राहुलगान्धिनः पोस्ट् इति विषये भाजपायाः प्रत्युत्तरम्, सुधांशुत्रिवेदिना तस्य राजनैतिकज्ञानस्य विषये प्रश्नाः उत्थापिताः
नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। काङ्ग्रेसनेतुः लोकसभायां प्रतिपक्षनेतुः राहुलगान्धिनः सामाजिकमाध्यमे प्रकाशितं पोस्ट् इत्येतं प्रति भारतीयजनतापक्षेण शुक्रवासरे प्रत्युत्तरं दत्तम्। भाजपासांसदः राष्ट्रियप्रवक्ता च सुधांशुत्रिवेदी राहुलगान्धिनः
सुधांशु त्रिवेदी, भाजपा सांसद


नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। काङ्ग्रेसनेतुः लोकसभायां प्रतिपक्षनेतुः राहुलगान्धिनः सामाजिकमाध्यमे प्रकाशितं पोस्ट् इत्येतं प्रति भारतीयजनतापक्षेण शुक्रवासरे प्रत्युत्तरं दत्तम्। भाजपासांसदः राष्ट्रियप्रवक्ता च सुधांशुत्रिवेदी राहुलगान्धिनः राजनैतिक-ज्ञानस्य विषये प्रश्नान् उत्थाप्य अवदत् यत् येषां राजनैतिकदलानाम् उदाहरणं दत्त्वा राहुलगान्धी भाजपायाः उपरि आरोपान् करोति, तेषां दलानां काङ्ग्रेसात् पृथक्करणस्य इतिहासस्य तेन ज्ञानं नास्ति। राहुलगान्धी स्वस्य पोस्ट् मध्ये शिवसेना, राष्ट्रवादी काङ्ग्रेसपक्षः तथा तृणमूलकाङ्ग्रेस इत्येतेषाम् उल्लेखं कृत्वा भाजपायाः निर्वाचनायोगस्य च उपरि राजनैतिकदलानां विभाजनस्य आरोपं कृतवान्।

भाजपामुख्यालये आयोजितायां पत्रकार-वार्तायां सुधांशुत्रिवेदी अवदत् यत् राहुलगान्धिनः विषये देशस्य, समाजस्य, संस्कृतेः, धर्मस्य च ज्ञानस्य अभावस्य धारणा पूर्वमेव वर्तते, किन्तु तस्य नूतनवक्तव्येन एतद् अपि दृश्यते यत् तस्मै स्वकीयदलस्य राजनैतिक-इतिहासस्य अपि ज्ञानं नास्ति।

सः अवदत् यत् राहुलगान्धी भाजपायाः उपरि शिवसेनायाः, एनसीपी-पक्षस्य, तृणमूलकाङ्ग्रेसस्य च विनाशस्य आरोपं कृतवान्, यद्यपि एतेषां दलानां गठनस्य परिस्थितीनां सम्बन्धः काङ्ग्रेसस्य स्वकीयेन राजनैतिक-इतिहासेन सह आसीत्। त्रिवेदी अवदत् यत् राहुलगान्धिना स्वकीयदलस्य राजनैतिकपरम्परां तथा तस्मात् पृथक्कृत्य निर्मितानां दलानाम् इतिहास: च अवलोकनीय:।

सुधांशुत्रिवेदी अवदत् यत् राष्ट्रवादी काङ्ग्रेसपक्षस्य गठनं शरद्पवारेण १९९९ तमे वर्षे काङ्ग्रेसात् पृथक्कृत्य कृतम् आसीत्। तथैव ममता बनर्जिना १९९७ तमे वर्षे काङ्ग्रेसात् पृथक्कृत्य तृणमूल-काङ्ग्रेसस्य गठनं कृतम् आसीत्। सः अवदत् यत् अनन्तरं तृणमूलकाङ्ग्रेसेन पश्चिमबङ्गाले काङ्ग्रेसस्य राजनैतिक-स्थितिः दुर्बला कृता।

भाजपानेता अवदत् यत् राजनैतिकदलानां इतिहासं तथा तेषां गठनस्य परिस्थितीः अविज्ञाय अन्यस्मिन् दले आरोपारोपणं समुचितं नास्ति। सः राहुलगान्धिनः वक्तव्यं काङ्ग्रेसस्य स्वकीय-राजनैतिक-इतिहासस्य ज्ञानाभावेन सम्बद्धं कृत्वा अवदत् यत् काङ्ग्रेसात् पृथक्कृत्य निर्मितानां दलानाम् उदाहरणं दत्त्वा भाजपायां प्रश्नं उत्थापयितुं प्रयत्नः स्वयं काङ्ग्रेसस्य इतिहासस्य विषये प्रश्नं जनयति।

उल्लेखनीयं यत् राहुलगान्धी शुक्रवासरे सामाजिकमाध्यमे प्रकाशिते पोस्ट् मध्ये शिवसेनायाः, एनसीपी-पक्षस्य, अधुना तृणमूलकाङ्ग्रेसस्य च उल्लेखं कृत्वा भाजपायाः निर्वाचनायोगस्य च उपरि विपक्षीदलानां विभाजनस्य तथा अनन्तरं तेषां निर्वाचनचिह्नस्य उपरि प्रतिबन्धं स्थापयितुम् च आरोपं कृतवान्।

Hindusthan Samachar / Divya Ranjan