इतिहासस्य पृष्ठेषु १९ सेप्टेम्बरमास: — हिन्दीभाषायै समर्पितः सप्ताहः
हिन्दीसप्ताहः १४ सेप्टेम्बरमासतः २१ सेप्टेम्बरपर्यन्तं मान्यते। अस्मिन् काले विविधाः प्रतियोगिताः आयोज्यन्ते। एतद् आयोजनं विद्यालयेषु कार्यालयेषु च क्रियते। एतेषु सप्तदिवसेषु निबन्धलेखना-दिमाध्यमैः जनानां हिन्दीभाषायाः विकासस्य विषये जागरूकता वर्धत
हिंदी सप्ताह


हिन्दीसप्ताहः १४ सेप्टेम्बरमासतः २१ सेप्टेम्बरपर्यन्तं मान्यते। अस्मिन् काले विविधाः प्रतियोगिताः आयोज्यन्ते। एतद् आयोजनं विद्यालयेषु कार्यालयेषु च क्रियते। एतेषु सप्तदिवसेषु निबन्धलेखना-दिमाध्यमैः जनानां हिन्दीभाषायाः विकासस्य विषये जागरूकता वर्धते।

अस्य सप्ताहस्य आरम्भः १४ सेप्टेम्बरे हिन्दी-दिवसेन भवति। हिन्दी-दिवसः प्रतिवर्षं १४ सेप्टेम्बरमासे आचर्यते। १४ सेप्टेम्बरमासे १९४९ तमे वर्षे संविधानसभया एषः निर्णयः कृतः आसीत् यत् हिन्दी केन्द्रसर्वकारस्य राजभाषा भविष्यति। हिन्दीभाषायाः सर्वेषु क्षेत्रेषु प्रसाराय १९५३ तमवर्षात् सम्पूर्णे भारते १४ सेप्टेम्बरमासै प्रतिवर्षं हिन्दी-दिवसः आचर्यते। स्वातन्त्र्यप्राप्त्यनन्तरं हिन्दीभाषां राजभाषारूपेण प्रतिष्ठापयितुं काका-कालेलकरः, हजारीप्रसादद्विवेदी, सेठ-गोविन्ददासः इत्यादीन् साहित्यकारान् सह नीत्वा व्यौहारराजेन्द्रसिंहेन अथकप्रयत्नाः कृताः। १९१८ तमे वर्षे महात्मागान्धिना हिन्दी-साहित्यसम्मेलने हिन्दीभाषां राजभाषां कर्तुं कथितम् आसीत्। तेन हिन्दीभाषा जनमानसस्य भाषा अपि कथिता आसीत्।

आङ्ग्लभाषायाः चीनीभाषायाश्च अनन्तरं हिन्दी सम्पूर्णे विश्वे तृतीया बृहत्तमा भाषा अस्ति। भारते प्रायः ४६ प्रतिशतं जनसंख्यायाः मातृभाषा हिन्दी अस्ति, या संख्या प्रायः ६५ कोटितः अधिका अस्ति। एषा संख्या बृहद्भ्यः देशेभ्यः अपि अधिका अस्ति। तथापि वैश्विकस्तरे हिन्दीभाषायै यत् स्थानं प्राप्तव्यम् अस्ति, तत् अद्यापि न प्राप्तम्। हिन्दीभाषा अद्यापि संयुक्त-राष्ट्रसङ्घस्य भाषा न कृता अस्ति। एतत् विडम्बनमेव कथयितुं शक्यते यत् योगाय १७७ देशानां समर्थनं प्राप्तम्, किन्तु हिन्दीभाषायै १२९ देशानां समर्थनं किं न सङ्ग्रहीतुं शक्यते?

अन्याः प्रमुखाः घटनाः

१८९१ — विलियमशेक्सपियरस्य प्रसिद्धनाटकस्य “मर्चेन्ट् आफ् वेनिस्” इत्यस्य मञ्चनं मैनचेस्टर-नगरे प्रथमवारं कृतम्।१८९३ — न्यूजीलैण्डदेशे निर्वाचनाधिनियमस्य १८९३ अन्तर्गतं सर्वासां महिलानां मतदानस्य अधिकारः प्रदत्तः।१९५५ — अर्जेण्टिनादेशस्य स्थलसेनया नौसेनया च विद्रोहं कृत्वा राष्ट्रपतिं जुआन पेरोनपदात् अपसारितवन्तौ।१९५७ — अमेरिकादेशेन नेवादामरुभूमौ प्रथमं भूमिगतपरमाणुपरीक्षणं कृतम्।१९८२ — स्कॉटफाह्मान् अन्तर्जाल-सन्देशस्य प्रयोगं कर्तृषु प्रथमः व्यक्तिः अभवत्।१९८३ — ब्रिटिशोपनिवेशः कैरिबियनद्वीपसमूहस्य सेन्ट-किट्स-नेविस-देशः स्वतन्त्रः अभवत्।१९८८ — इस्राइलदेशेन परीक्षणोपग्रहस्य होरिजोन-आई इत्यस्य सफलतया प्रक्षेपणं कृतम्।१९९६ — एलिजाइजेत्बेगोविच युद्धोत्तरकाले बोस्नियादेशस्य प्रथमः राष्ट्रपतिः अभवत्।१९९६ — ग्वाटेमालासर्वकारेण वामपन्थिभिः विद्रोहिभिश्च दीर्घकालीनं युद्धं समापयितुं शान्तिसन्धौ हस्ताक्षराणि कृतानि।२००० — कर्णमल्लेश्वर्या ओलम्पिक्-क्रीडायां भारोत्तोलनस्पर्धायां कांस्यपदकं प्राप्तम्।२००२ — इस्राइलस्य सैनिकैः पश्चिमतीरे फिलिस्तीननेता यासिर-अराफातस्य बन्धनं कृतम्।२००६ — सर्वकारस्य सत्तापरिवर्तनस्य मध्ये थाइलैण्डदेशे आपत्कालः प्रवर्तितः।२००६ — थाइलैण्डे सैन्यसत्तापरिवर्तनं जातम् तथा जनरलसुरायुदः प्रधानमन्त्री अभवत्।२००७ — साइबरयुद्धस्य सम्भावनां दृष्ट्वा अमेरिकावायुसेनया अस्थायी-सैन्यादेशकेन्द्रस्य गठनं कृतम्।२००८ — सर्वोच्चन्यायालयेन छत्तीसगढे नक्सलगतिविधीनां नियन्त्रणाय प्रारब्धस्य सलवाजुडूम-इत्यस्य कार्यकर्तॄणां गतिविधीनां निरोधस्य निर्देशः प्रदत्तः।२०१४ — एप्पल-आईफोन-६ इत्यस्य विक्रयः प्रारब्धः।

जन्म

१९७९ — सत्यदेवप्रसादः — भारतीयः धनुर्धरः।१९५८ — लकीअली — भारतीयः गायकः, सङ्गीतकारः अभिनेता च।१९६५ — सुनीताविलियम्स; — नासा-अन्तरिक्षसंस्थायाः माध्यमेन अन्तरिक्षं गता भारतीयमूला द्वितीया महिला।१९७७ — आकाशचोपड़ा — भारतीयः क्रिकेटक्रीडकः।१९२७ — कुँवरनारायणः — हिन्दीभाषायाः प्रसिद्धः सम्मानितश्च कविः।१८८६ — सैयद्फजलअली — भारतीयः न्यायाधीशः, यः असम-ओडिशाराज्ययोः राज्यपालः अभवत्।१८६७ — श्रीपाददामोदर सातवलेकरः — विंशतितमशताब्द्यां भारतीयसांस्कृतिकोत्थाने विशेषं योगदानं कृतवान् विद्वान्।

निधनम्

२०१३ — सरस्वतीप्रसादः — चर्चिता लेखिका तथा सुमित्रानन्दनपन्तस्य मानसपुत्री।१९८८ — पी. शीलू एओ — भारतीयः राजनीतिज्ञः, यस्य सम्बन्धः ‘नागा नेशनलिस्ट ऑर्गेनाइजेशन’ इति राजनैतिकदलेन सह आसीत्।१९६५ — बलवन्तरायमेहता — भारतीयः राजनीतिज्ञः तथा गुजरातस्य द्वितीयः मुख्यमन्त्री।१९३६ — विष्णुनारायणभातखण्डे — हिन्दुस्तानीशास्त्रीयसङ्गीतस्य विद्वान्।१७१९ — रफीउद्दौला — मुगलवंशस्य एकादशः बादशाहः।

महत्त्वपूर्णाः अवसराः एवं उत्सवाः

राष्ट्रियहिन्दीदिवसः (सप्ताहः)

Hindusthan Samachar / Divya Ranjan