Enter your Email Address to subscribe to our newsletters

लखनऊ, १८ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशेन स्वस्य बालिकानां स्वस्थस्य सुरक्षितस्य च भविष्यस्य दिशि महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। मानवीयपैपिलो-माविषाणोः टीकाकरणाभियानस्य अन्तर्गतं २६ लक्षाधिकाभ्यः बालिकाभ्यः सुरक्षाकवचं प्रदाय शतप्रतिशतं लक्ष्यम् अधिगतम् अस्ति। एषा उपलब्धिः प्रदेशे किशोरीणां सुरक्षितभविष्यस्य, स्वास्थ्य-संरक्षणस्य तथा गर्भाशयग्रीवा-कर्कटरोगस्य निवारणं प्रति प्रदेश-सर्वकारस्य प्रतिबद्धतां प्रदर्शयति।
राष्ट्रिय-एचपीवी-टीकाकरणाभियानस्य अन्तर्गतं १४ वर्षवयस्काभ्यः पात्राभ्यः बालिकाभ्यः मातापित्रोः अनुमत्या राज-कीयस्वास्थ्यकेन्द्रेषु निःशुल्कम् एक-मात्रामात्रायुक्तं एचपीवी-टीका प्रदीयते। अस्य अन्तर्गतं तस्यै प्रत्येकं बालिकायै जीवनरक्षकं टीकं निःशुल्कं दीयते, यस्याः चतुर्दशं जन्मदिनं पूर्णम् अस्ति, किन्तु पञ्चदशं जन्मदिनम् अद्यापि न आगतम्। चिकित्साविशेषज्ञानाम् अनुसारं टीकायाः प्रभावस्य दृष्ट्या एषः आयुवर्गः सर्वाधिकम् उपयुक्तः मन्यते, येन भविष्ये गर्भाशयग्रीवाकर्कटरोगस्य समस्या पर्याप्तमात्रया न्यूनीकर्तुं शक्यते।उल्लेखनीयं यत् निजीचिकित्सालयेषु एचपीवी-टीकायाः मूल्यं तुलनया अधिकं भवति, अतः अनेकेषां परिवाराणां कृते तस्य लाभं प्राप्तुं कठिनं भवति। अतः उत्तरप्रदेशसर्वकारेण एषा टीका प्रदेशस्य सर्वेषु सर्वकारीयस्वास्थ्यकेन्द्रेषु जनपद-चिकित्सालयेषु च पूर्णतया निःशुल्कं उपलब्धं कारितम् अस्ति, येन आर्थिकदृष्ट्या दुर्बलवर्गस्य बालिकाः अपि अस्मात् सुरक्षाकवचात् वञ्चिताः न भवन्तु।अस्मिन् अवसरे राष्ट्रियस्वास्थ्याभियानस्य अभियाननिदेशिका डॉ. पिङ्कीजोवलः इत्यनया प्रकाशिते निवेदने उक्तं यत् उत्तरप्रदेशः स्वस्य चिह्नितलक्षितसमूहे शतप्रतिशतं टीकाकरणव्याप्तिं प्राप्तवत्सु राज्येषु अन्तर्भवति। २६ लक्षाधिकाभ्यः बालिकाभ्यः एचपीवी-टीकया सुरक्षा-कवचस्य प्राप्तिः अस्माकं कृते केवलम् उपलब्धिः वा सङ्ख्या वा नास्ति, अपितु लक्षशः परिवाराणाम् आशाभिः अस्माकं बालिकानां सुरक्षितभविष्येन च सम्बद्धः भावनात्मकः क्षणः अस्ति। एकस्याः बालिकायाः स्वस्थत्वस्य अर्थः केवलं एकस्य परिवारस्य स्वस्थत्वं न, अपितु अग्रिमवंशानां सुदृढत्वं सुरक्षितत्वं च अस्ति। अस्माकम् इच्छा अस्ति यत् अस्माकं प्रत्येकं बालिका स्वस्वप्नानि पूर्णीकर्तुं पूर्णतया स्वस्थतया आत्मविश्वासेन च अग्रे वर्धेत। गर्भाशयग्रीवाकर्कटरोगसदृशात् रोगात् रक्षणाय समये कृतं टीकाकरणं भविष्यस्य महतीं चिन्ताम् अद्यैव न्यूनीकर्तुं कृतः एकः महत्त्वपूर्णः प्रयत्नः अस्ति।
अनया उक्तं यत् एचपीवी-संक्रमणं गर्भाशयग्रीवाकर्कटरोगस्य प्रमुखेषु कारणेषु अन्यतमम् अस्ति। किशोरा-वस्थायां एचपीवी-टीकाकरणं भविष्ये एचपीवी-संक्रमणस्य तेन सम्बद्धानां कर्कटरोगाणां च समस्यां न्यूनीकर्तुं दिशि महत्त्वपूर्णं निवारणात्मकं साधनम् अस्ति। एतदेव उद्दिश्य प्रदेशे पात्राभ्यः बालिकाभ्यः टीकायाः प्राप्तिः सुनिश्चितं कर्तुं व्यापकस्तरे जनजागरणस्य सामुदायिकसहभागिता-याश्च विशेषं बलं दीयते।
Hindusthan Samachar / Divya Ranjan