चक्रधरसमारोहः - मधुमितारायमिश्रा इत्यनया कत्थकस्य शास्त्रीयनृत्यस्य विविधता परिचायिता
रायगढम्, १८ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढस्य रायगढजनपदे एक-चत्वारिंशत्तमस्य चक्रधरसमारोहस्य चतुर्थे सायंकार्यक्रमे १७ सेप्टेम्बरमासे कत्थकनृत्याङ्गना मधुमिता रायमिश्रा इत्यनया स्वीयया प्रस्तुत्या दर्शकाः कत्थकस्य शास्त्रीयनृत्यपरम्परायाः तस्य वि
चक्रधर समारोह की प्रस्तूति


रायगढम्, १८ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढस्य रायगढजनपदे एक-चत्वारिंशत्तमस्य चक्रधरसमारोहस्य चतुर्थे सायंकार्यक्रमे १७ सेप्टेम्बरमासे कत्थकनृत्याङ्गना मधुमिता रायमिश्रा इत्यनया स्वीयया प्रस्तुत्या दर्शकाः कत्थकस्य शास्त्रीयनृत्यपरम्परायाः तस्य विविधशैल्याश्च परिचिताः कृताः। पद्मविभूषणपुरस्कारप्राप्तस्य पण्डित-बिरजूमहाराजस्य वरिष्ठशिष्या मधुमिता रायमिश्रा कत्थकस्य पारम्परिकशैल्याः, भावस्य, लयस्य तालस्य च मनोहरं संयोजनं प्रस्तुतवती।

चक्रधरसमारोहस्य मञ्चे तया सह श्रीयङ्का माली, अनिमिखा दे, चन्द्रिका दासः, प्रसेनजीत मजुमदारः अमित-कुमारदासश्च सहभागितां कृतवन्तः। कार्यक्रमे ‘ॐ ब्रह्मे’, ‘भजन-द्रौपदी-चीरहरणम्’, ‘ध्रुपदम्’ तथा ‘कथक-संयोजनम्’ इत्येते प्रस्तुतयः अन्तर्भूताः आसन्। कलाकारैः भावाभिनयेन, पदसञ्चालनेन, लयकार्या तालस्य च माध्यमेन कत्थकस्य विविधाः प्रस्तुतयः सजीवाः कृताः।

मधुमितारायमिश्रा इत्यस्याः कत्थकक्षेत्रे देशे विदेशेषु च विशिष्टा प्रतिष्ठा वर्तते। सा दूरदर्शनस्य उच्चश्रेण्याः कलाकारिणी भवति। तदतिरिक्तं भारतीयसांस्कृतिक-सम्बन्धपरिषदः भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य च उत्कृष्टश्रेण्याः कलाकारिणी अस्ति। सा राष्ट्रियवृत्तिं प्राप्तवती तथा नवदिल्ली इत्यत्र स्थितात् कत्थककेन्द्रात् छात्रवृत्तिरूपां शोधवृत्तिमपि प्राप्तवती। सङ्गीतनाटक-अकादम्या मान्यताप्राप्ता कलाकारिणी इव सा देशस्य अनेकासु प्रतिष्ठितासु सांस्कृतिकसभासु प्रस्तुतिं दत्तवती।

सा खजुराहो-महोत्सवे, ताज-महोत्सवे, कथक-महोत्सवे, वाराणस्यां संकट-मोचन-महोत्सवे, राजगीर-महोत्सवे, निशागन्धी-महोत्सवे इत्येतेषु विभिन्नेषु प्रमुखेषु सांस्कृतिककार्यक्रमेषु प्रस्तुतिं दत्तवती।

भारतीयसांस्कृतिकसम्बन्धपरिषदः भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य च कलाकारिणीरूपेण सा अमेरिका, कनाडा, इटली, जर्मनी, मिस्र, इण्डोनेशिया, चीन, दक्षिणकोरिया, मलेशिया, सिङ्गापुर, ब्रिटेन, ऑस्ट्रेलिया इत्यादिषु अनेकदेशेषु भारतीयशास्त्रीयनृत्यस्य प्रस्तुतिं दत्तवती। सम्प्रति सा कोलकातानगरे स्थिते रविन्द्रभारतीविश्वविद्यालये शिक्षिकारूपेण कार्यं करोति।

Hindusthan Samachar / Divya Ranjan