प्रधानमन्त्रिणः मोदिनः षट्सप्ततितमे जन्मदिवसे षट्सप्ततिभिः बटुकैः षट्सप्ततिलिटरदुग्धेन गङ्गायाः अभिषेकः, विधायकः डॉ. नीलकण्ठः उपस्थितः
वाराणसी, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्तति-तमे जन्मदिवसस्य अवसरे तस्य संसदीयक्षेत्रे वाराणस्यां षट्सप्ततिः बटुकब्राह्मणाः गङ्गायां दुग्धाभिषेकं शङ्खनादं च कृत्वा स्वीयाः शुभकामनाः समर्पितवन्तः। गुरुवासरे प्रातः सप्
दुग्धाभिषेक करते हुए विधायक डॉ नीलकंठ और बटुक


वाराणसी, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्तति-तमे जन्मदिवसस्य अवसरे तस्य संसदीयक्षेत्रे वाराणस्यां षट्सप्ततिः बटुकब्राह्मणाः गङ्गायां दुग्धाभिषेकं शङ्खनादं च कृत्वा स्वीयाः शुभकामनाः समर्पितवन्तः। गुरुवासरे प्रातः सप्तवादनतः अहिल्याबाईघट्टे विधायकस्य डॉ. नीलकण्ठतिवारिणः उपस्थितौ बटुकैः वैदिकमन्त्रघोषैः सह गङ्गायाः पूजनं कृतम्। ततः श्रीअन्नपूर्णार्षिकुल-ब्रह्मचर्याश्रमस्य श्रीशास्त्रार्थ-महा-विद्यालयस्य च षट्सप्ततिभिः बटुक-ब्राह्मणैः आचार्यस्य उदितनारायण-मिश्रस्य नेतृत्वे षट्सप्ततिलिटरकेसर-युक्तजलेन दुग्धेन च गङ्गायाः अभिषेकः कृतः।

अस्मिन् अवसरे मुख्यातिथिरूपेण उपस्थितेन पूर्वराज्यमन्त्रिणा दक्षिण-नगरस्य विधायकेन च डॉ. नीलकण्ठतिवारिणा उक्तं यत् अद्य देवशिल्पिनः विश्वकर्मणः अपि जयन्ती अस्ति। यदि वयं राष्ट्रस्य नेतारं प्रधानमन्त्रिणं नरेन्द्रमोदिम् आधुनिक-भारतस्य शिल्पिनम् इति कथयामः, तर्हि न तत् अतिशयोक्तिः भविष्यति। नरेन्द्रमोदिनः दूरदर्शिनः राष्ट्रहितं सर्वोपरि मन्यमानस्य नेतृत्वस्य आधारः ‘सबका साथ-सबका विकास-सबका प्रयास’ इति अस्ति।

कार्यक्रमस्य संयोजकेन वरिष्ठभाजपानेत्रा विप्रसमाजस्य अध्यक्षेन च डॉ. पवनकुमारशुक्लेन उक्तं यत् प्रधान-मन्त्रिपदं प्राप्त्यनन्तरं तेन काश्याः विकासाय नूतना दिशा प्रदत्ता। काशीविश्वनाथपरिसरस्य निर्माणेन, घट्टानां सौन्दर्यीकरणेन, उत्तमसम्पर्क-सुविधायाः आधारभूतसंरचनायाश्च विकासेन काश्याः स्वरूपं परिवर्तितम् अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः गङ्गानदीं प्रति दृष्टिकोणः श्रद्धायाः, सांस्कृतिकधरोहरस्य, तस्याः संरक्षणस्य च आधारेण अस्ति।

अस्मिन् अवसरे डॉ. पवनशुक्लः, प्रदीपश्रीवास्तवः, आशुतोषद्विवेदी, नवीन-कसेरः, महन्तः रमेशतिवारी लिङ्गिया-महाराजः, सञ्जयउपाध्यायः, आकाश-पाठकः, सुनीलयादवः इत्यादयः बहुसङ्ख्यकाः भाजपाकार्यकर्तारः बटुकाश्च उपस्थिताः आसन्।

-----------------------------

Hindusthan Samachar / Divya Ranjan