विश्वकर्मपूजायां मुख्यमन्त्रिणा शुभेन्दु-अधिकारिणा प्रदत्ताः शुभकामनाः, श्रमिकाणां योगदानाय च कृतं नमनम्
कोलकाता, १८ सेप्टेम्बरमासः (हि.स.)। वास्तुकलायाः, शिल्पस्य सृजनस्य च देवस्य भगवतः विश्वकर्मणः पूजायाः पावनावसरे पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राज्यवासिभ्यः हार्दिक्यः शुभकामनाः प्रदत्तवान्। सः समाजस्य सभ्यतायाश्च निर्माणे तकनीकीवर्गस्
शुभेंदु अधिकारी ने किया गणेश पूजा का उद्घाटन


कोलकाता, १८ सेप्टेम्बरमासः (हि.स.)। वास्तुकलायाः, शिल्पस्य सृजनस्य च देवस्य भगवतः विश्वकर्मणः पूजायाः पावनावसरे पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राज्यवासिभ्यः हार्दिक्यः शुभकामनाः प्रदत्तवान्। सः समाजस्य सभ्यतायाश्च निर्माणे तकनीकीवर्गस्य श्रमिकवर्गस्य च अथकं योगदानं स्मृत्वा तेभ्यः नमनं कृतवान्।

सामाजिकमाध्यमे ‘एक्स’ इत्यत्र शुक्रवासरे प्रकाशिते स्वकीयसन्देशे मुख्यमन्त्री उक्तवान् यत् समाजस्य प्रगतेः पृष्ठतः येषां हस्तानां निरन्तरं योगदानं वर्तते, तेभ्यः सर्वेभ्यः शिल्पिभ्यः, वास्तुकारेभ्यः, प्रौद्योगिकिविद्भ्यः, यन्त्र-कारेभ्यः निर्माणिनां परिश्रमेभ्यः श्रमिकेभ्यश्च सः अन्तर्मनसा प्रणामं करोति। सः स्पष्टं कृतवान् यत् एतेषां कर्मकराणाम् अथकं परिश्रमः, तेषां प्रतिभा कौशलं च देशस्य समाजस्य च विकासस्य प्रमुखा प्रेरणाशक्तिः अस्ति।

मुख्यमन्त्री शुभेन्दु-अधिकारी देवशिल्पिनः भगवतः विश्वकर्मणः समीपे राज्यवासिनां सुखस्य, समृद्धेः सफलतायाश्च कामनां कृतवान्। सः स्वप्रार्थनायां लिखितवान् यत् श्रमिकाणां प्रत्येकं कार्यक्षेत्रं सुरक्षितं भवेत् तथा पश्चिमबङ्गस्य गृहे गृहे आत्मनिर्भरतायाः प्रकाशः प्रसरेत्।

Hindusthan Samachar / Divya Ranjan