भूजलस्रोतसां परीक्षणे उत्तरप्रदेशेन देशे प्रथमस्थानं प्राप्तम्
लखनऊ, 18 सितंबरमासः (हि.स.)। योगीसर्वकारः प्रदेशवासिनां कृते जलसंरक्षणे, भूजलस्तरस्य सुधारणे तथा प्रत्येकं गृहं प्रति स्वच्छस्य सुरक्षितस्य च जलस्य प्रापणे निरन्तरं नूतनानि कीर्तिमानानि स्थापयति। अस्यैव क्रमस्य अन्तर्गतं उत्तरप्रदेशे भूजलस्रोतसां
योगी आदित्यनाथ


लखनऊ, 18 सितंबरमासः (हि.स.)।

योगीसर्वकारः प्रदेशवासिनां कृते जलसंरक्षणे, भूजलस्तरस्य सुधारणे तथा प्रत्येकं गृहं प्रति स्वच्छस्य सुरक्षितस्य च जलस्य प्रापणे निरन्तरं नूतनानि कीर्तिमानानि स्थापयति। अस्यैव क्रमस्य अन्तर्गतं उत्तरप्रदेशे भूजलस्रोतसां गुणवत्तायाः स्थितेश्च निरीक्षणार्थं क्रियमाणे परीक्षणकार्ये प्रदेशेन देशे प्रथमस्थानं प्राप्तम्। परीक्षणस्य अन्तर्गतं राज्यस्तरीयाभिः जिलास्तरीयाभिश्च प्रयोगशालाभिः प्रदेशस्य सर्वेषु भागेषु भूजलस्रोताणां, भूमिगतजलटङ्कीनाम्, उपरिस्थजलटङ्कीनां तथा जलस्य अन्येषां स्रोतसां परीक्षणं कृतम्।

भारतसर्वकारस्य जलशक्तिमन्त्रालयस्य पेयजलस्वच्छताविभागेन वित्तीयवर्षस्य २०२६ २७ प्रथमषाण्मासिकावधौ ४८०५५ भूजलस्रोताणां परीक्षणस्य लक्ष्यं निर्धारितम् आसीत्। तस्य लक्ष्यस्य सापेक्षं ४५३६१ स्रोतसां परीक्षणं सम्पन्नं कृतम् अस्ति। एतत् निर्धारितलक्ष्यस्य ९४.३९ प्रतिशतं भवति। १५ सितम्बर् २०२६ पर्यन्तस्य आँकडानाम् आधारेण उत्तरप्रदेशः देशस्य राज्येषु प्रथमस्थाने वर्तते।

उत्तरप्रदेशजलनिगमग्रामीणस्य प्रबन्धनिदेशकः योगेशकुमारः निर्गते वक्तव्ये अवदत् यत् भूजलस्रोतसां नियमितपरीक्षणं पेयजलस्य गुणवत्तायाः जलस्रोताणां स्थितेश्च निरीक्षणस्य दृष्ट्या महत्त्वपूर्णम् अस्ति। केन्द्रसर्वकारस्य स्तरादपि जलस्रोताणां गुणवत्ता, स्रोतस्थायित्वं गहननिरीक्षणं च प्रति विशेषं बलं दीयते। अस्मिन् क्षेत्रे उत्तरप्रदेशेन सर्वश्रेष्ठाः परिणामाः प्राप्ताः सन्ति तथा भविष्येऽपि प्रदेशस्य सर्वेभ्यः जनभ्यः शुद्धपेयजलस्य उपलब्धतां सुनिश्चितं कर्तुं प्रयासः निरन्तरं भविष्यति।

पञ्जाबम् आन्ध्रप्रदेशं च पृष्ठतः स्थापयित्वा शीर्षस्थाने उत्तरप्रदेशः

भूजलस्रोताणां परीक्षणस्य राज्यवारक्रमाङ्कने उत्तरप्रदेशस्य अनन्तरं पञ्जाबः द्वितीयस्थाने आन्ध्रप्रदेशश्च तृतीयस्थाने वर्तते। पञ्जाबेन निर्धारितलक्ष्यस्य ८३.४६ प्रतिशतं तथा आन्ध्रप्रदेशेनापि ८३.४६ प्रतिशतं लक्ष्यं प्राप्तम् अस्ति। उत्तराखण्डः ८२.३० प्रतिशतस्य उपलब्ध्या चतुर्थस्थाने तथा केरलः ८१.१३ प्रतिशतस्य उपलब्ध्या पञ्चमस्थाने वर्तते।

राष्ट्रियसाधारणमानात् प्रायः ४४ प्रतिशताधिकम् उपलब्धिः

उत्तरप्रदेशजलनिगमग्रामीणस्य अधीक्षणाभियन्ता राज्यप्रयोगशालाप्रमुखश्च ज्ञानेन्द्रकुमारचौधरी अवदत् यत् भूजलस्रोताणां परीक्षणे उत्तरप्रदेशस्य ९४.३९ प्रतिशतस्य उपलब्धिः राष्ट्रियसाधारणमानस्य ५०.४६ प्रतिशतस्य अपेक्षया अत्यधिकम् अस्ति। अर्थात् उत्तरप्रदेशेन राष्ट्रियसाधारणमानस्य तुलनया प्रायः ४४ प्रतिशताधिकं उपलब्धिम् अङ्किता अस्ति।

४८ सहस्रेभ्यः अधिकस्रोताणां निर्धारितं लक्ष्यम्

वित्तीयवर्षस्य २०२६ २७ कृते उत्तरप्रदेशे समग्रतया ४८०५५ भूजलस्रोताणां परीक्षणस्य लक्ष्यं निर्धारितम् आसीत्। तस्य सापेक्षं ४५३६१ स्रोतसां परीक्षणं सम्पन्नम् अस्ति। अधुना निर्धारितलक्ष्यस्य पूर्तये २६९४ स्रोतसां परीक्षणं शेषम् अस्ति। एवं प्रदेशेन प्रथमषाण्मासिकावधावेव निर्धारितलक्ष्यस्य बृहदंशः सम्पन्नः कृतः अस्ति।

-----------------

Hindusthan Samachar / Dheeraj Maithani