Enter your Email Address to subscribe to our newsletters

– मध्यप्रदेशस्य राज्य-मण्डपस्य भ्रमणं, स्वीडनीय-जापानी-प्रतिनिधिमण्डलैः सह एकल-संवादं करिष्यति
भोपालम्, १८ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शुक्रवासरे नवदिल्ली इत्यत्र आयोजिते सेमिकॉन इण्डिया-२०२६ इति कार्यक्रमे सहभागी भविष्यति। मुख्यमन्त्री डॉ. यादवः नवदिल्ली इत्यस्य यशोभूमौ स्थापितस्य मध्यप्रदेशस्य राज्य-मण्डपस्य भ्रमणं कृत्वा स्वीडन इत्येतैः जापान इत्येत्यैश्च प्रतिनिधिमण्डलैः सह एकल-संवादं करिष्यति। अस्मिन् संवादे अर्धचालक-वैद्युतिकीय-क्षेत्रयोः निवेशस्य अवसराणां, प्रौद्योगिकीय-सहयोगस्य सम्भावितानां च सहभागितानां विषये चर्चा भविष्यति।
जनसम्पर्काधिकारिणी जूही श्रीवास्तवः सूचितवती यत् संवादे ऑक्साइड कॉरपोरेशन, स्केल फोटोनिक्स, इम्प्यूट इंक., एक्रिटेक, कैनन, मैकडर्मिड अल्फा, हनव्हा, कैजो, जेनेसेम इंक. इत्यादीनां निर्माणिनां संस्थानां च प्रतिनिधयः सहभागिनः भविष्यन्ति।
सा सूचितवती यत् मध्यप्रदेशः सेमिकॉन इण्डिया-२०२६ इत्यस्मिन् राज्य-सहभागिरूपेण सहभागितां करिष्यति। मध्यप्रदेशस्य राज्य-मण्डपे, एच-३००५ क्रमाङ्किते स्थाने, प्रदेशस्य उदीयमानं अर्धचालक-वैद्युतिकीय-परितन्त्रं, निवेशस्य अवसराः, औद्योगिक-सामर्थ्यं, प्रतिभा-आधारः तथा अनुकूलं नीतिगतं वातावरणं प्रदर्श्यते।
मुख्यमन्त्री डॉ. यादवः मण्डपे प्रदेशस्य उद्योगक्षेत्रस्य शैक्षणिकक्षेत्रस्य च हितधारकैः सह अपि संवादं करिष्यति। औद्योगिकक्षेत्रात् पारस सेमिकंडक्टर, एचएलबीएस, कास्टएनएक्स तथा सिक्योर मीटर्स इत्येताः संस्थाः सहभागिन्यः सन्ति। शैक्षणिकस्य अनुसन्धानपरितन्त्रस्य च प्रतिनिधित्वं आईआईटी इन्दौर, आईआईआईटी ग्वालियर, आईटी डीएवीवी तथा एसजीएसआईटीएस इन्दौर इत्येतैः संस्थानैः क्रियते।
जनसम्पर्काधिकारिण्याः अनुसारं सेमिकॉन इण्डिया-२०२६ इत्यस्य आयोजनं १७ सेप्टेम्बरमासतः १९ सेप्टेम्बरमासः २०२६ पर्यन्तं नवदिल्ली इत्यस्य यशोभूमौ भवति। अस्मिन् कार्यक्रमे सर्वकाराणां, वैश्विकानां अर्धचालक-कम्पनीनां, प्रौद्योगिकीक्षेत्रस्य अग्रणी-संस्थानां, निवेशकानां, शैक्षणिक-जगतः तथा अर्धचालक-मूल्यशृङ्खलया सम्बद्धानां अन्येषां हितधारकाणां सहभागिता वर्तते।
मध्यप्रदेशः स्वस्य सहभागितया राष्ट्रियान् अन्ताराष्ट्रियान् च हितधारकान् प्रदेशे अर्धचालक-निर्माणे, वैद्युतिकीय-क्षेत्रे, प्रौद्योगिक्यां, अनुसन्धानकार्ये, नवाचारक्षेत्रे तथा सम्बद्धेषु अन्येषु क्षेत्रेषु उपलब्धैः अवसरैः परिचाययति। राज्य-मण्डपे प्रदेशस्य औद्योगिक-संस्थागत-सामर्थ्यानि, निवेशस्य अवसराः तथा अर्धचालक-वैद्युतिकीय-क्षेत्रस्य परितन्त्रं प्रदर्श्यते।
राज्य-सहभागिरूपेण मध्यप्रदेशस्य सहभागितया वैश्विकस्य अर्धचालक-वैद्युतिकीय-परितन्त्रस्य विकासाय राज्यस्य प्रतिबद्धता सुदृढीक्रियते। तेन व्यवसाय-सर्वकारयोः तथा व्यवसाय-व्यवसाययोः संवादः अपि प्रवर्ध्यते। अस्य माध्यमेन निवेशस्य, प्रौद्योगिकीय-सहभागितायाः, विनिर्माणस्य, अनु-सन्धानस्य, नवाचारस्य तथा कुशल-रोजगारस्य अवसराणां विषये संवादः अग्रे वर्ध्यते। सेमिकॉन इण्डिया-२०२६ इत्यस्मिन् मध्यप्रदेशः अर्धचालक-मूल्यशृङ्खलया सम्बद्धं रणनैतिकं संवादं सुदृढीकर्तुं तथा नववंशेषु प्रौद्योगिकीषु निवेशाय राज्यस्य सज्जतां प्रदर्शयति।
Hindusthan Samachar / Divya Ranjan