नेपालदेशेन १३ देशेभ्यः राजदूतानां नामानि प्रस्तावितानि, भारताय निश्चलनाथपाण्डे इत्यस्य नाम प्रस्तावितम्।
काठमांडूः, 18 सितंबरमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेंद्रशाहस्य अध्यक्षतायां शुक्रवासरे सम्पन्नायां मन्त्रिपरिषदः सभायां विभिन्नेभ्यः त्रयोदशदेशेभ्यः राजदूतानां नामानि प्रस्तावितानि। एतेषु भारतं, चीनं, अमेरिका, ब्रिटेन, जापानं, दक्षिणकोरि
नेपाल कैबिनेट की फाइल तस्वीर


काठमांडूः, 18 सितंबरमासः (हि.स.)।

नेपालस्य प्रधानमन्त्री बालेंद्रशाहस्य अध्यक्षतायां शुक्रवासरे सम्पन्नायां मन्त्रिपरिषदः सभायां विभिन्नेभ्यः त्रयोदशदेशेभ्यः राजदूतानां नामानि प्रस्तावितानि। एतेषु भारतं, चीनं, अमेरिका, ब्रिटेन, जापानं, दक्षिणकोरिया, इजरायल्, सऊदी अरब इत्यादयः अनेकाः महत्त्वपूर्णाः देशाः सम्मिलिताः सन्ति।

नेपालसर्वकारेण प्रस्तावितानां राजदूतानां सूची एवं अस्ति—

१. डॉ. निश्चलनाथपाण्डे — भारतम्

२. डॉ. कल्याणराजशर्मा — चीनम्

३. चिरञ्जीवङ्गथापा — अमेरिका

४. पूर्वप्रधानसेनापतिः गौरवशम्शेरजङ्गबहादुरराणा (सेवानिवृत्तः) — ब्रिटेन

५. जिग्यानकुमारथापा — जापानम्

६. सुरेशकुमारकर्णः — इजरायल्

७. प्राप्तिशेरचन — स्पेन

८. शारूजोशी — जर्मनी

९. डॉ. पद्माक्षीराणा — ओमान

१०. चूडामणिखरेलः — मलेशिया

११. प्रो. डॉ. सङ्गमश्रेष्ठः — दक्षिणकोरिया

१२. डॉ. मञ्चलझा — श्रीलङ्का

१३. गिरिबहादुरसुनारः — सऊदी अरब

सूत्राणाम् अनुसारं राजदूतानां नियुक्तिप्रक्रियायां अधुना एतेषु नामसु संसदीयश्रवणं भविष्यति। संसदीयश्रवणस्य स्वीकृतेश्च अनन्तरं सम्बन्धितदेशेभ्यः राजदूतानां कृते एग्रिमो इति औपचारिकसहमति प्राप्ता भविष्यति। ततः राष्ट्रपतेः पक्षतः औपचारिकनियुक्त्यादेशस्य निर्गमनेन सह एषा प्रक्रिया पूर्णा भविष्यति।

नेपालस्य अनेकेषु राजनयिकप्रतिनिधिमण्डलेषु दीर्घकालात् राजदूतानां पदानि रिक्तानि सन्ति। सूत्रैः उक्तं यत् सर्वकारेण सम्प्रति त्रयोदशदेशेभ्यः नामानि अग्रे प्रेषितानि सन्ति, यदा तु अन्येषु रिक्तप्रतिनिधिमण्डलेषु नियुक्तिप्रक्रियामपि शीघ्रमेव अग्रे नेष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani