Enter your Email Address to subscribe to our newsletters

मदुरै, १७ सेप्टेम्बरमासः (हि.स.)। विश्वप्रसिद्धे मीनाक्षी अम्मन्-मन्दिरे गुरुवासरे महाकुम्भाभिषेकसमारोहः भव्यरूपेण सम्पन्नः। अस्याः धार्मिका-योजनायाः सन्दर्भे मन्दिरे प्रायः २५ कोटिरूप्यकाणां व्ययेन जीर्णोद्धारकार्याणि कारितानि। अग्निप्रकरणेन क्षतिग्रस्तस्य वीरवसन्तरायर-मण्डपस्य पुनर्निर्माणमपि कृतम्।
महाकुम्भाभिषेकस्य कृते उत्तर-आडी-वीथ्यां १८४ कुण्डयुक्ता विशालायज्ञशाला निर्मिता आसीत्। अत्र ११ सेप्टेम्बर-मासात् विशेषकालपूजा आयोजिता आसीत्, यस्यां ४०० अधिकाः शिवाचार्याः सम्मिलिताः। गुरुवासरे प्रातः ७ वादने ४० निमेषे गोपुराणां कुम्भाभिषेकः कृतः। ततः प्रातः ८ वादन १० निमेषे मीनाक्षी अम्मनः, ८ वादने ५० निमेषे च सुन्दरेश्वरस्य पवित्रजलेन अभिषेकः कृतः। अनेन सह मन्दिरस्य महाकुम्भाभिषेकसमारोहः विधिवत् सम्पन्नः।
समारोहे विशालसंख्यायां श्रद्धालूनाम् आगमनस्य सम्भावनां दृष्ट्वा प्रशासनपक्षतः व्यापकाः सुरक्षाव्यवस्थाः कृताः। सहस्रशः आरक्षिकाः मन्दिरे तद्परिसरे च नियुक्ताः। समारोहस्य अन्तर्गतं गुरुवासरे रात्रौ ७ वादने चतसृषु मासी-वीथिषु स्वामिनः भव्यशोभायात्रा आयोजयिष्यते। तदर्थमपि मन्दिरे तत्परिसरेषु च विशेषव्यवस्थाः कृताः सन्ति।
Hindusthan Samachar / Divya Ranjan