नीतीशकुमारस्य अध्यक्षतायाम् अद्य भविष्यति जदयू-सदस्यानां एकदिवसीयः प्रबोधनकार्यक्रमः
पटना, १८ सेप्टेम्बरमासः (हि.स.)। पूर्वमुख्यमन्त्री जनता दल-यूनाइटेड् इति दलस्य अध्यक्षश्च नीतीशकुमारस्य अध्यक्षतायां अद्य जदयू-दलस्य विधान-सभासदस्यानां विधानपरिषदः सदस्यानां च विशेषः समागमः आयोज्यमानः अस्ति। दलस्य पक्षतः अयं एकदिवसीयः प्रबोधनकार्यक
नीतीशकुमारस्य अध्यक्षतायाम् अद्य भविष्यति जदयू-सदस्यानां एकदिवसीयः प्रबोधनकार्यक्रमः


पटना, १८ सेप्टेम्बरमासः (हि.स.)। पूर्वमुख्यमन्त्री जनता दल-यूनाइटेड् इति दलस्य अध्यक्षश्च नीतीशकुमारस्य अध्यक्षतायां अद्य जदयू-दलस्य विधान-सभासदस्यानां विधानपरिषदः सदस्यानां च विशेषः समागमः आयोज्यमानः अस्ति। दलस्य पक्षतः अयं एकदिवसीयः प्रबोधनकार्यक्रमः इति कथितः अस्ति। कार्यक्रमे जदयू-दलस्य विधायकाः, विधानपरिषदः सदस्याः सांसदाश्च सहभागिनः भविष्यन्ति।

कार्यक्रमं प्रति राजनैतिकक्षेत्रेषु चर्चा तीव्रा अभवत्, तथापि दलस्य पक्षतः स्पष्टं कृतं यत् अस्य कार्यक्रमस्य उद्देश्यं विधायकानां विधानपरिषदः सदस्यानां च सदनस्य कार्यप्रणालीं तथा तेषां विधायी-दायित्वानि प्रति सूचनाप्रदानम् अस्ति। अतः सम्प्रति कार्यक्रमः कस्यचित् महत्त्वपूर्णस्य राजनैतिकस्य अथवा सङ्घटनात्मकेन निर्णयेन सह सम्बद्धः न मन्यते।

जदयू-दलस्य राष्ट्रियप्रवक्ता राजीव रञ्जनप्रसादः वार्तालापे उक्तवान् यत् प्रदेशकार्यालयस्य कर्पूरीसभागारे एकदिवसीयः प्रबोधनकार्यक्रमः आयोजितः भविष्यति। अस्मिन् कार्यक्रमे दलस्य विधानसभायाः विधानपरिषदः च सदस्येभ्यः तेषां विधायी-दायित्वानां विषये सूचना प्रदास्यते।

दलस्य कथनमस्ति यत् अस्य कार्यक्रमस्य उद्देश्यं सदने जदयू-दलस्य जन-प्रतिनिधीनां भूमिकां अधिकं प्रभावशालिनीं कर्तुम् अस्ति। विधायकाः विधानपरिषदः सदस्याश्च बिहारस्य हितैः जनकल्याणसम्बद्धैश्च विषयैः सदने तथ्याधारितरूपेण सुदृढतया स्वपक्षं स्थापयितुं शक्नुयुः, एतदर्थमेव प्रशिक्षण-कार्यक्रमस्य आयोजनं कृतम् अस्ति।

अस्मिन् कार्यक्रमे केवलं दलस्य वरिष्ठनेतारः एव न, अपितु विधायीकार्यसम्बद्धाः विशेषज्ञाः अपि उपस्थिताः भविष्यन्ति। प्राप्तसूचनानुसारं पीआरएस लेजिस्लेटिव रिसर्च इत्यस्य विशेषज्ञाः जदयू-दलस्य विधायकान् विधानपरिषदः सदस्यांश्च प्रशिक्षणं प्रदास्यन्ति।

प्रशिक्षणकाले सदने प्रश्नानां प्रस्तुतीकरणम्, विधायी-प्रक्रियाणां बोधनम् तथा जनहितसम्बद्धानां विषयाणां प्रभावीरीत्या प्रस्तुतीकरणम् इत्यादिनां विषयाणां विषये सूचना प्रदास्यते। तदतिरिक्तं प्रश्नोत्तरार्थं पृथक् सत्रमपि निर्धारितम् अस्ति।

अद्यतनस्य कार्यक्रमस्य अवसरॆ जदयू-दलस्य राष्ट्रियकार्यकारी-अध्यक्षः सञ्जयझा, नीतीशकुमारस्य पुत्रः स्वास्थ्य-मन्त्री निशान्तकुमारः, प्रदेशाध्यक्षः उमेशसिंहकुशवाहा तथा दलस्य विधायकदलस्य नेता श्रवणकुमारश्च उपस्थिताः भविष्यन्ति।

जदयू-दलस्य सर्वेषां विधायकानां विधानपरिषदः सदस्यानां च एकत्र पटना-नगरम् आहूयमानत्वात् राजनैतिकेषु परिसरेषु कार्यक्रमं प्रति चर्चाः आरब्धाः सन्ति। अस्य एकं कारणमिदमपि अस्ति यत् दलस्य अन्तः सङ्घटनस्य भविष्यस्य राजनीतेश्च विषये विगतेषु कालेषु विभिन्नाः चर्चाः प्रकाशं गताः सन्ति।

जदयू-दलस्य नामपरिवर्तनात् आरभ्य समाननागरिकसंहितादि-विषयेषु दलस्य दृष्टिकोणं तथा अग्रिमं विधानपरिषद्-निर्वाचनं प्रति अपि राजनैतिकचर्चाः प्रचलिताः सन्ति। तदतिरिक्तं नीतीशकुमारस्य पुत्राय स्वास्थ्य-मन्त्रिणे निशान्तकुमाराय सङ्गठने महत्त्वपूर्णं दायित्वं प्रदास्यते इति सम्भावना-सम्बन्धिन्यः चर्चाः अपि तीव्राः अभवन्।

तथापि दलस्य वरिष्ठनेतृभिः एताः सम्भावनाः निरस्ताः सन्ति। जदयू-दलेन स्पष्टं कृतं यत् १८ सेप्टेम्बरमासस्य कार्यक्रमः मुख्यतया विधायकानां विधानपरिषदः सदस्यानां च प्रशिक्षणेन प्रबोधनेन च सम्बद्धः अस्ति। अस्मिन् कस्यापि राजनैतिकस्य अथवा सङ्गठनात्मकस्य निर्णयस्य योजना नास्ति।

Hindusthan Samachar / Divya Ranjan