Enter your Email Address to subscribe to our newsletters

डॉ. मयङ्कचतुर्वेदी
उत्तरप्रदेशस्य राजनीतौ मुख्यमन्त्रिणः योगी-आदित्यनाथस्य विरोधे कियती अपि तीव्रा भाषा प्रयुज्येत, तेन एकं मूलभूतं तथ्यं न परिवर्तते यत् कस्यापि सर्वकारस्य मूल्याङ्कनं अन्ततः तस्य कार्यैः परिणामैश्च भवति। वर्षे २०१७ तमे यदा योगी-आदित्यनाथः उत्तरप्रदेशस्य शासनभारं स्वीकृतवान्, तदा राज्यस्य पुरतः विधिव्यवस्था, स्वास्थ्यव्यवस्था, रोजगारः, निवेशः, आधारभूतसंरचना, औद्योगिकविकासः इत्यादीनि अनेकानि बृहन्ति आव्हानानि आसन्।
प्रायः नववर्षेभ्यः अनन्तरं स्थितिं ज्ञातुं राजनीतिकनारेभ्यः अधिकं महत्त्वपूर्णाः ते तथ्याङ्काः सन्ति, ये सर्वकारस्य कार्यप्रणाल्याः दृढाधारं प्रस्तुवन्ति। योगी-आदित्यनाथस्य राजनीतौ गोरख-पुरस्य पूर्वाञ्चलस्य च इन्सेफेलाइटिस-विषादः नूतनः विषयः नासीत्। मुख्यमन्त्रिपदं प्राप्तेः पूर्वमपि सः संसदः अस्याः व्याधेः कारणेन बालानां मृत्योः विषयम् उत्थापयन् आसीत्। शासनभारं स्वीकृत्य अनन्तरं अस्याः समस्यायाः समाधानाय स्वास्थ्येन सह स्वच्छता, पेयजलम्, ग्रामीणविकासश्च संयोज्य कार्यं कृतम्।
वस्तुतः सर्वकारीयाः तथ्याङ्काः अस्य परिवर्तनस्य दिशाम् अधिकं स्पष्टतया दर्शयन्ति। उत्तरप्रदेशसर्वकारस्य २०२४ तमस्य वर्षस्य प्रतिवेदनानुसारं २०१७ तमस्य वर्षस्य तुलनायां २०२३ तमे वर्षे तीव्र-एन्सेफेलाइटिस्-सिन्ड्रोम इत्यस्य प्रकरणेषु ७६ प्रतिशतं मृत्युदरे च ९८ प्रतिशतं न्यूनता अभवत्। जापानी-एन्सेफेलाइटिस इत्यस्य प्रकरणेषु ८५ प्रतिशतं मृत्युषु च ९६ प्रतिशतं न्यूनता अभिलिखिता।
अर्थात् या व्याधिः पूर्वाञ्चलस्य सहस्राणां परिवाराणां नियतिरिव मन्यते स्म, तस्याः विरुद्धं रोगनिवारणं, स्वच्छता, पेयजलव्यवस्था, चिकित्साव्यवस्था च एकीकृत्य परिणामाः प्राप्ताः इति दावा अधुना तथ्याङ्केषु अभिलिखितः अस्ति। अग्रे स्वास्थ्यक्षेत्रे परिवर्तनम् इन्सेफेलाइटिस्-पर्यन्तं सीमितं न भूत्वा सुधारस्य दिशि बहुदूरं गतवान्। सर्वकारीयप्रतिवेदनानुसारं प्रदेशस्य सर्वेषु ७५ जनपदेषु निःशुल्का डायलिसिस्-सुविधा उपलब्धा अस्ति। उत्तरप्रदेशः अधुना ६३,४०७ पञ्जीकृतस्वास्थ्यसुविधानां सह देशे प्रथमस्थाने अस्ति। राज्ये चिकित्सामहाविद्यालयानां सङ्ख्या ८५ अभवत्, येषु बहवः नूतनाः सर्वकारीय-चिकित्सामहाविद्यालयाः योगीशासनकाले एव स्वीकृताः निर्मिताश्च सन्ति। तदतिरिक्तं ग्रामीणनागरीयस्तरे प्राथमिक-स्वास्थ्यसेवायै २२,६८१ आयुष्मानभारत-स्वास्थ्यकल्याणकेन्द्राणि सक्रियतया कार्यं कुर्वन्ति तथा राज्ये सर्वकारीय-चिकित्सालयानां सङ्ख्या ४,९४२ तः अधिका अभवत्।
स्वास्थ्यबीमाक्षेत्रे उत्तरप्रदेशेन आयुष्मान-भारतयोजनायाः अन्तर्गतं १.३१ कोटिपरिवाराणां कृते स्वास्थ्यपत्राणि प्रदत्तानि, येन कुलं ५.५९ कोटिलाभार्थिनः अस्याः योजनायाः परिधौ आगताः। योजनायाः अन्तर्गतं प्रायः १३,३५३ कोटिरूप्यकाणि व्ययित्वा अधुनापर्यन्तं ८१.५५ लक्षाधिकरोगिणां निःशुल्क-चिकित्सा कृता अस्ति। चिकित्सां सुलभां कर्तुं राज्ये आयुष्मानयोजनया सम्बद्धानां ६,२१३ चिकित्सालयानां विशालं जालं निर्मितम् अस्ति। तथैव सर्वकारीयकर्मचारिणां निवृत्तिवेतन-भोगिनां च कृते पण्डितदीन-दयालोपाध्याय-निःशुल्कचिकित्सायोजना अपि पूर्णतया कार्यं कुर्वती अस्ति। ७४ जनपदेषु सीटी-स्कैन-सुविधा उपलब्धा अस्ति तथा अल्पमूल्येषु औषधानि प्रदातुं ८७३ जनौषधिविक्रयकेन्द्राणि सञ्चालितानि सन्ति। रोगिणः शीघ्रं चिकित्सालयं प्राप्नुयुः इति हेतोः ‘१०८’ ‘१०२’ इत्येतयोः सेवयोः अन्तर्गतं ४,५०० तः अधिकानि रुग्णवाहनानि नियोजितानि सन्ति, येन अधुनापर्यन्तं कोटिशः जनाः लाभान्विताः सन्ति।
अङ्कीयस्वास्थ्यस्य मातृस्वास्थ्यस्य च क्षेत्रेऽपि राज्येन महत्त्वपूर्णा प्रगतिः कृता अस्ति। प्रदेशे अधुनापर्यन्तं ५.७६ कोटितः अधिकानां नागरिकानाम् इलेक्ट्रॉनिक-स्वास्थ्याभिलेखाः निर्मिताः सन्ति। चिकित्सालयानां प्रशिक्षितस्वास्थ्य-कर्मचारिणां च पर्यवेक्षणे सुरक्षितप्रसवस्य प्रोत्साहनस्य कारणेन राज्ये संस्थागतप्रसवानां प्रमाणं ९६.१२ प्रतिशतं यावत् वर्धितम् अस्ति। गर्भवतीभ्यः निःशुल्क-अल्ट्रासाउण्ड्-कृते ई-वाउचर-सुविधा अपि प्रदीयते।
योगीसर्वकारस्य प्रमुखा राजनीतिकपरिचितिः विधिव्यवस्थायाः विषये निर्मिता। सर्वकारेण अपराधस्य माफियातन्त्रस्य च विरुद्धं ‘शून्यसहिष्णुता’ इति नीतिः शासनस्य प्रमुखाधाररूपेण स्वीकृता। अवैधसम्पत्तिनां विरुद्धं कार्यवाही, सङ्गठितापराधस्य विरुद्धम् अभियानं, आरक्षीव्यवस्थायां प्रौद्योगिकीय-परिवर्तनं च अस्याः नीत्या सम्बद्धानि सन्ति। अत एव उत्तरप्रदेशस्य आर्थिकनीतिषु अपि सुरक्षां निवेशस्य वातावरणं च सहैव स्थाप्यते।
कदाचित् उत्तरप्रदेशः निवेशाय कठिनं राज्यम् इति धारणा आसीत्। अधुना नीतिगतसुधारैः ‘व्यापारसुगमतायाः’ माध्यमेन च राज्यस्य निवेशक्षमता परिवर्तिता अस्ति। २०२६ तमस्य वर्षस्य फेब्रुवरीमासे सर्वकारेण विधानसभायां प्रस्तुततथ्यानुसारं विगतेषु प्रायः नववर्षेषु उत्तरप्रदेशाय ५० लक्षकोटिरूप्यकेभ्यः अधिकमूल्यानां निवेशप्रस्तावाः प्राप्ताः तथा १५ लक्षकोटिरूप्यकेभ्यः अधिक-मूल्यानां प्रस्तावानां कार्या-न्वयनस्य विवरणं समुपस्थापितम्। एतेन ६० लक्षाधिकेभ्यः युवभ्यः प्रत्यक्षः परोक्षश्च रोजगारः प्राप्तः।
उत्तरप्रदेशस्य अर्थव्यवस्थायां सूक्ष्मलघु-मध्यमोद्यमक्षेत्रस्य भूमिका शीघ्रं वर्धिता अस्ति। वर्तमानसर्वकारीय-प्रवेशतन्त्रे प्रायः ९९ लक्षं सूक्ष्मलघुमध्यमोद्यमानि ९८.१६ लक्षं च औपचारिकीकरणप्राप्तानि उद्यमानि पञ्जीकृतानि सन्ति। एतेषु १७.३५ प्रतिशतं महिलास्वामित्वयुक्तानि उद्यमानि अपि सन्ति। ‘एकजनपदः, एकोत्पादः’ इति योजनया स्थानीयोत्पादानां पारम्परिक-शिल्पिनां च विपणिना सह संयोजनस्य प्रयासः कृतः। एतत् तथ्याङ्कं तस्य विकासप्रतिमानस्य दिशि सङ्केतं करोति, यस्मिन् रोजगारस्य अर्थः केवलं सर्वकारीयसेवा न भूत्वा उद्यमिता स्वावलम्बनं च अपि अस्ति।
योगीसर्वकारस्य कार्यकाले उत्तरप्रदेशस्य विकासनीतौ द्रुतमार्गाणां औद्योगिक-परिसराणां च महत्त्वपूर्णं स्थानम् अभवत्। पूर्वाञ्चल-बुन्देलखण्ड-गङ्गा-द्रुतमार्गादयः परियोजनाः प्रदेशस्य विभिन्नभागान् शीघ्रसम्पर्केण संयोजयितुं दिशि कार्यं कृतवन्तः। रक्षौद्योगिकपरिसरेण इलेक्ट्रॉनिक्स-विनिर्माणेन च औद्योगिक-विस्तारः सम्बद्धः अस्ति। प्रदेशे १९४७ तः २०१७ पर्यन्तं कुलं प्रायः १४ सहस्रं निर्माण्य: आसन्, यदा तु विगतेषु सार्धाष्टवर्षेषु एषा सङ्ख्या ३१ सहस्राधिकाः अभवत्।
रोजगारस्य विषये सर्वकारेण सर्वकारीय-नियुक्तिनां निजिक्षेत्रस्य च समानान्तररूपेण प्रगतिः कर्तुं नीतिः स्वीकृता। विगतेषु वर्षेषु ९.३० लक्षाधिकाः सर्वकारीयनियुक्तयः प्रदत्ताः। तेन सह ‘रोजगारसङ्गम’ इति प्रवेशतन्त्रं सर्वकारीय-निजिरोजगारान्, रोजगार-मेलापकान्, परिसरनियुक्तिं, अप्रेन्टिसशिप च एकस्मिन् मञ्चे आनेतुं प्रयत्नं करोति। प्रवेशतन्त्रे सम्प्रति ४५.७५ लक्षाधिकानां रोजगाराभिलाषिणां पञ्जीकरणं तथा ७.६० लक्षाधिकाः रोजगारप्राप्तयः पञ्जीकृताः सन्ति।
शिक्षाक्षेत्रे ‘ऑपरेशन कायाकल्प’ इत्यस्य माध्यमेन सर्वकारीयविद्यालयानाम् आधारभूतसुविधानां परिवर्तनाय बलं दत्तम्। १.९१ कोटितः अधिकाः बालकाः, १,५६५ उच्चप्रौद्योगिकी-सर्वकारीय-विद्यालयाः, ६,४८१ नूतनविद्यालयाः, ५७ समग्रविद्यालयाश्च अस्याः दिशः सशक्तानि उदाहरणानि सन्ति। कृत्रिमबुद्धिमत्ता, ड्रोन, रोबोटिक्स, त्रिमितीयमुद्रणम् इत्यादीनां पाठ्यक्रमाणां आईटीआई-संस्थाभिः सह संयोजनस्य दिशा दर्शयति यत् उत्तरप्रदेशः शिक्षाक्षेत्रे अग्रे सरति। अत्र शिक्षां केवलं पाठ्यक्रमे सीमितां न स्थापयित्वा प्राविधिककौशलेन सह संयोजयितुं प्रयासः कृतः अस्ति।
अयोध्या, काशी, प्रयागराजस्य च विकासः योगीसर्वकारस्य शासनप्रतिमानस्य पृथग् आयामं प्रस्तुतयति। राममन्दिरं, काशीविश्वनाथधाम, महाकुम्भश्च सह मार्गाणां, परिवहनस्य, आवासस्य, पर्यटनसुविधानां च विस्तारः अभवत्। सर्वकारः एतानि धार्मिकश्रद्धास्थलानि तीर्थाटनेन सह पर्यटनस्य स्थानीयार्थ-व्यवस्थायाश्च विकासेन सम्बध्नाति। अतः समग्रनिष्कर्षः अस्ति यत् योगी-आदित्यनाथस्य शासनस्य विषये चर्चा केवलं वक्तव्यैः राजनीतिकारोपैश्च न, अपितु तस्य कार्यैः, उपलब्धिभिः, तथ्याङ्कैश्च भवितव्या। एषा एव स्वस्थसंवादस्य अपेक्षाऽपि अस्ति।
Hindusthan Samachar / Divya Ranjan