Enter your Email Address to subscribe to our newsletters


प्रधानमन्त्रिणः स्वस्थस्य सुदीर्घस्य च जीवनस्य कामना
पुरोहितानाम् आचार्याणां स्वच्छताकर्मचारिणां च सम्मानः
श्रद्धालुभ्यः ७६ किलोग्रामपरिमितानां मोदकानां वितरणम्
वाराणसी, १७ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्ततितमे जन्मदिवसे गुरुवासरे रक्षामन्त्री राजनाथसिंहः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथश्च श्रीकाशीविश्वनाथधामनि बाबा विश्वनाथस्य विशेषमनुष्ठानं दर्शनपूजनं च कृतवन्तौ। उभौ नेतारौ जलाभिषेकं आरतिं च कृत्वा बाबा विश्वनाथस्य चरणयोः श्रद्धां निवेदितवन्तौ तथा प्रधानमन्त्रिणः स्वस्थस्य सुदीर्घस्य च जीवनस्य देशस्य प्रदेशस्य च सुखसमृद्ध्योः कामनां कृतवन्तौ।
अस्मिन् अवसरे आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबुनायडुः, केन्द्रीयमन्त्री चिरागपासवानः, केन्द्रीयवित्तराज्यमन्त्री भाजपायाः प्रदेशाध्यक्षश्च पङ्कजचौधरी इत्यादयः अन्ये वरिष्ठनेतारश्च उपस्थिताः आसन्।
पुरोहितानाम् आचार्याणां स्वच्छताकर्मचारिणां च सम्मानः
प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे राजनाथसिंहः योगी आदित्यनाथश्च काशीविश्वनाथधामनि पुरोहितानाम् आचार्याणां च सम्मानं कृतवन्तौ। वाराणसीतः वडनगरपर्यन्तं प्रस्तावितायाः ‘सेवासङ्कल्पयात्रायाः’ सम्बद्धैः द्विचक्रिकाचालकैः सह संवादः अपि कृतः।
तदनन्तरं धामनि स्वसेवां कुर्वद्भ्यः स्वच्छताप्रहरिभ्यः सम्मानः प्रदत्तः। मन्दिरपरिसरे श्रद्धालूनां मध्ये मिष्टान्नस्य वितरणम् अपि कृतम्। अस्य कृते एकोनविंशतिकिलोग्रामपरिमितभारयुक्ताः चत्वारः मोदकाः सिद्धाः आसन्, येषां समग्रभारः षट्सप्ततिकिलोग्रामपरिमितः आसीत्। मोदकसमूहस्य छेदनं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः, रक्षामन्त्री राजनाथसिंहः, केन्द्रीयमन्त्री चिरागपासवानश्च उपस्थितेभ्यः जनेभ्यः तान् वितरितवन्तः।
‘विकसितभारतस्य’ लक्ष्याय प्रार्थना : राजनाथसिंहः
रक्षामन्त्री राजनाथसिंहः अस्मिन् अवसरे अवदत् यत् सप्तदशः सितम्बरः प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसः अस्ति। अस्मिन् अवसरे सर्वैः काशीविश्वनाथमन्दिरे पूजार्चना कृता तथा बाबा विश्वनाथात् प्रधानमन्त्रिणः दीर्घायुष्यस्य आजीवनं स्वस्थजीवनस्य च प्रार्थनां कृत्वा भारतं विकसितभारतस्य लक्ष्यं प्रति नेतुम् अपि कामना कृता।
दीर्घकालं यावत् भारतस्य नेतृत्वं करोतु प्रधानमन्त्री : योगी आदित्यनाथः
मुख्यमन्त्री योगी आदित्यनाथः अस्मिन् अवसरे अवदत् यत् प्रधानमन्त्रिणः काश्याः सांसदस्य च नरेन्द्रमोदिनः जन्मदिवसे रक्षामन्त्री, आन्ध्रप्रदेशस्य मुख्यमन्त्री, केन्द्रीयमन्त्री, भाजपायाः उत्तरप्रदेशस्य प्रदेशाध्यक्षश्च सहिताः वरिष्ठनेतारः बाबा विश्वनाथस्य धामनि विशेषपूजामनुष्ठानं कृतवन्तः तथा बाबा विश्वनाथात् प्रधानमन्त्रिणः स्वस्थस्य सुदीर्घस्य च जीवनस्य प्रार्थनां कृतवन्तः।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री दीर्घकालं यावत् भारतस्य नेतृत्वं करोतु, येन देशवासिनः तस्य नेतृत्वे आत्मनिर्भरस्य सुरक्षितस्य विकसितभारतस्य च संकल्पनां साकाररूपेण पश्यन्तु।
कार्यक्रमे आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबुनायडुः, केन्द्रीयमन्त्री चिरागपासवानः, केन्द्रीयवित्तराज्यमन्त्री भाजपायाः प्रदेशाध्यक्षश्च पङ्कजचौधरी, खजुराहोनगरस्य सांसदः विष्णुदत्तशर्मा, उत्तरप्रदेशस्य सहकारिताराज्यमन्त्री स्वतन्त्रप्रभारश्च जेपीएसराठौरः, वाराणसीनगरस्य दक्षिणक्षेत्रस्य विधायकः डॉ. नीलकण्ठतिवारी इत्यादयः अन्ये जनाः च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani