प्रधानमन्त्री शनिवासरे पर्यावरणस्य जलवायुगतिशीलतायाश्च भविष्यविषयके अन्ताराष्ट्रियसम्मेलने उद्घाटनं करिष्यति
नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे विज्ञानभवने ‘पर्यावरणस्य जलवायुगति-शीलतायाश्च भविष्यत्’ इति विषये आयोजितस्य अन्ताराष्ट्रिय-सम्मेलनस्य उद्घाटनं करिष्यति। द्विदिवसीयमिदं सम्मेलनं सेप्टेम्बरमासस्य १९ तथा २० दिन
प्रधानमंत्री नरेन्द्र मोदी गुरुवार को वीडियो कॉन्फ्रेंस के माध्यम से संबोधित करते हुए


नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे विज्ञानभवने ‘पर्यावरणस्य जलवायुगति-शीलतायाश्च भविष्यत्’ इति विषये आयोजितस्य अन्ताराष्ट्रिय-सम्मेलनस्य उद्घाटनं करिष्यति। द्विदिवसीयमिदं सम्मेलनं सेप्टेम्बरमासस्य १९ तथा २० दिनाङ्कयोः राष्ट्रियहरिता-धिकरणस्य पक्षतः आयोज्यते।

प्रधानमन्त्रिकार्यालयस्य अनुसारं सम्मेलने पर्यावरणेन जलवायुना च सम्बद्धानां महत्त्वपूर्णानां समस्यानां विषये विचारविमर्शः भविष्यति। पर्यावरणीय-शासनव्यवस्थां सुदृढां कर्तुम् उपायानां विषये अपि चर्चा भविष्यति। अस्मिन् सम्मेलने भारतस्य सर्वोच्चन्यायालयस्य विभिन्नानां उच्च-न्यायालयानां च न्याया-धीशाः, जनपद-न्यायालयानां न्यायाधीशाः, विभिन्न-मन्त्रालयानां सचिवाः वरिष्ठाधि-कारिणः च, पर्यावरणविशेषज्ञाः अन्य-सम्बद्धपक्षाः च भागं ग्रहीष्यन्ति।

सम्मेलने सप्तदशदेशानां प्रतिष्ठित-न्यायाधीशाः न्यायिकप्रतिनिधयश्च अपि भागं ग्रहीष्यन्ति। तदतिरिक्तं राज्य-न्यायिकप्रशिक्षणसंस्थानां, राज्य-विधिक-सेवाप्राधिकरणानां, राज्यविशेषज्ञ-मूल्याङ्कनसमितीनां, राज्यपर्यावरण-प्रभावमूल्याङ्कनप्राधिकरणानां तथा राज्यार्द्रभूमिप्राधिकरणानां प्रतिनिधयः अपि सम्मिलिताः भविष्यन्ति।

सम्मेलने विभिन्नदेशानां संस्थानां च मध्ये न्यायिकदृष्टिकोणानां, वैज्ञानिकज्ञानस्य, पर्यावरणीयशासनस्य प्रक्रियाणां तथा संस्थागतानुभवानां आदानप्रदानं भविष्यति। तद्वत् नीतिनिर्माणे, तस्य कार्यान्वयने प्रवर्तने च विद्यमानानां न्यूनतानां तथा पर्यावरण-जलवायु-सम्बद्धानां समस्यानां विषये चर्चा भविष्यति।

सम्मेलनस्य उद्देश्यं पर्यावरणीयशासन-व्यवस्थाम् अधिकप्रभावशालिनीं कर्तुं तथा विभिन्नसंस्थानां मध्ये सहयोगं सुदृढं कर्तुं उपायानां अन्वेषणमपि अस्ति।

Hindusthan Samachar / Divya Ranjan