केन्द्रीयमन्त्रिणा नड्डा इत्यनेन सह मिलितवान् मध्यप्रदेशस्य मुख्यमन्त्री, प्रदेशसम्बद्धानां लम्बितविषयै: सह विविधविषयेषु चर्चा
भोपालम्, १८ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः शुक्रवासरे नवदिल्ली इत्यस्य प्रवासस्य समये केन्द्रीयस्वास्थ्य-परिवारकल्याण-रसायन-उर्वरकमन्त्री जगत्प्रकाशनड्डा इत्यनेन तस्य कार्यालये सौजन्य-साक्षात्कारं कृतवान्। अस्मिन्
केंद्रीय मंत्री नड्डा से मिले मप्र के मुख्यमंत्री


भोपालम्, १८ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः शुक्रवासरे नवदिल्ली इत्यस्य प्रवासस्य समये केन्द्रीयस्वास्थ्य-परिवारकल्याण-रसायन-उर्वरकमन्त्री जगत्प्रकाशनड्डा इत्यनेन तस्य कार्यालये सौजन्य-साक्षात्कारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा मध्यप्रदेशसम्बद्धेषु विविध-विषयेषु चर्चा कृता।

मुख्यमन्त्री डॉ. यादवः सामाजिक-माध्यमस्य माध्यमेन उक्तां सूचनां सहभागं कुर्वन् अवदत् यत् केन्द्रीयस्वास्थ्यमन्त्रिणः नड्डा इत्यनेन सह साक्षात्कारस्य समये मध्यप्रदेशसम्बद्धानां लम्बितविषयाणां तथा केन्द्रसर्वकारस्य स्तरे लम्बितानां विविधप्रकरणानां विषये चर्चा अभवत्। मुख्यमन्त्रिणा एतेषां प्रकरणानां शीघ्रनिराकरणाय आवश्यकसहयोगस्य च विषये केन्द्रीयमन्त्रिणा नड्डा इत्यनेन सह चर्चा कृता।

Hindusthan Samachar / Divya Ranjan