Enter your Email Address to subscribe to our newsletters


सन्तानप्राप्त्याशया लक्षशः दम्पतीभिः लोलार्ककुण्डे श्रद्धया स्नानं कृतम्
स्नानसमये श्रद्धालुभिः परम्परानुसारं धृतानि वस्त्राणि तत्रैव त्यक्तानि, एकस्य शाकस्य अपि त्यागः कृतः
वाराणसी, १७ सितम्बरमासः (हि.स.)। भाद्रपदमासस्य शुक्लपक्षे षष्ठीतिथौ गुरुवासरे उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां भदैनीस्थे लोलार्ककुण्डे लक्षशः श्रद्धालवः सन्तानप्राप्तेः कामनया पूर्णश्रद्धया त्रिवारं स्नानं कृतवन्तः। कड़ीसुरक्षाव्यवस्थायां बुधवासरादेव लक्षशः दम्पती कुुण्डे स्नानार्थं पङ्क्तिबद्धाः अभवन्। प्रभाते एव कुण्डे स्नानस्य क्रमः प्रारब्धः तथा प्रातः दशवादनपर्यन्तं लक्षशः दम्पती परस्परं हस्तं गृहीत्वा कुण्डे स्नानं कृतवन्तः।
सङ्कीर्णवीथ्यां स्थितस्य अस्य कुण्डस्य समीपं गन्तुं स्नानार्थिनां पुरुषाणां महिलानां च कृते सार्धद्विकिलोमीटरपरिमिता पङ्क्तिः अभवत्। ततः पूर्वं मध्यरात्रौ द्वादशवादने कुण्डस्य पूजनमारती च कृता। अस्मिन् समये सम्पूर्णः परिसरः डमरूनां निनादेन प्रतिध्वनितः। कुण्डस्य पूजनानन्तरं श्रद्धास्नानं प्रारब्धम्, यत् अद्य रात्रिपर्यन्तं प्रचलिष्यति।
लोलार्ककुण्डस्य समीपे मुख्यवीथ्याः उभयतः दूरपर्यन्तं च अवरोधकाः स्थापिताः सन्ति। कुण्डस्य समीपे स्थानस्य न्यूनतायाः कारणात् शतं शतं जनानां समूहाः क्रमेण स्नानार्थं कुण्डं प्रति प्रेष्यन्ते स्म। एकस्य समूहस्य दम्पतीनां स्नानं सम्पन्नं कृत्वा कुण्डात् बहिर्गमनानन्तरमेव अन्यस्मै समूहाय अग्रे गन्तुम् अनुमतिः दीयते स्म।
कुण्डे एकस्मिन् पार्श्वे स्नानार्थं प्रवेशस्य अपरस्मिन् पार्श्वे निर्गमनस्य च व्यवस्था कृता अस्ति। स्नानार्थं देशस्य विभिन्नेभ्यः भागेभ्यः समागतैः जनैः स्वकीयां क्रमवारं प्राप्तुं बहूनि घण्टाः प्रतीक्षिताः।
लोलार्ककुण्डे स्नानसमये दम्पतीभिः परम्परानुसारं धृतानि वस्त्राणि तत्रैव त्यक्तानि। स्नानसमये एव दम्पतीभिः एकैकस्य शाकस्य त्यागोऽपि कृतः। स्नानस्य तथा शाकस्य फलस्य वा दानस्य अनन्तरं दम्पतीभिः समीपस्थस्य लोलार्केश्वरमहादेवस्य दर्शनमपि कृतम्।
काश्यां मान्यता अस्ति यत् सन्तानप्राप्तेः कामनया लोलार्ककुण्डे स्नानं कुर्वद्भिः भगवान् सूर्यं प्रति श्रद्धां प्रदर्शयद्भिः कस्यचित् एकस्य शाकस्य त्यागः करणीयः। अस्याः परम्परायाः पालनं कुर्वन्तः बहवः जनाः स्नानानन्तरं लौकीं कूष्माण्डं च इत्यादीनि शाकानि कुण्डे प्रवाहितवन्तः। मान्यता अस्ति यत् कुण्डे त्यक्तं तत् फलविशेषं सन्तानस्य प्रतीकरूपं भवति, यं दम्पती जीवनपर्यन्तं न खादतः।
पूर्ववर्षेषु लोलार्ककुण्डे स्नानानन्तरं येषां दम्पतीनां सन्तानप्राप्तिः अभवत्, ते मनोकामनापूर्तेः हर्षेण भगवतः नाम्नि कड़ाहीसमर्पणस्य परम्परां जगन्नाथमन्दिरपरिसरे पूर्णां कुर्वन्ति। तेषां बालकानां मुण्डनसंस्कारोऽपि तत्रैव क्रियते।
लोलार्केश्वरमहादेवस्य पुजारी रमेशकुमारपाण्डेयः अवदत् यत् दम्पती एकत्र कुण्डस्य पवित्रे जले त्रिवारं निमज्जनं कुर्वन्ति। स्नानस्य समाप्तौ कुण्डे एकं फलं समर्प्यते तथा आर्द्राणि वस्त्राणि तत्रैव त्यज्यन्ते। मान्यता अस्ति यत् अनेन पूर्वसञ्चिताः सर्वे क्लेशाः ग्रहबाधाश्च अपगच्छन्ति। ततः श्रद्धालवः लोलार्केश्वरमहादेवस्य विधिवत् पूजां कृत्वा वंशवृद्धेः आशीर्वादं याचन्ते।
सूनीक्रोडे कूजितं बालानां हास्यम्
लोलार्ककुण्डस्य धार्मिकमान्यता अस्ति यत् अत्र स्नानेन सन्तानहीनानां दम्पतीनां सूना क्रोडा सन्तानेन पूर्यते। पञ्चाशत्पादपरिमिते गभीरे पञ्चदशपादपरिमिते विस्तृते च अस्मिन् पवित्रे कुण्डे त्रिषु दिशासु सोपानानि सन्ति, येन तस्य स्वरूपं गभीरकूपसदृशं भवति। श्रद्धाविश्वाससम्बद्धे अस्मिन् कुण्डे प्रतिवर्षं सहस्रशः दम्पती सन्तानप्राप्तेः कामनया आगच्छन्ति।
काशीखण्डे वर्णितमस्ति यत् लोलार्कषष्ठ्यां लोलार्ककुण्डे स्नानेन सन्तानसुखं प्राप्यते तथा शारीरिककष्टेभ्यः मुक्तिश्च भवति। दम्पतीभिः कुण्डे त्रिवारं निमज्जनं कृत्वा लोलार्केश्वरमहादेवस्य विशेषरूपेण पूजनमपि क्रियते।
अघोरपीठस्य क्रींकुण्डेऽपि श्रद्धालूनां समूहः
लोलार्कषष्ठ्याः अवसरे रविन्द्रपुरीस्थे क्रींकुण्डेऽपि श्रद्धालूनां समूहः दृश्यते स्म। स्नानस्य दर्शनपूजनस्य च कृते दूरदूरस्थेभ्यः प्रदेशेभ्यः समागतानां भक्तानां उपस्थित्या सम्पूर्णः परिसरः जनैः पूर्णः अभवत्। बाबा कीनारामस्य जन्मोत्सवस्य अर्थात् कीनारामषष्ठ्याः उपलक्ष्ये परिसरस्य श्रमदानं स्वच्छताभियानं च आयोजितम्।
Hindusthan Samachar / Dheeraj Maithani