मध्यप्रदेशे सेमीकण्डक्टरक्षेत्रे निवेशस्य विपुलाः सम्भावनाः - मुख्यमन्त्री डॉ. यादवः
– सेमीकॉन इण्डिया-२०२६ मध्ये मुख्यमन्त्रिणा सेमीकण्डक्टर-निर्माणिभिः सह संवादः, जापान-कोरिया-अमेरिका-स्वीडनदेशानां प्रतिनिधिभिः सह साक्षात्कार: भोपालम्, १८ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रदेशे निवेशाय
मुख्यमंत्री डॉ. मोहन यादव ने नई दिल्ली में सेमीकंडक्टर इंडिया : 2026 में आयोजित प्रदर्शनी का अवलोकन किया


मुख्यमंत्री डॉ. मोहन यादव ने नई दिल्ली में सेमीकंडक्टर इंडिया : 2026 में निवेशकों के साथ वन-टू-वन चर्चा की


मुख्यमंत्री डॉ. मोहन यादव ने नई दिल्ली में सेमीकंडक्टर इंडिया : 2026 में आयोजित प्रदर्शनी का अवलोकन किया


मुख्यमंत्री डॉ. मोहन यादव ने नई दिल्ली में सेमीकंडक्टर इंडिया : 2026 में निवेशकों के साथ वन-टू-वन चर्चा की


– सेमीकॉन इण्डिया-२०२६ मध्ये मुख्यमन्त्रिणा सेमीकण्डक्टर-निर्माणिभिः सह संवादः, जापान-कोरिया-अमेरिका-स्वीडनदेशानां प्रतिनिधिभिः सह साक्षात्कार:

भोपालम्, १८ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रदेशे निवेशाय अनुकूलं वातावरणं सज्जीकृतम् अस्ति। सेमी-कण्डक्टर, चिप्-डिजाइनिङ्ग्, इले-क्ट्रॉनिक्स इत्यादिषु उद्भवमानेषु क्षेत्रेषु निवेशस्य विपुलाः सम्भावनाः सन्ति। प्रदेशसर्वकारः उद्योगेभ्यः आवश्यकसहयोगं सुविधाश्च प्रदातुं प्रतिबद्धः अस्ति।

मुख्यमन्त्री डॉ. यादवः गुरुवासरे नव-दिल्लीस्थे यशोभूमिस्थले आयोजितस्य सेमीकॉन इण्डिया-२०२६ इत्यस्य मध्यप्रदेश-पवेलियन इत्यस्य भ्रमणानन्तरं निवेशकान् सम्बोधयन् आसीत्। अस्मिन् अवसरे तेन सेमीकण्डक्टर-इलेक्ट्रॉनिक्स क्षेत्रयोः प्रमुखानां राष्ट्रियानाम् अन्ताराष्ट्रियानां च निर्माणिनां प्रतिनिधिभिः सह साक्षात्कार: कृत:। मध्यप्रदेशे निवेशस्य, प्रौद्योगिकी-सहयोगस्य तथा सेमी-कण्डक्टरक्षेत्रस्य विस्तारस्य सम्भावनानां विषये सः उद्योगप्रतिनिधिभिः सह चर्चां कृतवान्।

मुख्यमन्त्री डॉ. यादवः पारस सेमीकण्डक्टर्स, थॉमसन सेमीकण्डक्टर्स, स्प्रिन्टोनिक्स एआई, एनएक्सपी इण्डिया, मार्वल सेमीकण्डक्टर्स, एल एण्ड टी सेमीकण्डक्टर्स तथा स्वदेश आईसी सेमीकण्डक्टर्स इत्यादीनां विभिन्न-निर्माणिनां प्रतिनिधिभिः सह संवादं कृतवान्।

वैश्विकनिर्माणिनां प्रतिनिधिभिः सह चर्चा

मुख्यमन्त्रिणा इन्टरनेशनल सेमी-कण्डक्टर इण्डस्ट्री ग्रुप इत्यस्य प्रतिनिधिमण्डलेन सह अपि साक्षात्कार: कृत:। प्रतिनिधिमण्डले जापानस्य एक्रेटेक्, केनन्, कैइजो, कोरियादेशस्य हनवा, जेनसेम् इन्क् तथा अमेरिकादेशस्य मेकडरमिड् अल्फा इत्येतासां निर्माणिनां प्रतिनिधयः सम्मिलिताः आसन्। जापानीप्रतिनिधिमण्डले आक्साईड् कार्पोरेशन, स्केल फोटोनिक्स् तथा इम्प्यूट् इन्क् इत्येतानां प्रतिनिधिभिः सह अपि चर्चा कृता।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् “सेमीकॉन इण्डिया-२०२६” वैश्विकसेमी-कण्डक्टर-उद्योगेन सह संवादस्य सहयोगस्य च महत्त्वपूर्णं मञ्चम् अस्ति। मध्यप्रदेशः स्वकीयया औद्योगिकक्षमतया, निवेशसम्भावनाभिः उपलब्धसंसाधनैश्च अस्मिन् क्षेत्रे नूतनानां सहभागितानां कृते सज्जः अस्ति।

सः किष्किन्धा इन्टरनेशनल, डिजिकॉम, सिग्निटयूट्, स्टेम्बो टेक्नोलॉजी, ट्रू-चिप् सोल्युशन, बनाश्री सेमीकण्डक्टर्स, वीएलएसआई एक्सपर्ट् तथा न्यूजिमो सेमीकण्डक्टर्स इत्यादीनां चिप्-डिजाइनिङ्ग्-सेमीकण्डक्टरक्षेत्र-सम्बद्धानां निर्माणिनां प्रतिनिधिभिः सह अपि साक्षात्कारं कृतवान्। सः मोहाली-चिप-डिजाइनिङ्ग्-पवेलियनस्य स्वीडिश-पवेलियन इत्यस्य च अवलोकनमपि कृतवान्। सेमीकॉन इण्डिया-२०२६ इत्यस्य समये आयोजितासु एतासु सभासु मध्यप्रदेशे सेमीकण्डक्टर, चिप्-डिजाइनिङ्ग् तथा इलेक्ट्रॉनिक्स-क्षेत्रेषु निवेशस्य प्रौद्योगिकीसहयोगस्य च सम्भावनानां विषये संवादः अभवत्।

मध्यप्रदेशस्य इन्दौरे २३–२४ अक्तूबर-मासयोः बृहद् निवेशकसम्मेलनम्

मुख्यमन्त्री डॉ. यादवः अवदत् यत् सेमीकण्डक्टरक्षेत्रे मध्यप्रदेशे निवेशस्य विपुलाः सम्भावनाः सन्ति। राज्यसर्वकारः देशस्य विदेशस्य च निवेशकान् आकर्षयितुं निरन्तरं गम्भीरतया प्रयत्नं करोति। नवदिल्ली इत्यत्र आयोजिते सेमीकॉन इण्डिया-२०२६ इत्यस्मिन् मध्यप्रदेश-सर्वकारस्य पक्षतः एकः प्रदर्शनीकक्षः स्थापितः अस्ति, यत्र प्रदेशस्य अधिकारिणः विभिन्नक्षेत्राणां निवेशकैः व्यावसायिक-प्रतिनिधिभिश्च सह संवादं कुर्वन्ति। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे सेमीकण्डक्टर-उद्योगं प्रति रुचिः वर्धिता अस्ति। मध्यप्रदेशः अस्मिन् क्षेत्रे निवेशस्य प्रमुखकेन्द्रं भवितुं दिशि अग्रे गच्छति।

मुख्यमन्त्री डॉ. यादवः नवदिल्ली इत्यत्र यशोभूमि-द्वारका-स्थले आयोजितस्य सेमीकॉन इण्डिया-२०२६ इत्यस्य मध्यप्रदेश-पवेलियन इत्यस्य भ्रमणानन्तरं स्थानीयमाध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् अवदत् यत् आगामिषु २३-२४ अक्तूबरमासयोः इन्दौरे बृहद् निवेशकसम्मेलनम् आयोजितं भविष्यति। अस्मिन् सम्मेलनं सेमीकण्डक्टर-उद्योगसम्बद्धेभ्यः निवेशकेभ्यः मध्यप्रदेशे निवेशस्य अवसरान् राज्यस्य नीतिं च परिचाययिष्यति। अस्य सम्मेलनस्य उद्देश्यम् प्रदेशस्य निवेशसम्भावनानां राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च प्रोत्साहनम् अस्ति।

मुख्यमन्त्री अवदत् यत् सेमीकण्डक्टरक्षेत्रे निवेशस्य विषये राज्यसर्वकारः स्वकीयनीतीनां आधारेण प्रतिबद्धतया अग्रे गच्छति। प्रदेशे सेमीकण्डक्टर-उद्योगाय सर्वथा अनुकूलं वातावरणं सज्जीक्रियते। मध्यप्रदेशसर्वकारः देशे विदेशे च अस्य उद्योगस्य प्रोत्साहनाय निवेशकान् स्वस्य आकर्षकनीतीनां माध्यमेन प्रदेशे निवेशस्य अवसरं प्रदाति। सः अवदत् यत् ग्लोबल् इन्वेस्टर्स् समिट् (जीआईएस्-२०२५) इत्यस्य समये अपि सेमीकण्डक्टरक्षेत्रसम्बद्धान् निवेशकान् आमन्त्रितम् आसीत्। केचन निवेशकाः अस्मिन् दिशि प्रभाविपदानि अपि गृहीतवन्तः।

मुख्यमन्त्री अवदत् यत् सेमीकण्डक्टर-उद्योगस्य विस्तारात् मध्यप्रदेशस्य युवभ्यः रोजगारस्य कौशलविकासस्य च नूतनाः अवसराः उपलब्धाः भविष्यन्ति। अनेके व्यावसायिकसमूहाः विदेशीयाभिः निर्मातिभिः सह सहभागितां कृत्वा स्वव्यवसायस्य विस्तारं कर्तुम् इच्छन्ति। अनेन प्रदेशे नूतनानाम् उद्योगानां व्यवसायानां च विस्तृतं पारिस्थितिकी-तन्त्रम् विकसितुं शक्नोति। मध्यप्रदेशः व्यवसायस्य बृहन्मॉडल-राज्यरूपेण निवेशराजधानीरूपेण च उदितः अस्ति, प्रायः सर्वे क्षेत्राणां निवेशकाः मध्यप्रदेशम् आगन्तुम् इच्छन्ति। सः अवदत् यत् एतेषां सर्वेषां निवेशकानां सह अस्माभिः संवादः निरन्तरं क्रियते।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे निवेशकेभ्यः अनुकूलाः नीतयः, पर्याप्तं भूमिभण्डारं तथा कौशलविकासस्य उत्तमाः सम्भावनाः सन्ति। आगामिकाले मध्यप्रदेशः सेमीकण्डक्टरक्षेत्रे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। भोपाल-इन्दौर-महानगरीयक्षेत्रयोः अस्य क्षेत्रस्य विपुलाः सम्भावनाः सन्ति। पर्याप्तस्य भूमि-भण्डारस्य कौशलविकासस्य च दृष्ट्या अपि मध्यप्रदेशे बह्व्यः सम्भावनाः सन्ति।

हिन्दुस्थान समाचार / Divya Ranjan