

मुख्यमन्त्री प्रेमसिंहतमाङ्गेन सामाजिकमाध्यमस्य माध्यमेन अभियानस्य शुभारम्भस्य सूचना प्रदत्ता। तेन कथितं यत् कार्यक्रमस्य समये उपस्थितेभ्यः जनानां स्वच्छताविषयिणी शपथः कारिता। तदनन्तरं नगरविकासविभागस्य पक्षतः ‘क्लीन हिल हिमालयन सिटीज इनिशिएटिव्’ इत्यस्य प्रतीकचिह्नं प्रकाशितम्।

कार्यक्रमे ‘स्वच्छनगर-अभियानस्य’ अन्तर्गतं स्वसहायतासमूहेभ्यः धनादेशाः वितरिताः। ग्रामीणविकासविभागस्य पक्षतः चलोपचार-एककस्य सञ्चालनसम्बद्धा मानकसञ्चालनप्रक्रिया अपि प्रकाशिताऽभवत्।

१७ स्वच्छतायाः अपशिष्टप्रबन्धनस्य च वाहनानि प्रेषितानि

मुख्यमन्त्रिणा कथितं यत् कार्यक्रमस्य समये सोरेङ्ग-प्राथमिकस्वास्थ्यकेन्द्राय केजीबी-विद्यालयाय च द्वे रुग्णवाहिके सहितं कुलं १७ स्वच्छतायाः अपशिष्टप्रबन्धनस्य च वाहनानि हरितध्वजं प्रदर्श्य सेवायै प्रेषितानि।

एतेषु गङ्गटोक्, नाम्ची, गेजिङ्ग्, मङ्गन् इत्येतेभ्यः चतस्रः चलोपचार-एककाः, गङ्गटोक्-पाक्योङ्गयोः कृते द्वे सेसपूल्-वाहने, विभिन्नग्रामपञ्चायत-एककेभ्यः दश संसाधनपुनर्प्राप्तिवाहनानि च सन्ति।

मुख्यमन्त्री तमाङ्गः उक्तवान् यत् एताः सर्वाः पहलाः सम्पूर्णे सिक्किमराज्ये स्वच्छानां स्वस्थानां च स्थायिसमुदायानां निर्माणस्य सामूहिकप्रतिबद्धतां अधिकं सुदृढां करिष्यन्ति। तेन उक्तं यत् स्वच्छता केवलम् अभियानपर्यन्तं सीमिता न भवेत्, अपितु तस्याः जीवनशैल्याः अभिन्नः भागः करणीयः।

मुख्यमन्त्रिणा ‘टीम सिक्किम्’ इति भावनया सर्वेषां जनानां मिलित्वा निरन्तरं कार्यं कर्तुम् आह्वानं कृतम्, येन राज्ये स्वच्छतायाः अपशिष्टप्रबन्धनस्य च व्यवस्था अधिकं प्रभाविता कर्तुं शक्येत।

Hindusthan Samachar / Dheeraj Maithani