राज्ये यातायातव्यवस्थां सुदृढीकर्तुं प्रत्यक्षनियन्त्रणकक्षः प्रारब्धः, मुख्यमन्त्री शुभेन्दुअधिकारी टोलफ्रीनम्बरं प्रसारितवान्।
कोलकाता, 18 सितंबरमासः (हि.स.)। पश्चिमबङ्गे यातायातव्यवस्थायाः निरीक्षणं अधिकं सुदृढं कर्तुं राज्यसर्वकारेण महत्त्वपूर्णः पदक्षेपः स्वीकृतः। साल्टलेकस्थिते आरक्षाभवने यातायातमुख्यालये अत्याधुनिकः प्रत्यक्षयातायातनियन्त्रणकक्षः स्थापितः अस्ति। शुक
शुभेंदु अधिकारी ने किया गणेश पूजा का उद्घाटन


कोलकाता, 18 सितंबरमासः (हि.स.)।

पश्चिमबङ्गे यातायातव्यवस्थायाः निरीक्षणं अधिकं सुदृढं कर्तुं राज्यसर्वकारेण महत्त्वपूर्णः पदक्षेपः स्वीकृतः। साल्टलेकस्थिते आरक्षाभवने यातायातमुख्यालये अत्याधुनिकः प्रत्यक्षयातायातनियन्त्रणकक्षः स्थापितः अस्ति। शुक्रवासरे मुख्यमन्त्री शुभेन्दुअधिकारी नूतनस्य नियन्त्रणकक्षस्य औपचारिकम् उद्घाटनं कृतवान्। मुख्यसचिवस्य विशेषप्रयासेन यातायातमहानिरीक्षकस्य त्रिपुरारीस्य नेतृत्वे च निर्मितः अयं नियन्त्रणकक्षः सम्पूर्णस्य राज्यस्य प्रमुखेषु मार्गेषु वाहनानां गमनागमनस्य प्रत्यक्षं निरीक्षणं करिष्यति।

उद्घाटनानन्तरं मुख्यमन्त्रिणा उक्तं यत् प्रशासनिकसेवासु प्रत्यक्षनिरीक्षणस्य आवश्यकतायाः स्वपूर्वानुभवानाम् आधारेण एव तेन मुख्यसचिवाय सम्बन्धितेभ्यश्च अधिकारिभ्यः एतादृशव्यवस्थायाः प्रस्तावः प्रदत्तः आसीत्। अस्य नियन्त्रणकक्षस्य माध्यमेन पश्चिमबङ्गस्य सर्वेषां महत्त्वपूर्णानां राष्ट्रियमार्गाणां राज्यराजमार्गाणां च सह नगरीयक्षेत्राणां यातायातस्यापि प्रत्यक्षं निरीक्षणं कर्तुं शक्यते। डानकुनी फरक्का कालियाचक दालखोला इस्लामपुर इत्यादिषु अत्यधिकजनसङ्कुलक्षेत्रेषु दीर्घकालं यावत् भवतां यातायातावरोधानां कारणानां शीघ्रं परिचयं कृत्वा तेषां समाधानं करिष्यते।

सामान्यजनस्य सुविधायै शिकायतानां च शीघ्रसमाधानाय मुख्यमन्त्रिणा विशेषः निःशुल्कदूरभाषाङ्कः १८००३४५८९२२ अपि प्रकाशितः। अतिरिच्य शीघ्रमेव चलदूरभाषसम्बद्धः सम्पर्कसूत्राङ्कः व्हाट्सऐप् सङ्ख्या च सक्रिये भविष्यतः, येन सामान्यनागरिकाः यातायातसम्बद्धां कस्यापि समस्यायाः सूचना प्रत्यक्षं प्रशासनं प्रति प्रेषयितुं शक्नुवन्ति। मुख्यमन्त्रिणा यातायातपुलिसकर्मचारिणां सुरक्षां सुनिश्चितुं, यातायातसूचनाकेन्द्राणां स्थितिं सुधारयितुं, निष्क्रियान् सीसीटीवीदृश्यग्राहकान् च शीघ्रं सम्यक् कर्तुं कठोरनिर्देशाः प्रदत्ताः।

तेन एतदपि स्पष्टं कृतं यत् जनपदस्तरे जिलाधिकारिभिः, पुलिसाधिकारिभिः, रेलविभागीयाधिकारिभिः राष्ट्रियमार्गप्राधिकरणस्य अधिकारिभिश्च समन्वयसमुपवेशनानि आयोज्य एकीकृता कार्ययोजना निर्मास्यते। मुख्यमन्त्रिणा उक्तं यत् तेन पालसिट् डानकुनी फरक्का धुलागढ इत्यादीनां प्रमुखानां चेकपोस्टानां व्यक्तिगतं निरीक्षणमपि कृतम् अस्ति। येषु क्षेत्रेषु अतिरिक्तनिरीक्षणस्य आवश्यकता अस्ति, तानि कार्यबिन्दुरूपेण चिह्नितानि सन्ति।

पर्वतीयक्षेत्राणां उल्लेखं कुर्वन् मुख्यमन्त्रिणा उक्तं यत् दार्जिलिङ्ग् कालिम्पोङ्ग् च क्षेत्रयोः प्रायः सप्तप्रतिशतं मार्गक्षेत्रं वाहनस्थापनाय प्रयुज्यते, येन यातायातावरोधस्य गम्भीरा समस्या उत्पद्यते। तेन जनपदप्रशासनाय पर्वतीयक्षेत्रेषु वैकल्पिकवाहनस्थापनस्थलानि अन्वेष्टुं निर्देशाः प्रदत्ताः। तेन सह विद्यालयीयछात्रच्छात्राणां गमनागमनस्य वर्तमानस्थितेः विषये चिन्तां प्रकटयन् मुख्यमन्त्रिणा उक्तं यत् विद्यार्थिनां सुरक्षितयात्रां सुनिश्चितं कर्तुं सर्वकारस्य प्राथमिकतासु अन्तर्भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani