राष्ट्रियपोषणमासस्य अन्तर्गतम् आङ्गनवाडीकेंद्रेषु पोषण-स्वास्थ्यजागरूकताकार्यक्रमाः
कोडरमा, १८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियपोषणमासः २०२६ इत्यस्य अन्तर्गतं कोडरमा-परियोजनायाः पुरानानगर-१ तथा चचाई-३ इत्येतयोः आङ्गनवाडी-केंद्रयोः शुक्रवासरे पोषणस्य, स्वास्थ्यस्य, स्वच्छतायाः जनजागरूक-तायाश्च सम्बन्धिताः विविधाः गतिविधयः आयोजिताः
Adevi


कोडरमा, १८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियपोषणमासः २०२६ इत्यस्य अन्तर्गतं कोडरमा-परियोजनायाः पुरानानगर-१ तथा चचाई-३ इत्येतयोः आङ्गनवाडी-केंद्रयोः शुक्रवासरे पोषणस्य, स्वास्थ्यस्य, स्वच्छतायाः जनजागरूक-तायाश्च सम्बन्धिताः विविधाः गतिविधयः आयोजिताः। कार्यक्रमे केन्द्रीयमहिला-बालविकासमन्त्री अन्नपूर्णादेवी अपि सहभागितां कृतवती तथा केन्द्रेषु आयोजितानां गतिविधीनाम् अवलोकनं कृतवती।

अन्नपूर्णादेवी मातृभिः, लाभार्थिभिः आङ्गनवाडिकार्यकर्तृभिश्च सह संवादं कृत्वा बालानां मातॄणां च पोषणस्य स्वास्थ्यस्य च विषये सूचनां प्राप्तवती। आङ्गनवाडीकेंद्रस्य परिसरे स्थानीय-पारम्परिकधान्यानाम् आधारेण पोषण-प्रदर्शिनी आयोजिता। तत्र स्थानीयस्तरे उपलब्धानां खाद्यपदार्थानां पोषणमूल्यं सन्तुलिताहारे तेषां उपयोगिता च प्रदर्शिता। अस्मिन् अवसरे गर्भवतीनां महिलानां गोदभराई-संस्कारः लघुबालानां च अन्नप्राशनसंस्कारः अपि कारितः।

महिलाभिः सह संवादस्य समये बालानां समुचितपोषणस्य, सन्तुलिताहारस्य, स्वास्थ्यस्य परिचर्यायाश्च सम्बन्धितेषु विषयेषु चर्चा कृता। बालकेभ्यः फलानि वितीर्य पौष्टिकाहारस्य महत्त्वस्य सन्देशः प्रदत्तः। स्वच्छस्वस्थपर्यावरणं प्रति जागरूकतां वर्धयितुम् आङ्गनवाडीकेंद्रस्य परिसरे वृक्षारोपणमपि कृतम्।

कार्यक्रमस्य अन्तर्गतं ग्रामस्वास्थ्य-स्वच्छता-पोषणदिवसस्य आयोजनमपि अभवत्। सहायकपरिचारिकया गर्भवतीभ्यः महिलाभ्यः, धात्रीमातृभ्यः अन्येभ्यः लाभार्थिभ्यश्च नियमितस्वास्थ्यपरीक्षणस्य, टीकाकरणस्य तथा गर्भावस्थायां शैशवावस्थायां च समुचितपोषणस्य महत्त्वस्य विषये सूचना प्रदत्ता। लाभार्थिनः समये टीकाकरणं कारयितुम् आवश्यक-स्वास्थ्यसेवानां लाभं च स्वीकर्तुं जागरूकाः कृताः।

अधिकारिभिः उक्तं यत् गर्भवतीनां धात्रीमातॄणां बालानां च समीपं सर्वकारीययोजनानां पोषणसम्बद्धसेवानां च प्रभावी लाभं प्रापयितुं विभागस्य पक्षतः निरन्तरं प्रयत्नाः क्रियन्ते।

कार्यक्रमे उपविकासायुक्तः रविजैनः, जनपदसमाजकल्याणपदाधिकारी कनककुमारीतिर्की, बालविकास-परियोजनाधिकारी डॉ. रेखाराणी, पप्पू-कुमारयादवः, मयूरेशकुमारः, राजकुमार-तिवारी इत्यादयः सम्बद्धाः अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan