एनडीएमसीद्वारा भित्तिचित्रकार्यशालायाः आयोजनम्
-कलामाध्यमेन विकसितभारतस्य सङ्कल्पं साकारयन्ति देशव्यापिनः कलाकाराः नवदिल्ली, १८ सितम्बरमासः (हि.स.)। ‘सेवासङ्कल्प’ अभियानस्य अन्तर्गतं नवदेहलीनगरपालिकापरिषदा आयोजितायां भित्तिचित्रकार्यशालायां शुक्रवासरे पञ्चकुइयांमार्गे पारम्परिकानि समकालीनानि च
बांसुरी स्वराज कार्यक्रम में।


-कलामाध्यमेन विकसितभारतस्य सङ्कल्पं साकारयन्ति देशव्यापिनः कलाकाराः

नवदिल्ली, १८ सितम्बरमासः (हि.स.)। ‘सेवासङ्कल्प’ अभियानस्य अन्तर्गतं नवदेहलीनगरपालिकापरिषदा आयोजितायां भित्तिचित्रकार्यशालायां शुक्रवासरे पञ्चकुइयांमार्गे पारम्परिकानि समकालीनानि च भारतीयभित्तिचित्राणि निर्मातृभिः वरिष्ठकलाकारैः सह नवदेहलीस्य सांसदः बाँसुरीस्वराजः तथा नवदेहलीनगरपालिकापरिषदः उपाध्यक्षः कुलजीतसिंहचहलश्च मिलितवन्तौ। ताभ्यां कलाकाराणां कार्यं दृष्टं, तेषां प्रशंसा कृता, उत्साहवर्धनं च कृतम्।

बाँसुरीस्वराजः अवदत् यत् कलाकाराः चित्रकलामाध्यमेन प्रधानमन्त्री नरेन्द्रमोदिनः ‘विकसितभारत २०४७’ इति सङ्कल्पं साकारयितुं प्रयत्नं कुर्वन्ति। देशस्य युवशक्तिं सह नीत्वा अस्य सङ्कल्पस्य सिद्धिं प्रति अग्रे वर्धितव्यं इति सन्देशः भित्तिचित्रकलया भित्तिकलया च अतीव सुन्दररूपेण प्रस्तुतः क्रियते। इयं पहलः पञ्चसु विभिन्नेषु स्थानेषु प्रचलति, यस्यां देशस्य विभिन्नेभ्यः भागेभ्यः पञ्चदश कलाकाराः सम्मिलिताः सन्ति। प्रायः ४२०० वर्गफुट् क्षेत्रे ते कलाकाराः भारतस्य विरासतं विकासं भविष्यं च चित्ररूपेण भित्तिषु अङ्कयन्ति।

सा अवदत् यत् प्रधानमन्त्रिणः जन्मदिवसस्य उपलक्ष्ये प्रचलितस्य एकमासीयस्य ‘सेवासङ्कल्प’ अभियानस्य महत्त्वपूर्णः भागः एषा एनडीएमसी संस्थायाः पहलः अस्ति। इयं पहलः भारतस्य समृद्धायै विरासतायै प्रधानमन्त्रिणः अथकप्रयत्नानां च समर्पिता अस्ति। कलाकारानां कृते पूर्णा सृजनात्मकस्वतन्त्रता प्रदत्ता अस्ति। चित्रेषु एकतः भारतस्य समृद्धा विरासत्, ऐतिहासिकस्थलानि मन्दिराणां घण्टिकाश्च दृश्यन्ते, अपरतः तेजसः बुलेट् रेलयानं च इत्यादयः आधुनिकभारतस्य प्रतीकाः अपि दृश्यन्ते। योगं भारतस्य सौम्यशक्तिरूपेण प्रस्तुतुं प्रयत्नोऽपि एतेषु चित्रेषु दृश्यते। वाराणसीतः आगतेन कलाकार बलदाऊ इत्यनेन योगः अतीव सुन्दररूपेण चित्रितः अस्ति।

स्वराजः अवदत् यत् प्रधानमन्त्रिणः सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणां यात्रा गुजरातस्य मुख्यमन्त्रिरूपेण त्रयोदशवर्षाणि प्रधानमन्त्रीरूपेण द्वादशवर्षाणि च सेवायाः सुशासनस्य राष्ट्रनिर्माणस्य च सङ्कल्पेन सम्बद्धा अभवत्। एष एव भावः एतेषु भित्तिचित्रेष्वपि दृश्यते। देहलीनगरस्य विशेषतः नवदेहलीसंसदीयक्षेत्रस्य कृते एतत् सौभाग्यस्य विषयः अस्ति यत् एनडीएमसी संस्थया प्रायः ४२०० वर्गफुट् क्षेत्रे एतादृशी कला विकसिताऽस्ति, या नागरिकेभ्यः भाविसन्ततिभ्यश्च भारतस्य विरासत् विकासं भविष्यं च प्रति सन्देशं प्रदास्यति।

एनडीएमसी संस्थायाः उपाध्यक्षः कुलजीतसिंहचहलः अवदत् यत् ‘सेवासङ्कल्प’ अभियानस्य अन्तर्गतं एनडीएमसी संस्था कलां संस्कृतिं च सार्वजनिकस्थलैः सह संयोजयितुं प्रयत्नं करोति। नवदेहल्याः प्रमुखासु भित्तिषु भारतस्य समृद्धसंस्कृतेः परम्परायाः विरासतेः आधुनिकचिन्तनस्य च प्रदर्शनं कुर्वन्तः भित्तिचित्राणि निर्मीयन्ते। अस्य उद्देश्यं सामान्याः रिक्ताश्च भित्तीः सुन्दराः आकर्षकाश्च कर्तुं जनान् भारतीयकलासंस्कृतिभ्यां च संयोजितुं च अस्ति।

तेन उक्तं यत् एषा सप्तदिवसीया भित्तिचित्रकार्यशाला १७ सितम्बरतः २३ सितम्बर् २०२६ पर्यन्तं प्रातः दशवादनतः सायं षड्वादनपर्यन्तं प्रचलति। अस्यां देशस्य विभिन्नेभ्यः भागेभ्यः आगताः वरिष्ठकलाकाराः भागं गृह्णन्ति। श्रीचहलेन उक्तं यत् इयं पहलः ‘विकसितभारत २०४७’ इति विचारधारया सम्बद्धा अस्ति। प्राचीनकलां संस्कृतिं च आधुनिककलया सह संयोज्य नवदेहल्यै विशिष्टां परिचितिं प्रदातुं प्रयत्नः क्रियते। एतेषां भित्तिचित्राणां माध्यमेन नागरिकेभ्यः, विद्यार्थिभ्यः, पर्यटकेभ्यः विदेशेभ्यः आगच्छद्भ्यश्च भारतस्य कलासंस्कृत्योः सह सम्बद्धतायाः अवसरः प्राप्स्यते।

तेन उक्तं यत् कला कस्यापि सामान्यस्थलस्य सौन्दर्यं वर्धयित्वा तं विशेषं कर्तुं शक्नोति। एनडीएमसी संस्थायाः एतैः भित्तिचित्रैः वरिष्ठकलाकाराणां स्वकलाप्रदर्शनाय मञ्चः प्राप्यते तथा देहलीनगरस्य भित्तिषु भारतस्य संस्कृतिः विरासत् च प्रदर्श्यते। कलाकाराः विरासतं विकासम् आत्मनिर्भरता आधुनिकतां उज्ज्वलं भविष्यं च भित्तिषु चित्ररूपेण अङ्कयितुं प्रयत्नं कृतवन्तः।

अस्याः पहलस्य अन्तर्गतं पञ्चकुइयांमार्गे, कनॉटप्लेसस्य बाह्यवृत्तस्य एच् खण्डे, कनॉटप्लेसस्य मध्यवृत्तस्य जी खण्डे, चेम्सफोर्डमार्गस्य दिशि गच्छतः बाह्यवृत्तस्य समीपे तथा कनॉटप्लेसस्य बाह्यवृत्तस्य जी खण्डे च इत्यादिषु प्रमुखेषु स्थानेषु भित्तिचित्राणि निर्मीयन्ते।

एनडीएमसी संस्थायाः उद्देश्यं एतेषां भित्तिचित्राणां माध्यमेन नवदेहल्याः सौन्दर्यं वर्धयितुं भारतीयकलायाः संस्कृतेश्च प्रोत्साहनं च कर्तुम् अस्ति। युवानः स्वकलया विरासतया च सह सम्बद्धाः भवन्तु, सार्वजनिकस्थलानि आकर्षकाणि भवन्तु तथा नवदेहल्याः सांस्कृतिकपरिचितिः विकसिताभवेत् इति दिशि एतत् महत्त्वपूर्णं पदक्षेपम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani