प्रधानमन्त्रिणः जन्मदिवसे काशीतः वडनगराय प्रस्थिताः ५०० मोटरसाइकिलचालकाः
वाराणसी, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदिनः षट्सप्तति-तमजन्मदिवसस्य सार्वजनिकजीवनस्य च २५ वर्षाणि पूर्णतायाः उपलक्ष्ये आयोजितायाः ‘सेवासङ्कल्प-मोटर-साइकिलयात्रायाः’ अन्तर्गतं गुरुवासरे काशीतः ५०० मोटरसाइकिलचालकाः वडनगराय प्रस
सेवा संकल्प बाइक यात्रा को हरी झंडी दिखाते रक्षामंत्री राजनाथ सिंह,सीएम योगी


वाराणसी, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदिनः षट्सप्तति-तमजन्मदिवसस्य सार्वजनिकजीवनस्य च २५ वर्षाणि पूर्णतायाः उपलक्ष्ये आयोजितायाः ‘सेवासङ्कल्प-मोटर-साइकिलयात्रायाः’ अन्तर्गतं गुरुवासरे काशीतः ५०० मोटरसाइकिलचालकाः वडनगराय प्रस्थिताः। रक्षामन्त्री राजनाथसिंहः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथश्च सिग्रास्थिते रुद्राक्ष-सम्मेलनकेन्द्रे आयोजिते कार्यक्रमे २५० मोटरद्विचक्रिकाभ्यः आरूढान् युवानः हरितध्वजं प्रदर्श्य प्रस्थापितवन्तौ।

काशीतः वडनगराय दशभिन्नमार्गैः यात्रा प्रारब्धा। कार्यक्रमे आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबुनायडुः, केन्द्रीयमन्त्री चिरागपासवानः, भाजपायाः प्रदेशाध्यक्षः पङ्कजचौधरी, यात्रायाः संयोजकः खजुराहोनगरस्य सांसदः विष्णुदत्तशर्मा, आन्ध्रप्रदेशस्य सांसदौ लवुश्रीकृष्णः सतीशबाबू च तथा भाजपायाः राष्ट्रियमन्त्री उत्तरप्रदेशस्य सहप्रभारी च जगदीशभाईपटेलः इत्यादयः अनेके जनप्रतिनिधयः उपस्थिताः आसन्।

दशराज्यानां १९३ जनपदान् अतिक्रमिष्यति यात्रा

१७ सेप्टेम्बरतः ७ अक्तूबरपर्यन्तं चलिष्यमाणायां ‘वाराणसीतः वडनगरं सेवायात्रायां’ देशस्य विभिन्नभागेभ्यः ५०० अधिकाः युवानः भागं ग्रहीष्यन्ति। यात्रा २० मार्गैः दशराज्यानां १९३ जनपदान्, ७७३ तहसीलक्षेत्राणि १,१५९ ग्रामांश्च अतिक्रमिष्यति। प्रत्येकस्मिन् विश्रामस्थले प्रायः २५ प्रकाराणां सेवागतिविधीनाम् आयोजनं भविष्यति। तथैव वडनगरतः वाराणसीं प्रति अपि मोटरसाइकिल-चालकाः यात्रां करिष्यन्ति।

सेवायाः स्वच्छतायाश्च भविष्यति विशेषः आग्रहः

भाजयुमो-सङ्घटनस्य राष्ट्रियाध्यक्षः वडोदरालोकसभाक्षेत्रस्य सांसदश्च डॉ. हेमाङ्गजोशी अवदत् यत् एतत् आयोजनं केवलं मोटरसाइकिलयात्रा न, अपि तु प्रधानमन्त्रिणः नरेन्द्रमोदिनः २५ वर्षाणां सार्वजनिकजीवनात् प्रेरणां गृहीत्वा युवानः सेवया समाजेन राष्ट्रनिर्माणेन च सह सम्बद्धं कर्तुम् आयोजितम् अभियानम् अस्ति। सः अवदत् यत् वाराणसीतः वडनगरपर्यन्तम् एषा यात्रा सेवायाः समर्पणस्य च भावनां युवाशक्तेः सङ्कल्पे परिवर्तयितुं प्रयत्नः अस्ति।

हेमाङ्गजोशी अवदत् यत् तमिलनाडुतः, असमतः, पश्चिमबङ्गात्, जम्मू-कश्मीरात्, गुजराततः, बिहारतः पूर्वोत्तरभारतस्य विभिन्नभागेभ्यश्च युवानः यात्रायां सम्मिलिष्यन्ति। विभिन्नभाषाभिः, प्रदेशैः संस्कृतिभिश्च सम्बद्धाः युवानः एकत्र सेवागतिविधिषु भागं ग्रहीष्यन्ति।

यात्रायाः प्रत्येकस्मिन् विश्रामस्थले वृक्षारोपणम्, सेवावाटिका, स्वच्छताभियानम्, नशामुक्त-भारताभि-यानम्, क्षयरोगमुक्तभारता-भियानम्, साधुसन्तानां सम्मानं, स्वच्छताकर्म-चारिणां सम्मानः, जलसंरक्षणं प्लास्टिकमुक्ततायै जागरूकता च इत्यादीनां गतिविधीनाम् आयोजनं भविष्यति।

डॉ. जोशी अवदत् यत् यात्रायाः सन्देशः अस्ति— “पुष्पमालाभिः स्वागतं न, सेवया स्वच्छतया च स्वागतं भविष्यति।” अस्यैव उद्देश्यार्थं ‘स्वच्छतया स्वागतं’ इति उपक्रमः प्रारब्धः अस्ति। अस्य अन्तर्गतं यात्रायाः कस्यचित् स्थले प्राप्तेः द्विदिनपूर्वं स्थानीयभाजयुमो-कार्यकर्तृभिः स्वच्छताभियानं चाल्यते।

काशी-वडनगरयोर्मध्ये आस्थायाः सेतुः संयोज्यते

‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं गङ्गा, यमुना, आमी, राप्ती, नर्मदा, गोमती, बेतुआ, अलकनन्दा, कुआनो, वरुणा, सरयू इत्यादीनां विभिन्ननदीनां सङ्गमस्थलानां च जलम् एकत्रितं कृतम् अस्ति। एतत् जलं यात्राकाले वडनगरं नीत्वा भगवते हाटकेश्वराय समर्पयिष्यते।

तथैव वडनगरतः वाराणसीं प्रति आगच्छन्त्या यात्रया विभिन्ननदीनां जलं काशीं नीत्वा श्रीकाशीविश्वनाथाय समर्पयिष्यते। काशीतः प्रस्थानात् पूर्वं श्रीकाशीविश्वनाथस्य जलाभिषेकः कृतः, वडनगरं प्राप्ते तु श्रीहाटकेश्वर-महादेवमन्दिरे जलाभिषेकेन यात्रायाः समापनं भविष्यति।

यात्रा एकस्मिन्नेव काले द्वयोः दिशयोः—वडनगरतः वाराणसीं प्रति वाराणसीतः वडनगरं प्रति च—प्रस्थास्यति। अस्यै २० भिन्नमार्गाः निर्धारिताः सन्ति, येषां नामानि भारतस्य पवित्रनदीनामाधारेण निर्धारितानि सन्ति।

‘मोदी-योग्योः कार्याणि जनजनं प्रति नेतुं सौभाग्यम्’

झारखण्डतः यात्रायां सम्मिलितः सेवायात्री प्रदीपमुखर्जी अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः मुख्यमन्त्रिण: योगी-आदित्यनाथस्य च कार्याणि जनजनं प्रति नेतुम् अवसरप्राप्तिः तस्य कृते गौरवस्य विषयः अस्ति। सः अवदत् यत् झारखण्डतः १७ जनानां दलं वाराणसीतः वडनगरपर्यन्तं यात्रायां सम्मिलितम् अस्ति।

कानपुरस्य सेवायात्री रजतमिश्रः अवदत् यत् सेवायात्रायाः विषये ज्ञात्वा सः स्वेच्छया अस्यै यात्रायै आवेदनं कृतवान्। सः अवदत् यत् मोदी-योग्योः नेतृत्वे नूतनभारतस्य निर्माणे सेवाकार्येषु च जनजनस्य सहभागितां वर्धयितुम् अवसरः तस्य कृते सौभाग्यस्य विषयः अस्ति।

Hindusthan Samachar / Divya Ranjan