१४० विद्यार्थी १८ सितम्बर को मुख्यमन्त्रिणा सह संवादं करिष्यन्ति
देहरादूनम्, 17 सितंबरमासः (हि.स.)। ‘ मुख्यमन्त्री युवा विद्यार्थीमन्थन इत्यस्य अभियानस्य अन्तिमचरणे चयनिताः १४० छात्रछात्राः १८ सितम्बरदिनाङ्के मुख्यमन्त्रिणा पुष्करसिंहधामिना सह संवादं करिष्यन्ति। ‘मम स्वप्नानाम् उत्तराखण्डं कीदृशं भवेत्?’ इति व
मुख्यमंत्री युवा विद्यार्थी मंथन’ अभियान


देहरादूनम्, 17 सितंबरमासः (हि.स.)। ‘

मुख्यमन्त्री युवा विद्यार्थीमन्थन इत्यस्य अभियानस्य अन्तिमचरणे चयनिताः १४० छात्रछात्राः १८ सितम्बरदिनाङ्के मुख्यमन्त्रिणा पुष्करसिंहधामिना सह संवादं करिष्यन्ति। ‘मम स्वप्नानाम् उत्तराखण्डं कीदृशं भवेत्?’ इति विषये सम्पूर्णप्रदेशस्य विद्यार्थिभ्यः विचाराः सुझावाश्च आमन्त्रिताः आसन्।

मुख्यमन्त्रिणा धामिना संवादमिमम् अधिकव्यापकं सार्थकं च कर्तुं शासनस्य वरिष्ठेभ्यः भारतीयप्रशासनिकसेवाधिकारिभ्यः विभिन्नविभागानां विभागाध्यक्षेभ्यश्च एतेषां नवयुवकानां सह संवादं कर्तुं निर्देशाः प्रदत्ताः सन्ति। मुख्यमन्त्रिणा सह संवादात् पूर्वं वरिष्ठाः अधिकारिणः विद्यार्थिभिः सह उपविश्य तेषां विचारान् सुझावान् प्रदेशस्य भविष्यं प्रति तेषां दृष्टिकोणं च अवगमिष्यन्ति।

शिक्षा, स्वास्थ्यं, वनपर्यावरणं, स्वावलम्बनम्, जनस्थानपरिवर्तनम्, लोकनिर्माणम्, सूचनाप्रौद्योगिकी, पर्यटनम्, महिलाबालविकासश्च इत्यादीनां विविधक्षेत्राणां विभागप्रमुखाः युवानां सुझावान् श्रोष्यन्ति तथा तेषां महत्त्वपूर्णविचारान् मुख्यमन्त्रिणे अवगतं करिष्यन्ति।

मुख्यमन्त्री पुष्करसिंहधामी निरन्तरम् उक्तवान् यत् युवा केवलम् उत्तराखण्डस्य भविष्यं न, अपितु वर्तमानकाले नीतिनिर्माणस्य महत्त्वपूर्णाः सहभागिनः अपि सन्ति। एतस्याः भावनायाः आधारेण ‘मुख्यमन्त्री युवा विद्यार्थीमन्थनम्’ केवलं प्रतियोगिता न कृत्वा युवानां सर्वकारस्य च मध्ये व्यापकवैचारिकसंवादस्य मञ्चरूपेण निर्मितम् अस्ति।

मुख्यमन्त्रिणः पुष्करसिंहधामिनः निर्देशेन प्रारब्धे अस्मिन् अभियाने प्रदेशस्य प्रायः त्रिलक्षं एकादशकक्ष्यायाः द्वादशकक्ष्यायाश्च विद्यार्थिनः सम्बद्धाः। तेषु २,६७,७४४ विद्यार्थिभिः जालपुटमाध्यमेन ‘मम स्वप्नानाम् उत्तराखण्डं कीदृशं भवेत्?’ इति विषये विचाराः सुझावाश्च सर्वकाराय प्रेषिताः। विद्यार्थिनां एषा सहभागिता अभियानस्य बृहद् युवासंवादरूपेण स्वरूपं निर्मितवती।

प्राप्तविचारेभ्यः १४० श्रेष्ठाः सार्थकविचारयुक्ताः छात्रछात्राः विशेषज्ञसमित्या चयनिताः सन्ति। मुख्यमन्त्री धामी स्वयमपि प्रदेशस्य विभिन्ननगरेषु विद्यार्थिनां मध्ये गत्वा तेषां विचारान् श्रुतवान् तथा तेषां दृष्टिकोणेन सह संवादं कृतवान्। अधुना अभियानस्य अन्तिमचरणे एतेभ्यः चयनितविद्यार्थिभ्यः मुख्यमन्त्रिणा सह प्रत्यक्षसंवादस्य अवसरः प्राप्स्यते।

मुख्यमन्त्री पुष्करसिंहधामिना उक्तं यत् विद्यार्थिभिः प्रदत्ताः सार्थकाः उपयोगिनश्च सुझावाः सर्वकारस्य नीतिषु विकासस्य दिशि च समावेशिताः करिष्यन्ते। तस्य कथनम् अस्ति यत् युवा यस्य उत्तराखण्डस्य कल्पनां कुर्वन्ति, तस्य अवगमनं तथा तस्य दृष्टिकोणस्य विकासयोजनाभिः सह संयोजनं सर्वकारस्य प्राथमिकता अस्ति।

मुख्यमन्त्री धामी उक्तवान्, “वयं इमां संततिं भारतीयसंततिं मन्यामहे। एतया सह वैचारिकमन्थनं कृत्वा बहूनां नूतनविचाराणां ज्ञातुं बोधयितुं च अवसरः प्राप्तः। एषा संततिः उत्तराखण्डस्य भविष्यं वर्तते। ‘मम स्वप्नानाम् उत्तराखण्डं कीदृशं भवेत्?’ इति विषये विद्यार्थिभिः सह सार्थकः सकारात्मकश्च संवादः अभवत्। अधुना अस्य अभियानस्य अन्तिमचरणे वयं शासनस्य वरिष्ठान् भारतीयप्रशासनिकसेवाधिकारिणः अपि सम्मिलितवन्तः, येन ते युवाभिः सह उपविश्य तेषां दृष्टिकोणं विचारांश्च शृणुयुः। उत्तमान् उपयोगिनश्च विचारान् वयं स्वनीतिषु समावेशयिष्यामः।”

मुख्यमन्त्री उक्तवान् यत् तस्य सर्वकारः युवाभिः सह संवादे सहभागितायां च विश्वासं करोति। प्रधानमन्त्रिणा नरेन्द्रमोदिना २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं दृष्टिकोणः देशस्य पुरतः प्रस्तुतः। उत्तराखण्डस्य युवानः अपि अस्य सङ्कल्पस्य साकारकरणे महत्त्वपूर्णं योगदानं प्रदास्यन्ति। देवभूमेः युवा स्वप्रतिभया, नवाचारैः विचारैश्च विकसितस्य उत्तराखण्डस्य विकसितस्य भारतस्य च निर्माणे सहभागी भवेत्, एतदेव मुख्यमन्त्री युवा विद्यार्थीमन्थनस्य मूलोद्देश्यम् अस्ति।

‘मुख्यमन्त्री युवा विद्यार्थीमन्थन’ अभियानस्य शुभारम्भः १० अगस्तदिनाङ्के मुख्यमन्त्री पुष्करसिंहधामिना विद्यार्थिभिः सह संवादेन कृतः आसीत्। अस्मिन् अवसरे तेन प्रदेशस्य युवानः ‘मम स्वप्नानाम् उत्तराखण्डं कीदृशं भवेत्?’ इति विषये स्वविचारान् प्रकटयितुं राज्यस्य विकासाय च रचनात्मकान् परामर्शान् दातुम् आहूताः आसन्।

मुख्यमन्त्रिणा एतदपि घोषितं यत् श्रेष्ठविचारप्रदातृभ्यः विद्यार्थिभ्यः द्वादशकक्ष्यायाः अनन्तरं तेषां वृत्तिजीवनस्य सज्जतायै प्रशिक्षणाय च अधिकतमं द्विलक्षरूप्यकाणां छात्रवृत्तिः प्रदास्यते। अभियानस्य अन्तर्गतं चयनितेभ्यः १४० छात्रच्छात्रेभ्यः अस्याः योजनायाः लाभः प्राप्स्यते।

---

Hindusthan Samachar / Dheeraj Maithani