सिलिकॉनजगति भारतेन कृतं सुदृढं पदक्षेपणम् - कथं चिपनिर्माणक्षेत्रे स्वस्थानं निर्मातुं प्रयतते भारतम्
नवदिल्ली, १७ सेप्टेम्बरमासः (हि.स.)। अद्य सेमीकण्डक्टरः अर्थात् चिप् केवलं चलदूरभाषस्य सङ्गणकस्य वा लघुभागः नास्ति, अपितु आधुनिकस्य संसारस्य प्रौद्योगिकीयाः आधारशिला अभवत्। अद्य प्रायः प्रत्येकं महत्त्वपूर्णं प्रौद्योगिकीयन्त्रं केनचित् प्रकारेण चि
प्रधानमंत्री नरेंद्र मोदी की सांकेतिक फोटो


नवदिल्ली, १७ सेप्टेम्बरमासः (हि.स.)। अद्य सेमीकण्डक्टरः अर्थात् चिप् केवलं चलदूरभाषस्य सङ्गणकस्य वा लघुभागः नास्ति, अपितु आधुनिकस्य संसारस्य प्रौद्योगिकीयाः आधारशिला अभवत्। अद्य प्रायः प्रत्येकं महत्त्वपूर्णं प्रौद्योगिकीयन्त्रं केनचित् प्रकारेण चिप्-प्रौद्योगिक्याः उपरि निर्भरम् अस्ति। चलदूरभाषः, वाहनानि, विमानानि, ड्रोनयानानि, उपग्रहाः, चिकित्सालयेषु प्रयुक्तानि यन्त्राणि, दूरसञ्चारजालानि, सङ्गणकानि, शीघ्रं वर्धमानाः कृत्रिमबुद्धिमत्ताव्यवस्थाश्च—एतेषां सर्वेषां पृष्ठे सेमीकण्डक्टर-प्रौद्योगिकी कार्यं करोति। अत एव विश्वे सेमीकण्डक्टरः अधुना केवलम् औद्योगिक-उत्पादरूपेण न, अपितु आर्थिक-सामरिकमहत्त्वयुक्तायाः प्रौद्योगिक्याः रूपेण दृश्यते।

माध्यमप्रतिवेदनानुसारं २०१४-१५ तमे वर्षे भारते प्रायः १.९ लक्षकोटिरूप्यकाणां विद्युत्प्रौद्योगिकसामग्रीणाम् उत्पादनं भवति स्म। २०२५-२६ तमवर्षे तत् वर्धित्वा १३.११ लक्षकोटिरूप्यकाणि अभवत्। अर्थात् प्रायः सप्तगुणा वृद्धिः अभवत्। तथैव विद्युत्प्रौद्योगिकसामग्रीणाम् निर्यातोऽपि प्रायः ३८,००० कोटिरूप्यकेभ्यः वर्धित्वा ४.२४ लक्षकोटिरूप्यकाणि अभवत्, अर्थात् प्रायः एकादशगुणा वृद्धिः। चलदूरभाषस्य कथा ततोऽपि महत्त्वपूर्णा रोचकाच्च अस्ति। चलदूरभाषस्य उत्पादनं १८,००० कोटिरूप्यकेभ्यः वर्धित्वा ६.२७ लक्षकोटिरूप्यकाणि अभवत्, अर्थात् त्रयस्त्रिंशद्गुणा वृद्धिः। चलदूरभाषस्य निर्यातोऽपि प्रायः १,५०० कोटिरूप्यकेभ्यः वर्धित्वा २.५९ लक्षकोटिरूप्यकाणि अभवत्, अर्थात् १६५ गुणा वृद्धिः। २०१४ तमे वर्षे स्मार्टदूरभाष: भारतस्य शताधिकेषु निर्यातवस्तुषु अपि नासीत्। किन्तु २०२५-२६ तमस्य वित्तीयवर्षस्य अन्ते स्मार्टदूरभाष: भारतस्य सर्वाधिकनिर्यातितं वस्तु अभवत्। अस्मिन् सम्पूर्णे विनिर्माणक्षेत्रे अधुना प्रायः २५ लक्षं जनाः रोजगारं प्राप्नुवन्ति।

भारतस्य कृते एतत् कार्यं महत्त्वपूर्णम् आसीत्, यतः देशे पूर्वमेव विशालं अभियान्त्रिकप्रतिभाबलं विद्यमानम् आसीत्, किन्तु सेमीकण्डक्टरनिर्माणस्य सम्पूर्णा औद्योगिकमूल्यशृङ्खला देशे विकसिताऽनासीत्। आत्मनिर्भरभारतस्य कथा तद्विना पूर्णा न भवितुं शक्नोति। चिपनिर्माणाय केवलम् एका निर्माणी पर्याप्ता न भवति। तदर्थं डिजाइन-सॉफ्टवेयर, चिप्-परिकल्पना, अत्याधुनिकयन्त्राणि, विशिष्टानि रसायनानि वायवश्च, सिलिकॉन-वेफर, पैकेजिङ्ग, परीक्षणम्, विश्वसनीयविद्युत्-जलव्यवस्था, रसदव्यवस्था, प्रशिक्षिताः विशेषज्ञाश्च आवश्यकाः भवन्ति। अतः भारतस्य पुरतः केवलं चिप्-निर्माणनिर्माण्याः स्थापनस्य समस्या नासीत्, अपितु सम्पूर्णं सेमीकण्डक्टर-पारिस्थितिकीतन्त्रम् उन्नेतुं समस्या आसीत्।

अस्मिन् क्षेत्रे भारतस्य एका महत्त्वपूर्णा उपलब्धिः विद्युत्प्रौद्योगिकसामग्रीणां विनिर्माणस्य तीव्रविस्तारः अस्ति। प्रतिवेदनानुसारं २०१४-१५ तमे वर्षे भारते विद्युत्प्रौद्योगिकसामग्रीणाम् उत्पादनं प्रायः १.९ लक्षकोटिरूप्यकाणि आसीत्। ततः चलदूरभाषस्य विद्युत्प्रौद्योगिकसामग्रीणां च उत्पादनक्षेत्रे तीव्रवृद्धिः अभवत् तथा भारतं विशालस्य विद्युत्प्रौद्योगिक-विनिर्माण-केन्द्रस्य रूपेण उदयितुम् आरब्धवान्। सर्वकारानुसारं अस्मिन् काले चलदूरभाषनिर्माणेऽपि बहुगुणा वृद्धिः अभवत्।

सेमीकॉन-इण्डिया-कार्यक्रमस्य प्रारम्भः

२०२१ तमस्य वर्षस्य दिसम्बरमासे भारतसर्वकारेण सेमीकॉन-इण्डिया-कार्यक्रमस्य अनुमोदनं कृतम्। प्रतिवेदनानुसारम् अस्य कृते ७६,००० कोटिरूप्यकाणां प्रावधानं कृतम् आसीत्। अस्य उद्देश्यं सेमीकण्डक्टर इत्यस्य प्रदर्शनपट्टिकानां च निर्माणेन सह पैकेजिङ्ग, संयुक्त-सेमीकण्डक्टर, डिजाइनसम्बद्धस्य च पारिस्थितिकी-तन्त्रस्य प्रोत्साहनम् आसीत्। ततः सेमीकॉन २.० कार्यक्रमे एषा राशिः वर्धयित्वा १,२७,५०० कोटिरूप्यकाणि कृता अस्ति।

अयं कार्यक्रमः अधुना स्वस्य द्वितीयचरणस्य—सेमीकॉन-इण्डिया-कार्यक्रमः २.०—दिशि अग्रे सरति। २०२६ तमे वर्षे अस्य कृते १.२७ लक्षकोटिरूप्यकाणां प्रावधानस्य घोषणा कृता अस्ति। अस्य केन्द्रबिन्दवः चिप्-परिकल्पना, सेमीकण्डक्टरनिर्माणम्, उपकरणानि सामग्रीश्च, उन्नत-पैकेजिङ्ग, अनुसन्धानं विकासश्च, कुशलमानव-संसाधनं च सन्ति। अस्य स्पष्टोऽर्थः अस्ति यत् भारतस्य रणनीतिः केवलं कतिपयाः निर्माण्यः स्थापयितुं सीमिता नास्ति। लक्ष्यं तु चिप्-निर्माणस्य सम्पूर्णे प्रक्रियाचक्रे भारतेन स्वस्य भूमिकां वर्धयितुम् अस्ति।

चिप्-निर्माणस्य अस्यां यात्रायां परिकल्पनायाः अपि महत्त्वपूर्णं स्थानम् अस्ति। कस्यापि चिप्-निर्माण्याः सफलता तादृशी एव भवति, यादृशाः तस्यै परिकल्पनां निर्मातुं समर्थाः अभियन्तारः भवन्ति। अतः सर्वकारेण अस्मिन् दशके ८५,००० कुशलसेमीकण्डक्टर-अभियन्तॄणां प्रतिभाविकासस्य लक्ष्यं निर्धारितम् अस्ति। ‘चिप्स् टू स्टार्टअप्स्’ कार्यक्रमस्य अन्तर्गतं ‘इलेक्ट्रॉनिक-डिजाइन-ऑटोमेशन’ इत्यस्य सॉफ्टवेयर-उपकरणानि च अधुना ३२० शैक्षणिकसंस्थासु उपलब्धानि कृतानि सन्ति। अद्यावधि ६८,००० अधिकाः छात्राः प्रशिक्षणं प्राप्तवन्तः।

प्रतिवेदनानुसारम् अन्यच्च, २४ सेमीकण्डक्टर-परिकल्पनापरियोजनाभ्यः आर्थिकसहायतायै अनुमोदनं प्राप्तम् अस्ति। डिजाइन-लिङ्क्ड्-इन्सेन्टिव्-योजनायाः अन्तर्गतं १०५ स्टार्टअप-संस्थाभ्यः लघुमध्यमोद्यमेभ्यश्च इलेक्ट्रॉनिक-डिजाइन-ऑटोमेशन-उपकरणानां कृते सहायता प्रदत्ता अस्ति। प्रतिवेदनानुसारं २०२६ तमस्य वर्षस्य अप्रैलमासपर्यन्तं ७५ संस्थाभिः २११ चिप्-परिकल्पनाः निर्माय उत्पादनस्य अग्रिमचरणं ‘टेप-आउट्’ इत्येतत् प्राप्तम् आसीत्। एतत् सूचयति यत् भारते चिप्-परिकल्पनायाः क्षमता अधुना कतिपयेषु बृहद्संस्थानेषु एव सीमिता नास्ति।

एतेषु २११ चिप्-परिकल्पनेभ्यः सप्त चिप्-विभिन्नेषु प्रौद्योगिकीयस्तरेषु निर्मिताः अपि सन्ति। तासु १२ नैनोमीटर-पर्यन्तस्य उन्नतप्रौद्योगिक्या निर्मिताः चिप्-सञ्चिकाः अपि सम्मिलिताः सन्ति। अर्थात् भारतः केवलं चिप्-निर्माणार्थं निर्माण्यः स्थापयितुं प्रयतते इति न, अपितु तेषां चिप इत्यादिनां परिकल्पनां कुर्वतां अभियन्तॄणां प्रौद्योगिकिविशेषज्ञानां च नूतनं वंशमपि निर्मातुं प्रयतते।

देशस्य सर्वेषु भागेषु चिप्-परिकल्पनासुविधानाम् उपलब्धतायै सी-डैक्-संस्थायां ‘चिप्स् टू स्टार्टअप्स्’ कार्यक्रमस्य ‘डिजाइन-लिङ्क्ड्-इन्सेन्टिव’ योजनायाश्च अन्तर्गतं चिप्-केन्द्रं स्थापितम् अस्ति। एतत् राष्ट्रियस्तरस्य सहभाग-सुविधाकेन्द्रम् अस्ति। अत्र अभियन्तृभ्यः संस्थाभ्यश्च आधुनिकानि चिप्-परिकल्पनासाधनानि, चिप्-निर्माणसेवाः, विशेषप्रशिक्षणं च उपलब्धं भवति।

प्रतिवेदनानुसारं चिप्-केन्द्रस्य एतासां सुविधानां लाभं ५०० अधिकसंस्थानां १ लक्षाधिकाः अभियन्तारः प्राप्तवन्तः। एतेषु ४०० शैक्षणिकसंस्थाः १०० स्टार्टअप-संस्थाश्च सम्मिलिताः सन्ति। एताभिः संस्थाभिः संयुक्तरूपेण ३०० अधिकाः चिप्-परिकल्पनाः निर्मिताः सन्ति। एताः चिप्-परिकल्पनाः मोहालीस्थितायां सेमी-कण्डक्टर-प्रयोगशालायां विदेशेषु च स्थितेषु अत्याधुनिकेषु चिप्-निर्माणकेन्द्रेषु निर्माणाय प्रेषिताः सन्ति। एताभिः संस्थाभिः चिप्-परिकल्पनायै उपलब्धानां साधनानां प्रयोगः ४ कोटिहोराभ्यः अधिकं कृतः अस्ति। अधुना लघुसंस्थाभ्यः संस्थानेभ्यश्च अस्मिन् क्षेत्रे प्रवेशः सुलभतरः अभवत्। एतेन परिकल्पनानिर्माणस्य व्ययः न्यूनः अभवत् तथा चिप्-निर्माणसम्बद्धानां नूतनप्रयोगाणां गतिः वर्धिता अस्ति।

तथैव भारतस्य ‘पैक्स सिलिका’ इत्यस्मिन् उपक्रमे सम्मिलितत्वमपि सूचयति यत् तस्य सेमीकण्डक्टरसम्बद्धा महत्त्वा-काङ्क्षा अधुना केवलं देशस्य अन्तः चिप-निर्माणे सीमिता नास्ति। तस्य प्रभावः वैश्विकप्रौद्योगिक्याः आपूर्तिशृङ्खला-व्यवस्थायाश्च उपरि अपि दृश्यते। वस्तुतः ‘पैक्स सिलिका’ अमेरिकानेतृत्वे निर्मिता एका अन्ताराष्ट्रिय-सामरिकप्रयत्न: अस्ति, यस्याः उद्देश्यं सेमीकण्डक्टर इत्यस्य, कृत्रिमबुद्धिमत्तायाः, दुर्लभभू-तत्त्वानां च आपूर्तिशृङ्खलां सुरक्षितां सुदृढां च कर्तुम् अस्ति। अस्याः उद्देश्यम् अस्ति यत् चिप्-प्रौद्योगिक्याः च आपूर्तिशृङ्खला कतिपयेषु देशेषु वा निर्मातृषु वा सीमिता न भवेत्, कस्यापि देशस्य उपरि आर्थिक-प्रभावनिर्माणाय च एतासां आपूर्ति-शृङ्खलानां प्रयोगः न क्रियेत। तथा च अस्याः शताब्द्याः स्वरूपनिर्माणं कुर्वतां महत्त्वपूर्णप्रौद्योगिकीनां नियन्त्रणं मुक्तानां लोकतान्त्रिकदेशानां हस्तेषु भवेत्।

एतासां सर्वासां सूचनानां अवलोकनेन वक्तुं शक्यते यत् सेमीकॉन-इण्डिया-२०२६ केवलं प्रदर्शिनी नास्ति, अपितु नवभारतस्य प्रौद्योगिकीय-व्यवस्थायाः सामर्थ्यस्य च सहभाग-मञ्चः अस्ति। अयं मञ्चः विश्वस्य सर्वाभ्यः निर्माणीभ्यः समानं स्थानं प्रददाति, तासां सहभागितां सुनिश्चितं करोति तथा नवभारतस्य विकसितभारतस्य च निर्माणे तासां सहयोगस्य प्रशंसामपि करोति।

Hindusthan Samachar / Divya Ranjan