रक्तसागरक्षेत्रे सुरक्षास्थितेः अवनतिं प्रति भारतस्य चिन्ता, सऊदी-अरबदेशे आक्रमणानि निन्दनीयानि - जायसवालः
नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। भारतं रक्तसागरक्षेत्रे सुरक्षास्थितेः अवनतिं प्रति गभीरां चिन्तां प्रकटितवान् अस्ति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः सऊदी-अरबदेशस्य सार्व-भौमक्षेत्रे कृतानाम् आक्रमणानां निन्दां कुर्वन् उक्तवान् यत् ना
विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल शुक्रवार को विदेश मंत्रालय की मीडिया ब्रीफिंग में सवालों के जवाब देते हुए


नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। भारतं रक्तसागरक्षेत्रे सुरक्षास्थितेः अवनतिं प्रति गभीरां चिन्तां प्रकटितवान् अस्ति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः सऊदी-अरबदेशस्य सार्व-भौमक्षेत्रे कृतानाम् आक्रमणानां निन्दां कुर्वन् उक्तवान् यत् नागरिकाणाम् आर्थिकप्रतिष्ठानानां च लक्ष्यीकरणं कुर्वन्तः एतादृशानि आक्रमणानि क्षेत्रीयशान्तिं सुरक्षां च प्रभावितं कुर्वन्ति तथा च बाब-अल-मन्देब-मार्गे नौवहनस्य स्वातन्त्र्याय संकटम् उत्पादयन्ति।

जायसवालः शुक्रवासरे विदेशमन्त्रालयस्य वार्तामाध्यमसम्बोधने उक्तवान्, “वयं रक्तसागरक्षेत्रे सुरक्षास्थितेः अवनतिं प्रति अत्यन्तं चिन्तिताः स्मः।” तेन उक्तं यत् भारतं सऊदी-अरबदेशस्य सार्वभौमक्षेत्रे कृतानाम् आक्रमणानां निन्दां कृतवान् अस्ति, येषु नागरिकाः आर्थिकप्रतिष्ठानानि च लक्ष्यीकृतानि।

प्रवक्त्रा उक्तं यत् मक्कायाः पवित्रनगरे कृतस्य आक्रमणप्रयासस्य अनन्तरम् भारतं स्वस्य वक्तव्यमपि प्रकाशितवान् आसीत्। तेन उक्तं यत् एतादृशानि आक्रमणानि क्षेत्रीयशान्तिं सुरक्षां च प्रभावितानि कुर्वन्ति तथा क्षेत्रीयसुरक्षां दुर्बलीकुर्वन्ति।

तेन उक्तं यत् एतानि आक्रमणानि बाब-अल-मन्देब-मार्गे नौवहनस्य स्वातन्त्र्याय अपि संकटं जनयन्ति। विभिन्नकारणैः एतत् अस्माकं कृते पूर्णतया अस्वीकार्यम् अस्ति। जायसवालः आशां प्रकटितवान् यत् क्षेत्रे शीघ्रमेव शान्तिः स्थैर्यं च पुनः स्थापयिष्येते।

उल्लेखनीयं यत् यमनस्य हूतीविद्रोहिणाम् सऊदी-अरबदेशस्य सैन्यगठबन्धनस्य च मध्ये दशकात् प्रचलितः संघर्षः वर्षे २०२२ तमे संयुक्तराष्ट्रस्य मध्यस्थतया शान्तः अभवत्, किन्तु गतसप्ताहे हूतीविद्रोहिभिः रक्तसागरस्य तटवर्तिक्षेत्रस्य विशालः भागः अधिकृतः। हूतीविद्रोहिभिः कृतस्य अस्य अधिग्रहणस्य कारणेन अस्मिन् महत्त्वपूर्णे समुद्रीमार्गे जलयानानां सुरक्षां प्रति संकटम् उत्पन्नम्। हूतीविद्रोहिणां निरन्तराक्रमणैः सम्पूर्णक्षेत्रस्य चिन्ता वर्धिता अस्ति, यस्य प्रभावः केवलम् अरबदेशेभ्यः सीमितः न भविष्यति, अपितु विश्वस्य तैलविपण्याम् अपि भवितुम् अर्हति।

Hindusthan Samachar / Divya Ranjan