Enter your Email Address to subscribe to our newsletters

रायपुरम्, 18 सितंबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः शुक्रवासरे राजधानीरायपुरे रायगढे च आयोजितेषु विभिन्नेषु कार्यक्रमेषु सम्मिलितः भविष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११ वादनम् १५ निमेषाधिके रायपुरस्य विज्ञानमहाविद्यालयप्राङ्गणे प्राप्य चतुर्दशे भारतोद्योगमेलने २०२६ इत्यस्मिन् सम्मिलितः भविष्यति। ततः मध्याह्ने १२ वादनम् १५ निमेषाधिके विज्ञानमहाविद्यालयात् प्रस्थाय पुलिसप्राङ्गणस्थितं हेलिपैडस्थानं प्राप्स्यति तथा च हेलिकॉप्टरयानेन रायगढं प्रति प्रस्थास्यति।
मुख्यमन्त्री मध्याह्ने १ वादनम् ५५ निमेषाधिके रायगढजनपदस्य बनोरा ग्रामस्थितम् अघोराश्रमं प्राप्स्यति। तत्र मध्याह्ने २ वादनात् ३ वादनम् ४५ निमेषपर्यन्तं नूतनविद्यालयभवनस्य लोकार्पणकार्यक्रमे सम्मिलितः भविष्यति।
तदनन्तरं मुख्यमन्त्री सायं ५ वादनम् २० निमेषाधिके रायपुरस्थितं मुख्यमन्त्रिनिवासं प्राप्स्यति। सायं ६ वादनम् ३० निमेषाधिके एकस्मिन् निजीविश्रामस्थले आयोजिते ‘विकसितछत्तीसगढसमागमे’ भागं ग्रहीष्यति।
कार्यक्रमस्य अनन्तरं सायं ७ वादनम् ३० निमेषाधिके सेक्टर्-२४ स्थितं मुख्यमन्त्रिनिवासं प्रति प्रस्थास्यति तथा रात्रौ ८ वादनम् ४० निमेषाधिके सिविललाइन्स्थितं मुख्यमन्त्रिनिवासं प्राप्स्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani