संघस्य पूर्वक्षेत्रसंघचालकस्य प्रोफेसर-डी.पी.सिंहस्य निधनम्
लखनऊ, १८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य पूर्वी-उत्तर-प्रदेशक्षेत्रस्य पूर्वक्षेत्रसंघचालकस्य प्रोफेसर-देवेन्द्रप्रतापसिंहस्य लखनऊ-नगरे ९२ वर्षस्य आयुषि गुरुवासरे रात्रौ निधनम् अभवत्। तस्य अन्त्येष्टिः शुक्रवासरे १८ सेप्टेम्बरमासे
प्रोफेसर डी पी सिंह


लखनऊ, १८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य पूर्वी-उत्तर-प्रदेशक्षेत्रस्य पूर्वक्षेत्रसंघचालकस्य प्रोफेसर-देवेन्द्रप्रतापसिंहस्य लखनऊ-नगरे ९२ वर्षस्य आयुषि गुरुवासरे रात्रौ निधनम् अभवत्। तस्य अन्त्येष्टिः शुक्रवासरे १८ सेप्टेम्बरमासे प्रातः ११ वादने लखनऊ-नगरस्य भैंसाकुण्डस्थिते वैकुण्ठधामे भविष्यति। सः मूलतः जौनपुर-जनपदस्य मडियाहूँ-तहसीलस्य निवासी आसीत्।

सः काशीहिन्दूविश्वविद्यालयस्य भारतीय-प्रौद्योगिकीसंस्थानस्य विभागे प्राध्यापक-रूपेण कार्यं कृतवान्।

तदतिरिक्तं सः लखनऊविश्वविद्यालयस्य तथा राजर्षिटण्डनमुक्तविश्वविद्यालयस्य कुलपतिपदमपि अलङ्कृतवान्। तस्य पुत्रः प्रोफेसर-सञ्जयसिंहः लखनऊ-नगरस्य शकुन्तलामिश्रराष्ट्रीयपुनर्वासविश्वविद्यालयस्य कुलपतिः अस्ति।

तस्य निधनस्य विषये राष्ट्रियस्वयं-सेवकसंघः, विश्वहिन्दुपरिषद्, अखिल-भारतीयविद्यार्थीपरिषद्, भारतीयकिसान-संघः, भारतीयमजदूरसंघः इत्यादीनां विविधसङ्गठनानां कार्यकर्तारः शोकं प्रकटितवन्तः।

Hindusthan Samachar / Divya Ranjan