Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्ततितमे जन्मदिवसे षट्सप्ततिभिः बटुकैः षट्सप्ततिलिटरपरिमितेन केसरमिश्रितजलेन दुग्धेन च गङ्गायाः अभिषेकः
वाराणसी, १७ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः षट्सप्ततितमं जन्मदिनं गुरुवासरे तस्य संसदीयनिर्वाचनक्षेत्रे वाराणस्याम् सहितं सम्पूर्णे देशे उत्साहेन आध्यात्मिकभावनया च आचर्यते। वाराणस्यां जन्मदिवसावसरे बटुकब्राह्मणैः दुग्धाभिषेकं शङ्खनादं च कृत्वा प्रधानमन्त्रिणे मोदिने आशीर्वादः प्रदत्तः।
प्रातः सप्तवादनात् अहिल्याबाईघाटे विप्रसमाजस्य तत्त्वावधाने वैदिकमन्त्राणां सस्वरपाठेन गङ्गायाः विधिवत् पूजनं कृतम्। ततः श्रीअन्नपूर्णाऋषिकुलब्रह्मचर्याश्रमस्य श्रीशास्त्रार्थमहाविद्यालयस्य च षट्सप्ततिः बटुकब्राह्मणाः आचार्यस्य उदितनारायणमिश्रस्य नेतृत्वे षट्सप्ततिलिटरपरिमितेन केसरमिश्रितजलेन दुग्धेन च गङ्गायाः अभिषेकं कृतवन्तः।
अस्मिन् अवसरे मुख्यातिथिरूपेण उपस्थितः पूर्वराज्यमन्त्री वाराणसीनगरस्य दक्षिणीविधानसभाक्षेत्रस्य विधायकः डॉ. नीलकण्ठतिवारी अवदत् यत् अद्य देवशिल्पिनः विश्वकर्मणः अपि जयन्ती अस्ति। यदि वयं राष्ट्रस्य नेतारं प्रधानमन्त्रिणं नरेन्द्रमोदिनम् आधुनिकभारतस्य शिल्पिनम् इति कथयेम, तर्हि तत्र न कापि अतिशयोक्तिः भविष्यति।
तेन उक्तं यत् प्रधानमन्त्रिणः मोदिनः दूरदर्शिनः राष्ट्रहितं सर्वोपरि मन्यमानस्य नेतृत्वस्य आधारः ‘सबका साथ, सबका विकास, सबका प्रयास’ इति भावना वर्तते।
कार्यक्रमस्य संयोजकेन वरिष्ठभाजपानेत्रा विप्रसमाजस्य अध्यक्षेन डॉ. पवनकुमारशुक्लेन उक्तं यत् प्रधानमन्त्रिपदं प्राप्त्यानन्तरं नरेन्द्रमोदिना काश्याः विकासाय नूतना दिशा प्रदत्ता। काशीविश्वनाथगलियारेस्य निर्माणेन, घाटानां सौन्दर्यवर्धनेन, श्रेष्ठसम्पर्कव्यवस्थया आधारभूतसंरचनायाः विकासेन च काश्याः स्वरूपे महत् परिवर्तनम् अभवत्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः गङ्गानद्याः प्रति दृष्टिकोणः आस्था, सांस्कृतिकधरोहरस्य संरक्षणं तथा गङ्गायाः संरक्षणं स्वच्छतां च आधारयति।
अस्मिन् अवसरे प्रदीपश्रीवास्तवः, आशुतोषद्विवेदी, नवीनकसेराः, महन्तः रमेशतिवारी लिङ्गियामहाराजः, सञ्जयोपाध्यायः, आकाशपाठकः, सुनीलयादवः इत्यादयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani