Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। संयुक्तारब-अमीरातस्य राष्ट्रपतिः शेखमोहम्मदबिनजायद-अल-नाह्यानः शुक्रवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दूरभाषेण वार्तां कृतवान्। उभौ नेतारौ पश्चिम-एशियायां शान्तेः, सुरक्षायाः, स्थैर्यस्य च प्रवर्धनाय निरन्तरं सहयोगं समन्वयं च कर्तुं स्वप्रतिबद्धतां पुनरुक्तवन्तौ।
मोदी एक्स-सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् यूएई-राष्ट्रपतिः तस्मै जन्मदिवसस्य हार्दिकशुभकामनाः अयच्छत्। उभौ नेतारौ भारत-संयुक्तारब-अमीरातयोः मध्ये व्यापक-रणनीतिक-सहभागिताम् अधिकं सुदृढां कर्तुं नवीनोपायानाम् अपि चर्चां कृतवन्तौ। वार्तायाः समये ऊर्जायाः, रक्षायाः, प्रौद्योगिक्याः, निवेशस्य, स्वास्थ्यस्य च सहितेषु विविधक्षेत्रेषु द्विपक्षीयसहयोगम् अग्रे नेतुम् उपायानां विषये विचारविनिमयः अभवत्।
यूएई-राष्ट्रपतिः भारतस्य सफलस्य ब्रिक्स्-अध्यक्षपदस्य कृते अपि प्रधानमन्त्रिणे मोदिने अभिनन्दनं प्रेषितवान्। प्रधानमन्त्री भारतस्य अध्यक्षतायां आयोजिते ब्रिक्स-शिखर-सम्मेलने अबूधाबीनगरस्य युवराजस्य शेखखालिदबिनमोहम्मद-बिनजायद-अल-नाह्यानस्य सह-भागितायाः तथा सम्मेलनस्य दृढपरिणामानां प्राप्तौ यूएई-देशस्य सहयोगस्य सहभागितायाश्च प्रशंसाम् अकरोत्।
उभौ नेतारौ पश्चिम-एशियायाः घटनाक्रमेषु अपि विचारानाम् आदानप्रदानं कृतवन्तौ तथा क्षेत्रे शान्तेः, सुरक्षायाः, स्थैर्यस्य च प्रवर्धनाय निरन्तरं सहयोगं समन्वयं च कर्तुं स्वप्रतिबद्धतां पुनरुक्तवन्तौ।
Hindusthan Samachar / Divya Ranjan